Sukta 118
Mandala 10 · 9 rks
9 rks · free forever
Listen to this section
Uses your saved HI voice · Narration settings
Rk 1
अग्ने॒ हंसि॒ न्य१॒॑त्रिणं॒ दीद्य॒न्मर्त्ये॒ष्वा स्वे क्षये॑ शुचिव्रत
Rk 2
उत्ति॑ष्ठसि॒ स्वा॑हुतो घृ॒तानि॒ प्रति॑ मोदसे यत्त्वा॒ स्रुचः॑ स॒मस्थि॑रन्
Rk 3
स आहु॑तो॒ वि रो॑चते॒ऽग्निरी॒ळेन्यो॑ गि॒रा स्रु॒चा प्रती॑कमज्यते
Rk 4
घृ॒तेना॒ग्निः सम॑ज्यते॒ मधु॑प्रतीक॒ आहु॑तः रोच॑मानो वि॒भाव॑सुः
Rk 5
जर॑माणः॒ समि॑ध्यसे दे॒वेभ्यो॑ हव्यवाहन तं त्वा॑ हवन्त॒ मर्त्याः॑
Rk 6
तं म॑र्ता॒ अम॑र्त्यं घृ॒तेना॒ग्निं स॑पर्यत अदा॑भ्यं गृ॒हप॑तिम्
Rk 7
अदा॑भ्येन शो॒चिषाग्ने॒ रक्ष॒स्त्वं द॑ह गो॒पा ऋ॒तस्य॑ दीदिहि
Rk 8
स त्वम॑ग्ने॒ प्रती॑केन॒ प्रत्यो॑ष यातुधा॒न्यः॑ उ॒रु॒क्षये॑षु॒ दीद्य॑त्
Rk 9
तं त्वा॑ गी॒र्भिरु॑रु॒क्षया॑ हव्य॒वाहं॒ समी॑धिरे यजि॑ष्ठं॒ मानु॑षे॒ जने॑