Sukta 12
Mandala 8 · 33 rks
33 rks · free forever
Uses your saved HI voice · Narration settings
Rk 1
य इ॑न्द्र सोम॒पात॑मो॒ मदः॑ शविष्ठ॒ चेत॑ति येना॒ हंसि॒ न्य१॒॑त्रिणं॒ तमी॑महे
Rk 2
येना॒ दश॑ग्व॒मध्रि॑गुं वे॒पय॑न्तं॒ स्व॑र्णरम् येना॑ समु॒द्रमावि॑था॒ तमी॑महे
Rk 3
येन॒ सिन्धुं॑ म॒हीर॒पो रथाँ॑ इव प्रचो॒दयः॑ पन्था॑मृ॒तस्य॒ यात॑वे॒ तमी॑महे
Rk 4
इ॒मं स्तोम॑म॒भिष्ट॑ये घृ॒तं न पू॒तम॑द्रिवः येना॒ नु स॒द्य ओज॑सा व॒वक्षि॑थ
Rk 5
इ॒मं जु॑षस्व गिर्वणः समु॒द्र इ॑व पिन्वते इन्द्र॒ विश्वा॑भिरू॒तिभि॑र्व॒वक्षि॑थ
Rk 6
यो नो॑ दे॒वः प॑रा॒वतः॑ सखित्व॒नाय॑ माम॒हे दि॒वो न वृ॒ष्टिं प्र॒थय॑न्व॒वक्षि॑थ
Rk 7
व॒व॒क्षुर॑स्य के॒तव॑ उ॒त वज्रो॒ गभ॑स्त्योः यत्सूर्यो॒ न रोद॑सी॒ अव॑र्धयत्
Rk 8
यदि॑ प्रवृद्ध सत्पते स॒हस्रं॑ महि॒षाँ अघः॑ आदित्त॑ इन्द्रि॒यं महि॒ प्र वा॑वृधे
Rk 9
इन्द्रः॒ सूर्य॑स्य र॒श्मिभि॒र्न्य॑र्शसा॒नमो॑षति अ॒ग्निर्वने॑व सास॒हिः प्र वा॑वृधे
Rk 10
इ॒यं त॑ ऋ॒त्विया॑वती धी॒तिरे॑ति॒ नवी॑यसी स॒प॒र्यन्ती॑ पुरुप्रि॒या मिमी॑त॒ इत्
Rk 11
गर्भो॑ य॒ज्ञस्य॑ देव॒युः क्रतुं॑ पुनीत आनु॒षक् स्तोमै॒रिन्द्र॑स्य वावृधे॒ मिमी॑त॒ इत्
Rk 12
स॒निर्मि॒त्रस्य॑ पप्रथ॒ इन्द्रः॒ सोम॑स्य पी॒तये॑ प्राची॒ वाशी॑व सुन्व॒ते मिमी॑त॒ इत्
Rk 13
यं विप्रा॑ उ॒क्थवा॑हसोऽभिप्रम॒न्दुरा॒यवः॑ घृ॒तं न पि॑प्य आ॒सन्यृ॒तस्य॒ यत्
Rk 14
उ॒त स्व॒राजे॒ अदि॑तिः॒ स्तोम॒मिन्द्रा॑य जीजनत् पु॒रु॒प्र॒श॒स्तमू॒तय॑ ऋ॒तस्य॒ यत्
Rk 15
अ॒भि वह्न॑य ऊ॒तयेऽनू॑षत॒ प्रश॑स्तये न दे॑व॒ विव्र॑ता॒ हरी॑ ऋ॒तस्य॒ यत्
Rk 16
यत्सोम॑मिन्द्र॒ विष्ण॑वि॒ यद्वा॑ घ त्रि॒त आ॒प्त्ये यद्वा॑ म॒रुत्सु॒ मन्द॑से॒ समिन्दु॑भिः
Rk 17
यद्वा॑ शक्र परा॒वति॑ समु॒द्रे अधि॒ मन्द॑से अ॒स्माक॒मित्सु॒ते र॑णा॒ समिन्दु॑भिः
Rk 18
यद्वासि॑ सुन्व॒तो वृ॒धो यज॑मानस्य सत्पते उ॒क्थे वा॒ यस्य॒ रण्य॑सि॒ समिन्दु॑भिः
Rk 19
दे॒वंदे॑वं॒ वोऽव॑स॒ इन्द्र॑मिन्द्रं गृणी॒षणि॑ अधा॑ य॒ज्ञाय॑ तु॒र्वणे॒ व्या॑नशुः
Rk 20
य॒ज्ञेभि॑र्य॒ज्ञवा॑हसं॒ सोमे॑भिः सोम॒पात॑मम् होत्रा॑भि॒रिन्द्रं॑ वावृधु॒र्व्या॑नशुः
Rk 21
म॒हीर॑स्य॒ प्रणी॑तयः पू॒र्वीरु॒त प्रश॑स्तयः विश्वा॒ वसू॑नि दा॒शुषे॒ व्या॑नशुः
Rk 22
इन्द्रं॑ वृ॒त्राय॒ हन्त॑वे दे॒वासो॑ दधिरे पु॒रः इन्द्रं॒ वाणी॑रनूषता॒ समोज॑से
Rk 23
म॒हान्तं॑ महि॒ना व॒यं स्तोमे॑भिर्हवन॒श्रुत॑म् अ॒र्कैर॒भि प्र णो॑नुमः॒ समोज॑से
Rk 24
न यं वि॑वि॒क्तो रोद॑सी॒ नान्तरि॑क्षाणि व॒ज्रिण॑म् अमा॒दिद॑स्य तित्विषे॒ समोज॑सः
Rk 25
यदि॑न्द्र पृत॒नाज्ये॑ दे॒वास्त्वा॑ दधि॒रे पु॒रः आदित्ते॑ हर्य॒ता हरी॑ ववक्षतुः
Rk 26
य॒दा वृ॒त्रं न॑दी॒वृतं॒ शव॑सा वज्रि॒न्नव॑धीः आदित्ते॑ हर्य॒ता हरी॑ ववक्षतुः
Rk 27
य॒दा ते॒ विष्णु॒रोज॑सा॒ त्रीणि॑ प॒दा वि॑चक्र॒मे आदित्ते॑ हर्य॒ता हरी॑ ववक्षतुः
Rk 28
य॒दा ते॑ हर्य॒ता हरी॑ वावृ॒धाते॑ दि॒वेदि॑वे आदित्ते॒ विश्वा॒ भुव॑नानि येमिरे
Rk 29
य॒दा ते॒ मारु॑ती॒र्विश॒स्तुभ्य॑मिन्द्र नियेमि॒रे आदित्ते॒ विश्वा॒ भुव॑नानि येमिरे
Rk 30
य॒दा सूर्य॑म॒मुं दि॒वि शु॒क्रं ज्योति॒रधा॑रयः आदित्ते॒ विश्वा॒ भुव॑नानि येमिरे
Rk 31
इ॒मां त॑ इन्द्र सुष्टु॒तिं विप्र॑ इयर्ति धी॒तिभिः॑ जा॒मिं प॒देव॒ पिप्र॑तीं॒ प्राध्व॒रे
Rk 32
यद॑स्य॒ धाम॑नि प्रि॒ये स॑मीची॒नासो॒ अस्व॑रन् नाभा॑ य॒ज्ञस्य॑ दो॒हना॒ प्राध्व॒रे
Rk 33
सु॒वीर्यं॒ स्वश्व्यं॑ सु॒गव्य॑मिन्द्र दद्धि नः होते॑व पू॒र्वचि॑त्तये॒ प्राध्व॒रे