Sukta 1
Mandala 1 · 9 rks
9 rks · free forever
Listen to this section
Uses your saved HI voice · Narration settings
Rk 1
अ॒ग्निमी॑ळे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमृ॒त्विज॑म् होता॑रं रत्न॒धात॑मम्
Rk 2
अ॒ग्निः पूर्वे॑भि॒र्ऋषि॑भि॒रीड्यो॒ नूत॑नैरु॒त स दे॒वाँ एह व॑क्षति
Rk 3
अ॒ग्निना॑ र॒यिम॑श्नव॒त्पोष॑मे॒व दि॒वेदि॑वे य॒शसं॑ वी॒रव॑त्तमम्
Rk 4
अग्ने॒ यं य॒ज्ञम॑ध्व॒रं वि॒श्वतः॑ परि॒भूरसि॑ स इद्दे॒वेषु॑ गच्छति
Rk 5
अ॒ग्निर्होता॑ क॒विक्र॑तुः स॒त्यश्चि॒त्रश्र॑वस्तमः दे॒वो दे॒वेभि॒रा ग॑मत्
Rk 6
यद॒ङ्ग दा॒शुषे॒ त्वमग्ने॑ भ॒द्रं क॑रि॒ष्यसि॑ तवेत्तत्स॒त्यम॑ङ्गिरः
Rk 7
उप॑ त्वाग्ने दि॒वेदि॑वे॒ दोषा॑वस्तर्धि॒या व॒यम् नमो॒ भर॑न्त॒ एम॑सि
Rk 8
राज॑न्तमध्व॒राणां॑ गो॒पामृ॒तस्य॒ दीदि॑विम् वर्ध॑मानं॒ स्वे दमे॑
Rk 9
स नः॑ पि॒तेव॑ सू॒नवेऽग्ने॑ सूपाय॒नो भ॑व सच॑स्वा नः स्व॒स्तये॑