Lipi
Sign in
Classic reading room ↗

Sarga 2

Bala Kanda

43 verses · free forever

Listen to this section

Uses your saved HI voice · Narration settings

Narration reads the opening of this section. Longer passages are split to keep playback responsive.

  1. Verse 1

    '''श्रीमद्वाल्मीकियरामायणे बालकाण्डे द्वितीयः सर्गः ॥१-२॥''' नारदस्य तु तद्वाक्यं श्रुत्वा वाक्यविशारदः । पूजयामास धर्मात्मा सहशिष्यो महामुनिम्

  2. Verse 2

    यथावत्पूजितस्तेन देवर्षिर्नारदस्तदा । आपृष्ट्वैवाभ्यनुज्ञातः स जगाम विहायसम्

  3. Verse 3

    स मुहूर्तं गते तस्मिन् देवलोकं मुनिस्तदा । जगाम तमसातीरं जाह्नव्यास्त्वविदूरतः

  4. Verse 4

    स तु तीरं समासाद्य तमसाया मुनिस्तदा । शिष्यमाह स्थितं पार्श्वे दृष्ट्वा तीर्थमकर्दमम्

  5. Verse 5

    अकर्दममिदं तीर्थं भरद्वाज निशामय । रमणीयं प्रसन्नाम्बु सन्मनुष्यमनो यथा

  6. Verse 6

    न्यस्यतां कलशस्तात दीयतां वल्कलं मम । इदमेवावगाहिष्ये तमसातीर्थमुत्तमम्

  7. Verse 7

    एवमुक्तो भरद्वाजो वाल्मीकेन महात्मना । प्रायच्छत मुनेस्तस्य वल्कलं नियतो गुरोः

  8. Verse 8

    स शिष्यहस्तादादाय वल्कलं नियतेन्द्रियः । विचचार ह पश्यंस्तत् सर्वतो विपुलं वनम्

  9. Verse 9

    तस्याभ्याशे तु मिथुनं चरन्तमनपायिनम् । ददर्श भगवांस्तत्र क्रौञ्चयोश्चारुनिःस्वनम्

  10. Verse 10

    तस्मात् तु मिथुनादेकं पुमांसं पापनिश्चयः । जघान वैरनिलयो निषादस्तस्य पश्यतः

  11. Verse 11

    तं शोणितपरीताङ्गं चेष्टमानं महीतले । भार्या तु निहतं दृष्ट्वा रुराव करुणां गिरम्

  12. Verse 12

    वियुक्ता पतिना तेन द्विजेन सहचारिणा । ताम्रशीर्षेण मत्तेन पत्त्रिणा सहितेन वै

  13. Verse 13

    तथाविधं द्विजं दृष्ट्वा निषादेन निपातितम् । ऋषेर्धर्मात्मनस्तस्य कारुण्यं समपद्यत

  14. Verse 14

    ततः करुणवेदित्वादधर्मोऽयमिति द्विजः । निशाम्य रुदतीं क्रौञ्चीमिदं वचनमब्रवीत्

  15. Verse 15

    मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः । यत् क्रौञ्चमिथुनादेकमवधीः काममोहितम्

  16. Verse 16

    तस्यैवं ब्रुवतश्चिन्ता बभूव हृदि वीक्षतः । शोकार्तेनास्य शकुनेः किमिदं व्याहृतं मया

  17. Verse 17

    चिन्तयन् स महाप्राज्ञश्चकार मतिमान्मतिम् । शिष्यं चैवाब्रवीद् वाक्यमिदं स मुनिपुङ्गवः

  18. Verse 18

    पादबद्धोऽक्षरसमस्तन्त्रीलयसमन्वितः । शोकार्तस्य प्रवृत्तो मे श्लोको भवतु नान्यथा

  19. Verse 19

    शिष्यस्तु तस्य ब्रुवतो मुनेर्वाक्यमनुत्तमम् । प्रतिजग्राह संहृष्टस्तस्य तुष्टोऽभवद्गुरुः

  20. Verse 20

    सोऽभिषेकं ततः कृत्वा तीर्थे तस्मिन् यथाविधि । तमेव चिन्तयन्नर्थमुपावर्तत वै मुनिः

  21. Verse 21

    भरद्वाजस्ततः शिष्यो विनीतः श्रुतवान् गुरोः । कलशं पूर्णमादाय पृष्ठतोऽनुजगाम ह

  22. Verse 22

    स प्रविश्याश्रमपदं शिष्येण सह धर्मवित् । उपविष्टः कथाश्चान्याश्चकार ध्यानमास्थितः

