Sukta 25
Mandala 8 · 24 rks
24 rks · free forever
Uses your saved HI voice · Narration settings
Rk 1
ता वां॒ विश्व॑स्य गो॒पा दे॒वा दे॒वेषु॑ य॒ज्ञिया॑ ऋ॒तावा॑ना यजसे पू॒तद॑क्षसा
Rk 2
मि॒त्रा तना॒ न र॒थ्या॒३॒॑ वरु॑णो॒ यश्च॑ सु॒क्रतुः॑ स॒नात्सु॑जा॒ता तन॑या धृ॒तव्र॑ता
Rk 3
ता मा॒ता वि॒श्ववे॑दसासु॒र्या॑य॒ प्रम॑हसा म॒ही ज॑जा॒नादि॑तिर्ऋ॒ताव॑री
Rk 4
म॒हान्ता॑ मि॒त्रावरु॑णा स॒म्राजा॑ दे॒वावसु॑रा ऋ॒तावा॑नावृ॒तमा घो॑षतो बृ॒हत्
Rk 5
नपा॑ता॒ शव॑सो म॒हः सू॒नू दक्ष॑स्य सु॒क्रतू॑ सृ॒प्रदा॑नू इ॒षो वास्त्वधि॑ क्षितः
Rk 6
सं या दानू॑नि ये॒मथु॑र्दि॒व्याः पार्थि॑वी॒रिषः॑ नभ॑स्वती॒रा वां॑ चरन्तु वृ॒ष्टयः॑
Rk 7
अधि॒ या बृ॑ह॒तो दि॒वो॒३॒॑ऽभि यू॒थेव॒ पश्य॑तः ऋ॒तावा॑ना स॒म्राजा॒ नम॑से हि॒ता
Rk 8
ऋ॒तावा॑ना॒ नि षे॑दतुः॒ साम्रा॑ज्याय सु॒क्रतू॑ धृ॒तव्र॑ता क्ष॒त्रिया॑ क्ष॒त्रमा॑शतुः
Rk 9
अ॒क्ष्णश्चि॑द्गातु॒वित्त॑रानुल्ब॒णेन॒ चक्ष॑सा नि चि॑न्मि॒षन्ता॑ निचि॒रा नि चि॑क्यतुः
Rk 10
उ॒त नो॑ दे॒व्यदि॑तिरुरु॒ष्यतां॒ नास॑त्या उ॒रु॒ष्यन्तु॑ म॒रुतो॑ वृ॒द्धश॑वसः
Rk 11
ते नो॑ ना॒वमु॑रुष्यत॒ दिवा॒ नक्तं॑ सुदानवः अरि॑ष्यन्तो॒ नि पा॒युभिः॑ सचेमहि
Rk 12
अघ्न॑ते॒ विष्ण॑वे व॒यमरि॑ष्यन्तः सु॒दान॑वे श्रु॒धि स्व॑यावन्त्सिन्धो पू॒र्वचि॑त्तये
Rk 13
तद्वार्यं॑ वृणीमहे॒ वरि॑ष्ठं गोप॒यत्य॑म् मि॒त्रो यत्पान्ति॒ वरु॑णो॒ यद॑र्य॒मा
Rk 14
उ॒त नः॒ सिन्धु॑र॒पां तन्म॒रुत॒स्तद॒श्विना॑ इन्द्रो॒ विष्णु॑र्मी॒ढ्वांसः॑ स॒जोष॑सः
Rk 15
ते हि ष्मा॑ व॒नुषो॒ नरो॒ऽभिमा॑तिं॒ कय॑स्य चित् ति॒ग्मं न क्षोदः॑ प्रति॒घ्नन्ति॒ भूर्ण॑यः
Rk 16
अ॒यमेक॑ इ॒त्था पु॒रूरु च॑ष्टे॒ वि वि॒श्पतिः॑ तस्य॑ व्र॒तान्यनु॑ वश्चरामसि
Rk 17
अनु॒ पूर्वा॑ण्यो॒क्या॑ साम्रा॒ज्यस्य॑ सश्चिम मि॒त्रस्य॑ व्र॒ता वरु॑णस्य दीर्घ॒श्रुत्
Rk 18
परि॒ यो र॒श्मिना॑ दि॒वोऽन्ता॑न्म॒मे पृ॑थि॒व्याः उ॒भे आ प॑प्रौ॒ रोद॑सी महि॒त्वा
Rk 19
उदु॒ ष्य श॑र॒णे दि॒वो ज्योति॑रयंस्त॒ सूर्यः॑ अ॒ग्निर्न शु॒क्रः स॑मिधा॒न आहु॑तः
Rk 20
वचो॑ दी॒र्घप्र॑सद्म॒नीशे॒ वाज॑स्य॒ गोम॑तः ईशे॒ हि पि॒त्वो॑ऽवि॒षस्य॑ दा॒वने॑
Rk 21
तत्सूर्यं॒ रोद॑सी उ॒भे दो॒षा वस्तो॒रुप॑ ब्रुवे भो॒जेष्व॒स्माँ अ॒भ्युच्च॑रा॒ सदा॑
Rk 22
ऋ॒ज्रमु॑क्ष॒ण्याय॑ने रज॒तं हर॑याणे रथं॑ यु॒क्तम॑सनाम सु॒षाम॑णि
Rk 23
ता मे॒ अश्व्या॑नां॒ हरी॑णां नि॒तोश॑ना उ॒तो नु कृत्व्या॑नां नृ॒वाह॑सा
Rk 24
स्मद॑भीशू॒ कशा॑वन्ता॒ विप्रा॒ नवि॑ष्ठया म॒ती म॒हो वा॒जिना॒वर्व॑न्ता॒ सचा॑सनम्