Sukta 8
Mandala 2 · 6 rks
6 rks · free forever
Listen to this section
Uses your saved HI voice · Narration settings
Rk 1
वा॒ज॒यन्नि॑व॒ नू रथा॒न्योगाँ॑ अ॒ग्नेरुप॑ स्तुहि य॒शस्त॑मस्य मी॒ळ्हुषः॑
Rk 2
यः सु॑नी॒थो द॑दा॒शुषे॑ऽजु॒र्यो ज॒रय॑न्न॒रिम् चारु॑प्रतीक॒ आहु॑तः
Rk 3
य उ॑ श्रि॒या दमे॒ष्वा दो॒षोषसि॑ प्रश॒स्यते॑ यस्य॑ व्र॒तं न मीय॑ते
Rk 4
आ यः स्व१॒॑र्ण भा॒नुना॑ चि॒त्रो वि॒भात्य॒र्चिषा॑ अ॒ञ्जा॒नो अ॒जरै॑र॒भि
Rk 5
अत्रि॒मनु॑ स्व॒राज्य॑म॒ग्निमु॒क्थानि॑ वावृधुः विश्वा॒ अधि॒ श्रियो॑ दधे
Rk 6
अ॒ग्नेरिन्द्र॑स्य॒ सोम॑स्य दे॒वाना॑मू॒तिभि॑र्व॒यम् अरि॑ष्यन्तः सचेमह्य॒भि ष्या॑म पृतन्य॒तः