Sukta 11
Mandala 1 · 8 rks
8 rks · free forever
Uses your saved HI voice · Narration settings
Rk 1
इन्द्रं॒ विश्वा॑ अवीवृधन्त्समु॒द्रव्य॑चसं॒ गिरः॑ र॒थीत॑मं र॒थीनां॒ वाजा॑नां॒ सत्प॑तिं॒ पति॑म्
Rk 2
स॒ख्ये त॑ इन्द्र वा॒जिनो॒ मा भे॑म शवसस्पते त्वाम॒भि प्र णो॑नुमो॒ जेता॑र॒मप॑राजितम्
Rk 3
पू॒र्वीरिन्द्र॑स्य रा॒तयो॒ न वि द॑स्यन्त्यू॒तयः॑ यदी॒ वाज॑स्य॒ गोम॑तः स्तो॒तृभ्यो॒ मंह॑ते म॒घम्
Rk 4
पु॒रां भि॒न्दुर्युवा॑ क॒विरमि॑तौजा अजायत इन्द्रो॒ विश्व॑स्य॒ कर्म॑णो ध॒र्ता व॒ज्री पु॑रुष्टु॒तः
Rk 5
त्वं व॒लस्य॒ गोम॒तोऽपा॑वरद्रिवो॒ बिल॑म् त्वां दे॒वा अबि॑भ्युषस्तु॒ज्यमा॑नास आविषुः
Rk 6
तवा॒हं शू॑र रा॒तिभिः॒ प्रत्या॑यं॒ सिन्धु॑मा॒वद॑न् उपा॑तिष्ठन्त गिर्वणो वि॒दुष्टे॒ तस्य॑ का॒रवः॑
Rk 7
मा॒याभि॑रिन्द्र मा॒यिनं॒ त्वं शुष्ण॒मवा॑तिरः वि॒दुष्टे॒ तस्य॒ मेधि॑रा॒स्तेषां॒ श्रवां॒स्युत्ति॑र
Rk 8
इन्द्र॒मीशा॑न॒मोज॑सा॒भि स्तोमा॑ अनूषत स॒हस्रं॒ यस्य॑ रा॒तय॑ उ॒त वा॒ सन्ति॒ भूय॑सीः