Lipi
Sign in
Classic reading room ↗

Sarga 3

Bala Kanda

39 verses · free forever

Listen to this section

Uses your saved HI voice · Narration settings

  1. Verse 1

    '''श्रीमद्वाल्मीकियरामायणे बालकाण्डे तृतीयः सर्गः ॥१-३॥''' श्रुत्वा वस्तु समग्रं तद्धर्मार्थसहितं हितम् । व्यक्तमन्वेषते भूयो यद् वृत्तं तस्य धीमतः

  2. Verse 2

    उपस्पृश्योदकं सम्यङ्मुनिः स्थित्वा कृताञ्जलिः । प्राचीनाग्रेषु दर्भेषु धर्मेणान्वेषते गतिम्

  3. Verse 3

    रामलक्ष्मणसीताभी राज्ञा दशरथेन च । सभार्येण सराष्ट्रेण यत् प्राप्तं तत्र तत्त्वतः

  4. Verse 4

    हसितं भाषितं चैव गतिर्यावच्च चेष्टितम् । तत् सर्वं धर्मवीर्येण यथावत् संप्रपश्यति

  5. Verse 5

    स्त्रीतृतीयेन च तथा यत् प्राप्तं चरता वने । सत्यसन्धेन रामेण तत् सर्वं चान्ववैक्षत

  6. Verse 6

    ततः पश्यति धर्मात्मा तत् सर्वं योगमास्थितः । पुरा यत् तत्र निर्वृत्तं पाणावामलकं यथा

  7. Verse 7

    तत् सर्वं तत्त्वतो दृष्ट्वा धर्मेण स महामतिः । अभिरामस्य रामस्य तत् सर्वं कर्तुमुद्यतः

  8. Verse 8

    कामार्थगुणसंयुक्तं धर्मार्थगुणविस्तरम् । समुद्रमिव रत्नाढ्यं सर्वश्रुतिमनोहरम्

  9. Verse 9

    स यथा कथितं पूर्वं नारदेन महात्मना । रघुवंशस्य चरितं चकार भगवान् मुनिः

  10. Verse 10

    जन्म रामस्य सुमहद्वीर्यं सर्वानुकूलताम् । लोकस्य प्रियतां क्षान्तिं सौम्यतां सत्यशीलताम्

  11. Verse 11

    नाना चित्राः कथाश्चान्या विश्वामित्रसहायने । जानक्याश्च विवाहं च धनुषश्च विभेदनम्

  12. Verse 12

    रामरामविवादं च गुणान् दाशरथेस्तथा । तथाभिषेकं रामस्य कैकेय्या दुष्टभावताम्

  13. Verse 13

    विघातं चाभिषेकस्य रामस्य च विवासनम् । राज्ञः शोकं विलापं च परलोकस्य चाश्रयम्

  14. Verse 14

    प्रकृतीनां विषादं च प्रकृतीनां विसर्जनम् । निषादाधिपसंवादं सूतोपावर्तनं तथा

  15. Verse 15

    गङ्गायाश्चापि संतारं भरद्वाजस्य दर्शनम् । भरद्वाजाभ्यनुज्ञानाच्चित्रकूटस्य दर्शनम्

  16. Verse 16

    वास्तुकर्म निवेशं च भरतागमनं तथा । प्रसादनं च रामस्य पितुश्च सलिलक्रियाम्

  17. Verse 17

    पादुकाग्र्याभिषेकं च नन्दिग्रामनिवासनम् । दण्डकारण्यगमनं विराधस्य वधं तथा

  18. Verse 18

    दर्शनं शरभङ्गस्य सुतीक्ष्णेन समागमम् अनसूयासमाख्यां च अङ्गरागस्य चार्पणम्

  19. Verse 19

    दर्शनं चाप्यगस्त्यस्य धनुषो ग्रहणं तथा । शूर्पणख्याश्च संवादं विरूपकरणं तथा

  20. Verse 20

    वधं खरत्रिशिरसोरुत्थानं रावणस्य च । मारीचस्य वधं चैव वैदेह्या हरणं तथा

  21. Verse 21

    राघवस्य विलापं च गृध्रराजनिबर्हणम् । कबन्धदर्शनं चैव पम्पायाश्चापि दर्शनम्

  22. Verse 22

    शबरीदर्शनं चैव फलमूलाशनं तथा । प्रलापं चैव पम्पायां हनूमद्दर्शनं तथा

  23. Verse 23

    ऋष्यमूकस्य गमनं सुग्रीवेण समागमम् । प्रत्ययोत्पादनं सख्यं वालिसुग्रीवविग्रहम्

  24. Verse 24

    वालिप्रमथनं चैव सुग्रीवप्रतिपादनम् ताराविलापं समयं वर्षरात्रनिवासनम्

  25. Verse 25

    कोपं राघवसिंहस्य बलानामुपसंग्रहम् दिशः प्रस्थापनं चैव पृथिव्याश्च निवेदनम्

  26. Verse 26

    अङ्गुलीयकदानं च ऋक्षस्य बिलदर्शनम् प्रायोपवेशनं चैव संपातेश्चापि दर्शनम्

  27. Verse 27

    पर्वतारोहणं चैव सागरस्यापि लङ्घनम् समुद्रवचनाच्चैव मैनाकस्य च दर्शनम्

  28. Verse 28

    राक्षसीतर्जनं चैव च्छायाग्राहस्य दर्शनम् सिंहिकायाश्च निधनं लङ्कामलयदर्शनम्

  29. Verse 29

    रात्रौ लङ्काप्रवेशं च एकस्यापि विचिन्तनम् आपानभूमिगमनमवरोधस्य दर्शनम्

  30. Verse 30

    दर्शनं रावणस्यापि पुष्पकस्य च दर्शनम् अशोकवनिकायानं सीतायाश्चापि दर्शनम्

  31. Verse 31

    अभिज्ञानप्रदानं च सीतायाश्चापि भाषणम् राक्षसीतर्जनं चैव त्रिजटास्वप्नदर्शनम्

  32. Verse 32

    मणिप्रदानं सीताया वृक्षभङ्गं तथैव च राक्षसीविद्रवं चैव किंकराणां निबर्हणम्

  33. Verse 33

    ग्रहणं वायुसूनोश्च लङ्कादाहाभिगर्जनम् प्रतिप्लवनमेवाथ मधूनां हरणं तथा

  34. Verse 34

    राघवाश्वासनं चैव मणिनिर्यातनं तथा संगमं च समुद्रेण नलसेतोश्च बन्धनम्

  35. Verse 35

    प्रतारं च समुद्रस्य रात्रौ लङ्कावरोधनम् विभीषणेन संसर्गं वधोपायनिवेदनम्

  36. Verse 36

    कुम्भकर्णस्य निधनं मेघनादनिबर्हणम् रावणस्य विनाशं च सीतावाप्तिमरेः पुरे

  37. Verse 37

    बिभीषणाभिषेकं च पुष्पकस्य च दर्शनम् अयोध्यायाश्च गमनं भरद्वाजसमागमम्

  38. Verse 38

    प्रेषणं वायुपुत्रस्य भरतेन समागमम् रामाभिषेकाभ्युदयं सर्वसैन्यविसर्जनम् स्वराष्ट्ररञ्जनं चैव वैदेह्याश्च विसर्जनम्

  39. Verse 39

    अनागतं च यत् किंचिद् रामस्य वसुधातले तच्चकारोत्तरे काव्ये वाल्मीकिर्भगवानृषिः