Sarga 69
Ayodhya Kanda
21 verses · free forever
Uses your saved HI voice · Narration settings
Verse 1
'''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकोनसप्ततितमः सर्गः ॥२-६९॥''' याम् एव रात्रिम् ते दूताः प्रविशन्ति स्म ताम् पुरीम् । भरतेन अपि ताम् रात्रिम् स्वप्नो दृष्टः अयम् अप्रियः
Verse 2
व्युष्टाम् एव तु ताम् रात्रिम् दृष्ट्वा तम् स्वप्नम् अप्रियम् । पुत्रः राज अधिराजस्य सुभृशम् पर्यतप्यत
Verse 3
तप्यमानम् समाज्ञाय वयस्याः प्रिय वादिनः । आयासम् हि विनेष्यन्तः सभायाम् चक्रिरे कथाः
Verse 4
वादयन्ति तथा शान्तिम् लासयन्ति अपि च अपरे । नाटकानि अपरे प्राहुर् हास्यानि विविधानि च
Verse 5
स तैः महात्मा भरतः सखिभिः प्रिय वादिभिः । गोष्ठी हास्यानि कुर्वद्भिर् न प्राहृष्यत राघवः
Verse 6
तम् अब्रवीत् प्रिय सखो भरतम् सखिभिर् वृतम् । सुहृद्भिः पर्युपासीनः किम् सखे न अनुमोदसे
Verse 7
एवम् ब्रुवाणम् सुहृदम् भरतः प्रत्युवाच ह । शृणु त्वम् यन् निमित्तम्मे दैन्यम् एतत् उपागतम्
Verse 8
स्वप्ने पितरम् अद्राक्षम् मलिनम् मुक्त मूर्धजम् । पतन्तम् अद्रि शिखरात् कलुषे गोमये ह्रदे
Verse 9
प्लवमानः च मे दृष्टः स तस्मिन् गोमय ह्रदे । पिबन्न् अन्जलिना तैलम् हसन्न् इव मुहुर् मुहुः
Verse 10
ततः तिलोदनम् भुक्त्वा पुनः पुनर् अधः शिराः । तैलेन अभ्यक्त सर्व अन्गः तैलम् एव अवगाहत
Verse 11
स्वप्ने अपि सागरम् शुष्कम् चन्द्रम् च पतितम् भुवि । सहसा च अपि सम्शन्तम् ज्वलितम् जात वेदसम्
Verse 12
औपवाह्यस्य नागस्य विषाणम् शकलीकृतम् । सहसा चापि सम्शान्तम् ज्वलितम् जातवेदसम्
Verse 13
अवदीर्णाम् च पृथिवीम् शुष्कामः च विविधान् द्रुमान् । अहम् पश्यामि विध्वस्तान् सधूमामः चैव पार्वतान्
Verse 14
पीठे कार्ष्णायसे च एनम् निषण्णम् कृष्ण वाससम् । प्रहसन्ति स्म राजानम् प्रमदाः कृष्ण पिन्गलाः
Verse 15
त्वरमाणः च धर्म आत्मा रक्त माल्य अनुलेपनः । रथेन खर युक्तेन प्रयातः दक्षिणा मुखः
Verse 16
प्रहसन्तीव राजानम् प्रमदा रक्तवासिनी । प्रकर्षन्ती मया दृष्टा राक्षसी विकृतासना
Verse 17
एवम् एतन् मया दृष्टम् इमाम् रात्रिम् भय आवहाम् । अहम् रामः अथ वा राजा लक्ष्मणो वा मरिष्यति
Verse 18
नरः यानेन यः स्वप्ने खर युक्तेन याति हि । अचिरात् तस्य धूम अग्रम् चितायाम् सम्प्रदृश्यते
Verse 19
एतन् निमित्तम् दीनो अहम् तन् न वः प्रतिपूजये । शुष्यति इव च मे कण्ठो न स्वस्थम् इव मे मनः
Verse 20
न पश्यामि भयस्थानम् भयम् चैवोपधारये । भ्रष्टश्च स्वरयोगो मे चाया चोपहता मम
Verse 21
जुगुप्सन्न् इव च आत्मानम् न च पश्यामि कारणम् । इमाम् हि दुह्स्वप्न गतिम् निशाम्य ताम् । अनेक रूपाम् अवितर्किताम् पुरा । भयम् महत् तद्द् हृदयान् न याति मे । विचिन्त्य राजानम् अचिन्त्य दर्शनम्