Sukta 187
Mandala 1 · 11 rks
11 rks · free forever
Uses your saved HI voice · Narration settings
Rk 1
पि॒तुं नु स्तो॑षं म॒हो ध॒र्माणं॒ तवि॑षीम् यस्य॑ त्रि॒तो व्योज॑सा वृ॒त्रं विप॑र्वम॒र्दय॑त्
Rk 2
स्वादो॑ पितो॒ मधो॑ पितो व॒यं त्वा॑ ववृमहे अ॒स्माक॑मवि॒ता भ॑व
Rk 3
उप॑ नः पित॒वा च॑र शि॒वः शि॒वाभि॑रू॒तिभिः॑ म॒यो॒भुर॑द्विषे॒ण्यः सखा॑ सु॒शेवो॒ अद्व॑याः
Rk 4
तव॒ त्ये पि॑तो॒ रसा॒ रजां॒स्यनु॒ विष्ठि॑ताः दि॒वि वाता॑ इव श्रि॒ताः
Rk 5
तव॒ त्ये पि॑तो॒ दद॑त॒स्तव॑ स्वादिष्ठ॒ ते पि॑तो प्र स्वा॒द्मानो॒ रसा॑नां तुवि॒ग्रीवा॑ इवेरते
Rk 6
त्वे पि॑तो म॒हानां॑ दे॒वानां॒ मनो॑ हि॒तम् अका॑रि॒ चारु॑ के॒तुना॒ तवाहि॒मव॑सावधीत्
Rk 7
यद॒दो पि॑तो॒ अज॑गन्वि॒वस्व॒ पर्व॑तानाम् अत्रा॑ चिन्नो मधो पि॒तोऽरं॑ भ॒क्षाय॑ गम्याः
Rk 8
यद॒पामोष॑धीनां परिं॒शमा॑रि॒शाम॑हे वाता॑पे॒ पीव॒ इद्भ॑व
Rk 9
यत्ते॑ सोम॒ गवा॑शिरो॒ यवा॑शिरो॒ भजा॑महे वाता॑पे॒ पीव॒ इद्भ॑व
Rk 10
क॒र॒म्भ ओ॑षधे भव॒ पीवो॑ वृ॒क्क उ॑दार॒थिः वाता॑पे॒ पीव॒ इद्भ॑व
Rk 11
तं त्वा॑ व॒यं पि॑तो॒ वचो॑भि॒र्गावो॒ न ह॒व्या सु॑षूदिम दे॒वेभ्य॑स्त्वा सध॒माद॑म॒स्मभ्यं॑ त्वा सध॒माद॑म्