Sukta 188
Mandala 1 · 11 rks
11 rks · free forever
Uses your saved HI voice · Narration settings
Rk 1
समि॑द्धो अ॒द्य रा॑जसि दे॒वो दे॒वैः स॑हस्रजित् दू॒तो ह॒व्या क॒विर्व॑ह
Rk 2
तनू॑नपादृ॒तं य॒ते मध्वा॑ य॒ज्ञः सम॑ज्यते दध॑त्सह॒स्रिणी॒रिषः॑
Rk 3
आ॒जुह्वा॑नो न॒ ईड्यो॑ दे॒वाँ आ व॑क्षि य॒ज्ञिया॑न् अग्ने॑ सहस्र॒सा अ॑सि
Rk 4
प्रा॒चीनं॑ ब॒र्हिरोज॑सा स॒हस्र॑वीरमस्तृणन् यत्रा॑दित्या वि॒राज॑थ
Rk 5
वि॒राट् स॒म्राड्वि॒भ्वीः प्र॒भ्वीर्ब॒ह्वीश्च॒ भूय॑सीश्च॒ याः दुरो॑ घृ॒तान्य॑क्षरन्
Rk 6
सु॒रु॒क्मे हि सु॒पेश॒साधि॑ श्रि॒या वि॒राज॑तः उ॒षासा॒वेह सी॑दताम्
Rk 7
प्र॒थ॒मा हि सु॒वाच॑सा॒ होता॑रा॒ दैव्या॑ क॒वी य॒ज्ञं नो॑ यक्षतामि॒मम्
Rk 8
भार॒तीळे॒ सर॑स्वति॒ या वः॒ सर्वा॑ उपब्रु॒वे ता न॑श्चोदयत श्रि॒ये
Rk 9
त्वष्टा॑ रू॒पाणि॒ हि प्र॒भुः प॒शून्विश्वा॑न्त्समान॒जे तेषां॑ नः स्फा॒तिमा य॑ज
Rk 10
उप॒ त्मन्या॑ वनस्पते॒ पाथो॑ दे॒वेभ्यः॑ सृज अ॒ग्निर्ह॒व्यानि॑ सिष्वदत्
Rk 11
पु॒रो॒गा अ॒ग्निर्दे॒वानां॑ गाय॒त्रेण॒ सम॑ज्यते स्वाहा॑कृतीषु रोचते