Sukta 7
Mandala 2 · 6 rks
6 rks · free forever
Listen to this section
Uses your saved HI voice · Narration settings
Rk 1
श्रेष्ठं॑ यविष्ठ भार॒ताग्ने॑ द्यु॒मन्त॒मा भ॑र वसो॑ पुरु॒स्पृहं॑ र॒यिम्
Rk 2
मा नो॒ अरा॑तिरीशत दे॒वस्य॒ मर्त्य॑स्य च पर्षि॒ तस्या॑ उ॒त द्वि॒षः
Rk 3
विश्वा॑ उ॒त त्वया॑ व॒यं धारा॑ उद॒न्या॑ इव अति॑ गाहेमहि॒ द्विषः॑
Rk 4
शुचिः॑ पावक॒ वन्द्योऽग्ने॑ बृ॒हद्वि रो॑चसे त्वं घृ॒तेभि॒राहु॑तः
Rk 5
त्वं नो॑ असि भार॒ताग्ने॑ व॒शाभि॑रु॒क्षभिः॑ अ॒ष्टाप॑दीभि॒राहु॑तः
Rk 6
द्र्व॑न्नः स॒र्पिरा॑सुतिः प्र॒त्नो होता॒ वरे॑ण्यः सह॑सस्पु॒त्रो अद्भु॑तः