Sukta 146
Mandala 10 · 6 rks
6 rks · free forever
Listen to this section
Uses your saved HI voice · Narration settings
Rk 1
अर॑ण्या॒न्यर॑ण्यान्य॒सौ या प्रेव॒ नश्य॑सि क॒था ग्रामं॒ न पृ॑च्छसि॒ न त्वा॒ भीरि॑व विन्दती३ँ
Rk 2
वृ॒षा॒र॒वाय॒ वद॑ते॒ यदु॒पाव॑ति चिच्चि॒कः आ॒घा॒टिभि॑रिव धा॒वय॑न्नरण्या॒निर्म॑हीयते
Rk 3
उ॒त गाव॑ इवादन्त्यु॒त वेश्मे॑व दृश्यते उ॒तो अ॑रण्या॒निः सा॒यं श॑क॒टीरि॑व सर्जति
Rk 4
गाम॒ङ्गैष आ ह्व॑यति॒ दार्व॒ङ्गैषो अपा॑वधीत् वस॑न्नरण्या॒न्यां सा॒यमक्रु॑क्ष॒दिति॑ मन्यते
Rk 5
न वा अ॑रण्या॒निर्ह॑न्त्य॒न्यश्चेन्नाभि॒गच्छ॑ति स्वा॒दोः फल॑स्य ज॒ग्ध्वाय॑ यथा॒कामं॒ नि प॑द्यते
Rk 6
आञ्ज॑नगन्धिं सुर॒भिं ब॑ह्व॒न्नामकृ॑षीवलाम् प्राहं मृ॒गाणां॑ मा॒तर॑मरण्या॒निम॑शंसिषम्