Sarga 14
Aranya Kanda
36 verses · free forever
Uses your saved HI voice · Narration settings
Verse 1
'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे चतुर्दशः सर्गः ॥३-१४॥''' अथ पंचवटीम् गच्चन्न् अन्तरा रघुनन्दनः । आससाद महाकायम् गृध्रम् भीम पराक्रमम्
Verse 2
तम् दृष्ट्वा तौ महाभागौ वनस्थम् राम लक्ष्मणौ । मेनाते राक्षसम् पक्षिम् ब्रुवाणौ को भवान् इति
Verse 3
स तौ मधुरया वाचा सौम्यया प्रीणयन्न् इव । उवाच वत्स माम् विद्धि वयस्यम् पितुर् आत्मनः
Verse 4
स तम् पितृ सखम् मत्वा पूजयामास राघवः । स तस्य कुलम् अव्यग्रम् अथ पप्रच्छ नाम च
Verse 5
रामस्य वचनम् श्रुत्वा कुलम् आत्मानम् एव च । आचचक्षे द्विजः तस्मै सर्वभूत समुद्भवम्
Verse 6
पूर्वकाले महाबाहो ये प्रजापतयो अभवन् । तान् मे निगदतः सर्वान् आदितः शृणु राघव
Verse 7
कर्दमः प्रथमः तेषाम् विकृतः तद् अनन्तरम् । शेषः च संश्रयः चैव बहु पुत्रः च वीर्यवान्
Verse 8
स्थाणुर् मरीचिर् अत्रिः च क्रतुः चैव महाबलः । पुलस्त्यः च अंगिराः चैव प्रचेताः पुलहः तथा
Verse 9
दक्षो विवस्वान् अपरो अरिष्टनेमिः च राघव । कश्यपः च महातेजाः तेषाम् आसीत् च पश्चिमः
Verse 10
प्रजापतेः तु दक्षस्य बभूवुर् इति विश्रुतम् । षष्टिर् दुहितरो राम यशस्विन्यो महायशः
Verse 11
कश्यपः प्रतिजग्राह तासाम् अष्टौ सुमध्यमाः । अदितिम् च दितिम् चैव दनूम् अपि च कालकाम्
Verse 12
ताम्राम् क्रोध वशाम् चैव मनुम् च अप्य् अनलाम् अपि । ताः तु कन्याः ततः प्रीतः कश्यपः पुनर् अब्रवीत्
Verse 13
पुत्रामः त्रैलोक्य भर्तॄन् वै जनयिष्यथ मत् समान् । अदितिः तन् मना राम दितिः च दनुर् एव च
Verse 14
कालका च महाबाहो शेषाः तु अमनसो अभवन् । अदित्याम् जज्ञिरे देवाः त्रयः त्रिंशत् अरिंदम
Verse 15
आदित्या वसवो रुद्रा अश्विनौ च परंतप । दितिः तु अजनयत् पुत्रान् दैत्याम् तात यशस्विनः
Verse 16
तेषाम् इयम् वसुमती पुरा आसीत् स वन अर्णवा । दनुः तु अजनयत् पुत्रम् अश्वग्रीवम् अरिंदम
Verse 17
नरकम् कालकम् चैव कालका अपि व्यजायत । क्रौन्चीम् भासीम् तथा श्येनीम् धृतराष्ट्रीम् तथा शुकीम्
Verse 18
ताम्रा तु सुषुवे कन्याः पंच एता लोकविश्रुताः । उलूकान् जनयत् क्रौन्ची भासी भासान् व्यजायत
Verse 19
श्येनी श्येनाम् च गृध्राम च व्यजायत सुतेजसः । धृतराष्ट्री तु हंसाम् च कलहंसाम् च सर्वशः
Verse 20
चक्रवाकाम् च भद्रम् ते विजज्ञे सा अपि भामिनी । शुकी नताम् विजज्ञे तु नताया विनता सुता
Verse 21
दश क्रोधवशा राम विजज्ञे अपि आत्मसंभवाः । मृगीम् च मृगमंदाम् च हरीम् भद्रमदाम् अपि
Verse 22
मातंगीम् अथ शार्दूलीम् श्वेताम् च सुरभीम् तथा । सर्व लक्षण संपन्नाम् सुरसाम् कद्रुकाम् अपि
Verse 23
अपत्यम् तु मृगाः सर्वे मृग्या नरवरोत्तम । ऋक्षाः च मृगमंदायाः सृमराः चमराः तथा
Verse 24
ततः तु इरावतीम् नाम जज्ञे भद्रमदा सुताम् । तस्याः तु ऐरावतः पुत्रो लोकनाथो महागजः
Verse 25
हर्याः च हरयो अपत्यम् वानराः च तपस्विनः । गोलांगूलाः च शार्दूली व्याघ्राम् च अजनयत् सुतान्
Verse 26
मातंग्याः तु अथ मातन्गाअपत्यम् मनुज ऋषभ । दिशागजम् तु श्वेत काकुत्स्थ श्वेता व्यजनयत् सुतम्
Verse 27
ततो दुहितरौ राम सुरभिर् द्वे वि अजायत । रोहिणीम् नाम भद्रम् ते गन्धर्वीम् च यशस्विनीम्
Verse 28
रोहिणि अजनयद् गावो गन्धर्वी वाजिनः सुतान् । सुरसा अजनयन् नागान् राम कद्रूः च पन्नगान्
Verse 29
मनुर् मनुष्यान् जनयत् कश्यपस्य महात्मनः । ब्राह्मणान् क्षत्रियान् वैश्यान् शूद्राम् च मनुजर्षभ
Verse 30
मुखतो ब्राह्मणा जाता उरसः क्षत्रियाः तथा । ऊरुभ्याम् जज्ञिरे वैश्याः पद्भ्याम् शूद्रा इति श्रुतिः
Verse 31
सर्वान् पुण्य फलान् वृक्षान् अनला अपि व्यजायत । विनता च शुकी पौत्री कद्रूः च सुरसा स्वसा
Verse 32
कद्रूर् नाग सहस्रम् तु विजज्ञे धरणीधरन् । द्वौ पुत्रौ विनतायाः तु गरुडो अरुण एव च
Verse 33
तस्मात् जातो अहम् अरुणात् संपातिः च मम अग्रजः । जटायुर् इति माम् विद्धि श्येनी पुत्रम् अरिंदम
Verse 34
सो अहम् वास सहायः ते भविष्यामि यदि इच्छसि । इदम् दुर्गम् हि कान्तारम् मृग राक्षस सेवितम् सीताम् च तात रक्षिष्ये त्वयि याते सलक्ष्मणे
Verse 35
जटायुषम् तु प्रतिपूज्य राघवो मुदा परिष्वज्य च सन्नतो अभवत् । पितुर् हि शुश्राव सखित्वम् आत्मवान् जटायुषा संकथितम् पुनः पुनः
Verse 36
स तत्र सीताम् परिदाय मैथिलीम् सह एव तेन अतिबलेन पक्षिणा । जगाम ताम् पंचवटीम् सलक्ष्मणो रिपून् दिधक्षन् शलभान् इव अनलः