Lipi
Sign in
Classic reading room ↗

Sarga 15

Aranya Kanda

31 verses · free forever

Listen to this section

Uses your saved HI voice · Narration settings

  1. Verse 1

    '''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे पञ्चदशः सर्गः ॥३-१५॥''' ततः पंचवटीम् गत्वा नाना व्याल मृगायुताम् । उवाच भ्रातरम् रामो लक्ष्मणम् दीप्त तेजसम्

  2. Verse 2

    आगताः स्म यथा उद्दिष्टम् यम् देशम् मुनिः अब्रवीत् । अयम् पंचवटी देशः सौम्य पुष्पित काननः

  3. Verse 3

    सर्वतः चार्यताम् दृष्टिः कानने निपुणो हि असि । आश्रमः कतर अस्मिन् नः देशे भवति सम्मतः

  4. Verse 4

    रमते यत्र वैदेही त्वम् अहम् चैव लक्ष्मण । तादृशो दृश्यताम् देशः संनिकृष्ट जलाशयः

  5. Verse 5

    वन रामण्यकम् यत्र जल रामण्यकम् तथा । संनिकृष्टम् च यस्मिन् तु समित् पुष्प कुश उदकम्

  6. Verse 6

    एवम् उक्तः तु रामेण लक्मणः संयत अंजलिः । सीता समक्षम् काकुत्स्थम् इदम् वचनम् अब्रवीत्

  7. Verse 7

    परवान् अस्मि काकुत्स्थ त्वयि वर्ष शतम् स्थिते । स्वयम् तु रुचिरे देशे क्रियताम् इति माम् वद

  8. Verse 8

    सुप्रीतः तेन वाक्येन लक्ष्मणस्य महाद्युतिः । विमृशन् रोचयामास देशम् सर्व गुण अन्वितम्

  9. Verse 9

    स तम् रुचिरम् आक्रम्य देशम् आश्रम कर्मणि । हस्ते गृहीत्वा हस्तेन रामः सौमित्रिम् अब्रवीत्

  10. Verse 10

    अयम् देशः समः श्रीमान् पुष्पितैर् तरुभिर् वृतः । इह आश्रम पदम् सौम्य यथावत् कर्तुम् अर्हसि

  11. Verse 11

    इयम् आदित्य संकाशैः पद्मैः सुरभि गंधिभिः । अदूरे दृश्यते रम्या पद्मिनी पद्म शोभिता

  12. Verse 12

    यथा आख्यातम् अगस्त्येन मुनिना भावितात्मना । इयम् गोदावरी रम्या पुष्पितैः तरुभिर् वृता

  13. Verse 13

    हंस कारण्डव आकीर्णा चक्रवाक उपशोभिता । न अतिदूरे न च आसन्ने मृग यूथ निपीडिता

  14. Verse 14

    मयूर नादिता रम्याः प्रांशवो बहु कंदराः । दृश्यन्ते गिरयः सौम्य फुल्लैः तरुभिर् आवृताः

  15. Verse 15

    सौवर्णै राजतैः ताम्रैः देशे देशे च धातुभिः । गवाक्षिता इव आभान्ति गजाः परम भक्तिभिः

  16. Verse 16

    सालैः तालैः तमालैः च खर्जूरैः पनसैः द्रुमैः । नीवारैः तिनिशैः चैव पुन्नागैः च उपशोभिताः

  17. Verse 17

    चूतैर् अशोकैः तिलकैः केतकैर् अपि चंपकैः । पुष्प गुल्म लता उपेतैः तैः तैः तरुभिर् आवृताः

  18. Verse 18

    स्यन्दनैः चंदनैः नीपैः पर्णासैः लकुचैः अपि । धव अश्वकर्ण खदिरैः शमी किंशुक पाटलैः

  19. Verse 19

    इदम् पुण्यम् इदम् रम्यम् इदम् बहु मृग द्विजम् । इह वत्स्याम सौमित्रे सार्धम् एतेन पक्षिणा

  20. Verse 20

    एवम् उक्तः तु रामेण लक्ष्मणः परवीरहा । अचिरेण आश्रमम् भ्रातुः चकार सुमहाबलः

  21. Verse 21

    पर्णशालाम् सुविपुलाम् तत्र संघात मृत्तिकाम् । सुस्तंभाम् मस्करैर् दीर्घैः कृत वंशाम् सुशोभनाम्

  22. Verse 22

    शमी शाखाभिः आस्तीर्य धृढ पाशावपाशितम् । कुश काश शरैः पर्णैः सुपरिच्छादिताम् तथा

  23. Verse 23

    समीकृत तलाम् रम्याम् चकार सुमहाबलः । निवासम् राघवस्य अर्थे प्रेक्ष्णीयम् अनुत्तमम्

  24. Verse 24

    स गत्वा लक्ष्मणः श्रीमान् नदीम् गोदावरीम् तदा । स्नात्वा पद्मानि च आदाय सफलः पुनर् आगतः

  25. Verse 25

    ततः पुष्प बलिम् कृत्वा शान्तिम् च स यथाविधि । दर्शयामास रामाय तद् आश्रम पदम् कृतम्

  26. Verse 26

    स तम् दृष्ट्वा कृतम् सौम्यम् आश्रमम् सह सीतया । राघवः पर्णशालायाम् हर्षम् आहारयत् परम्

  27. Verse 27

    सुसंहृष्टः परिष्वज्य बाहुभ्याम् लक्ष्मणम् तदा । अति स्निग्धम् च गाढम् च वचनम् च इदम् अब्रवीत्

  28. Verse 28

    प्रीतो अस्मि ते महत् कर्म त्वया कृतम् इदम् प्रभो । प्रदेयो यन् निमित्तम् ते परिष्वंगो मया कृतः

  29. Verse 29

    भावज्ञेन कृतज्ञेन धर्मज्ञेन च लक्ष्मण । त्वया पुत्रेण धर्मात्मा न संवृत्तः पिता मम

  30. Verse 30

    एवम् लक्ष्मणम् उक्त्वा तु राघवो लक्ष्मिवर्धनः । तस्मिन् देशे बहु फले न्यवसत् स सुखम् सुखी

  31. Verse 31

    कंचित् कालम् स धर्मात्मा सीतया लक्ष्मणेन च अन्वास्यमानो न्यवसत् स्वर्ग लोके यथा अमरः