Sukta 42
Mandala 3 · 9 rks
9 rks · free forever
Listen to this section
Uses your saved HI voice · Narration settings
Rk 1
उप॑ नः सु॒तमा ग॑हि॒ सोम॑मिन्द्र॒ गवा॑शिरम् हरि॑भ्यां॒ यस्ते॑ अस्म॒युः
Rk 2
तमि॑न्द्र॒ मद॒मा ग॑हि बर्हिः॒ष्ठां ग्राव॑भिः सु॒तम् कु॒विन्न्व॑स्य तृ॒प्णवः॑
Rk 3
इन्द्र॑मि॒त्था गिरो॒ ममाच्छा॑गुरिषि॒ता इ॒तः आ॒वृते॒ सोम॑पीतये
Rk 4
इन्द्रं॒ सोम॑स्य पी॒तये॒ स्तोमै॑रि॒ह ह॑वामहे उ॒क्थेभिः॑ कु॒विदा॒गम॑त्
Rk 5
इन्द्र॒ सोमाः॑ सु॒ता इ॒मे तान्द॑धिष्व शतक्रतो ज॒ठरे॑ वाजिनीवसो
Rk 6
वि॒द्मा हि त्वा॑ धनंज॒यं वाजे॑षु दधृ॒षं क॑वे अधा॑ ते सु॒म्नमी॑महे
Rk 7
इ॒ममि॑न्द्र॒ गवा॑शिरं॒ यवा॑शिरं च नः पिब आ॒गत्या॒ वृष॑भिः सु॒तम्
Rk 8
तुभ्येदि॑न्द्र॒ स्व ओ॒क्ये॒३॒॑ सोमं॑ चोदामि पी॒तये॑ ए॒ष रा॑रन्तु ते हृ॒दि
Rk 9
त्वां सु॒तस्य॑ पी॒तये॑ प्र॒त्नमि॑न्द्र हवामहे कु॒शि॒कासो॑ अव॒स्यवः॑