  23. Verse 23

    आजगाम ततो ब्रह्मा लोककर्ता स्वयं प्रभुः । चतुर्मुखो महातेजा द्रष्टुं तं मुनिपुङ्गवम्

  24. Verse 24

    वाल्मीकिरथ तं दृष्ट्वा सहसोत्थाय वाग्यतः । प्राञ्जलिः प्रयतो भूत्वा तस्थौ परमविस्मितः

  25. Verse 25

    पूजयामास तं देवं पाद्यार्घ्यासनवन्दनैः । प्रणम्य विधिवच्चैनं पृष्ट्वा चैव निरामयम्

  26. Verse 26

    अथोपविश्य भगवानासने परमार्चिते । वाल्मीकये च ऋषये संदिदेशासनं ततः

  27. Verse 27

    ब्रह्मणा समनुज्ञातः सोऽप्युपाविशदासने । उपविष्टे तदा तस्मिन् साक्षाल्लोकपितामहे ।

  28. Verse 28

    तद्गतेनैव मनसा वाल्मीकिर्ध्यानमास्थितः । पापात्मना कृतं कष्टं वैरग्रहणबुद्धिना ।

  29. Verse 29

    यत् तादृशं चारुरवं क्रौञ्चं हन्यादकारणात् । शोचन्नेव पुनः क्रौञ्चीमुपश्लोकमिमं जगौ

  30. Verse 30

    पुनरन्तर्गतमना भूत्वा शोकपरायणः । तमुवाच ततो ब्रह्मा प्रहसन् मुनिपुङ्गवम्

  31. Verse 31

    श्लोक एवास्त्वयं बद्धो नात्र कार्या विचारणा । मच्छन्दादेव ते ब्रह्मन् प्रवृत्तेयं सरस्वती

  32. Verse 32

    रामस्य चरितं कृत्स्नं कुरु त्वमृषिसत्तम । धर्मात्मनो भगवतो लोके रामस्य धीमतः

  33. Verse 33

    वृत्तं कथय धीरस्य यथा ते नारदाच्छ्रुतम् । रहस्यं च प्रकाशं च यद् वृत्तं तस्य धीमतः

  34. Verse 34

    रामस्य सहसौमित्रे राक्षसानां च सर्वशः । वैदेह्याश्चैव यद् वृत्तं प्रकाशं यदि वा रहः

  35. Verse 35

    तच्चाप्यविदितं सर्वं विदितं ते भविष्यति । न ते वागनृता काव्ये काचिदत्र भविष्यति

  36. Verse 36

    कुरु रामकथां पुण्यां श्लोकबद्धां मनोरमाम् । यावत् स्थास्यन्ति गिरयः सरितश्च महीतले

  37. Verse 37

    तावद् रामायणकथा लोकेषु प्रचरिष्यति । यावद् रामस्य च कथा त्वत्कृता प्रचरिष्यति

  38. Verse 38

    तावदूर्ध्वमधश्च त्वं मल्लोकेषु निवत्स्यसि । इत्युक्त्वा भगवान् ब्रह्मा तत्रैवान्तरधीयत । ततः सशिष्यो भगवान् र्मुनिर्विस्मयमाययौ

  39. Verse 39

    तस्य शिष्यास्ततः सर्वे जगुः श्लोकमिमं पुनः । मुहुर्मुहुः प्रीयमाणाः प्राहुश्च भृशविस्मिताः

  40. Verse 40

    समाक्षरैश्चतुर्भिर्यः पादैर्गीतो महर्षिणा । सोऽनुव्याहरणाद् भूयः शोकः श्लोकत्वमागतः

  41. Verse 41

    तस्य बुद्धिरियं जाता वाल्मीकेर्भावितात्मनः । कृत्स्नं रामायणं काव्यमीदृशैः करवाण्यहम्

  42. Verse 42

    उदारवृत्तार्थपदैर्मनोरमै- ::स्तदास्य रामस्य चकार कीर्तिमान् । समाक्षरैः श्लोकशतैर्यशस्विनो ::यशस्करं काव्यमुदारदर्शनः

  43. Verse 43

    तदुपगतसमाससंधियोगं ::सममधुरोपनतार्थवाक्यबद्धम् । रघुवरकरितं मुनिप्रणीतं ::दशशिरसश्क वधं निशामयध्वम्