Adhyaya 39
Udyoga Parva · 35 verses
35 verses · free forever
English has not yet been added to this adhyaya. You can read the Ganesha passage or Vana Parva 312–315 with English.
Uses your saved HI voice · Narration settings
Narration reads the opening of this section. Longer passages are split to keep playback responsive.
Verse 1
आर्जवेन नरं युक्तमार्जवात्सव्यपत्रपम्। अशक्तं मन्यमानास्तु धर्षयन्ति कुबुद्धयः ।।63 अत्यार्यमतिदातारमतिशूरमतिव्रतम् । प्रज्ञाभिमानिनं चैव श्रीर्भयान्नोपसर्पति ।।64 न चातिगुणवत्स्वेषा नात्यन्तं निर्गुणेषु च। नेषा गुणान्कामयते नैर्गुण्यान्नानुरज्यते। उन्मत्ता गौरिवान्धा श्रीः क्वचिदेवावतिष्ठते ।।65 अग्निहोत्रफला वेदाः शीलवृत्तफलं श्रुतम्। रतिपुत्रफला नारी दत्तभुक्तफलं धनम् ।।66 अधर्मोपार्जितैरर्थैर्यः करोत्यौर्ध्वदेहिकम्। न स तस्य फलं प्रेत्य भुङ्क्तेऽर्थस्य दुरागमात् ।।67 कान्तारे वनदुर्गेषु कृच्छ्रास्वापत्सु संभ्रमे। उद्यतेषु च शस्त्रेषु नास्ति सत्ववतां भयम् ।।68 उत्थानं संयमो दाक्ष्यमप्रमादो धृतिः स्मृतिः । समीक्ष्य च समारम्भो विद्धि मूलं भवस्य तु ।।69 तपो बलं तापमानां ब्रह्म ब्रह्मविदां बलम् । हिंसा बलमसाधूनां क्षमा गुणवतां बलम् ।।70 अष्टौ तान्यव्रतघ्नानि आपो मूलं फलं पयः। हविर्ब्राह्मणकाम्या च गुरोर्वचनमौषधम् ।।71 न तत्परस्य सन्दध्यात्प्रतिकूलं यदात्मनः। सङ्ग्रहेणैव धर्मः स्यात्कामादन्यः प्रवर्तते ।।72 अक्रोधेन जयेत्क्रोधमसाधुं नाधुना जयेत्। जयेत्कदर्यं दानेन जयेन्मत्येन चानृतम् ।।73 स्त्रीधूर्तकेऽलसे भीरौ चण्डे पुरुषमानिनि। चोरे कृतघ्ने विश्वासो न कार्यो न च नास्तिके ।।74 अभिवादनशीलप्य नित्यं वृद्धोपसेविनः । चत्वारि संप्रवर्धन्ते कीर्तिरापुर्यशो बलम्।।75 अतिक्लेशेन येऽथोः स्वधर्मस्यानिक्रमेण वा। अरेर्वा प्रणिपातेन मा .. तेषु मनः कृथाः ।।76 अविद्यः पुरुषः शोच्यः शोच्यं मैथुनमप्रजम्। निराहाराः प्रजाः शोच्याः शोच्यं राष्ट्रमराजकं ।।77 अध्वा जरा देहवतां पर्वतानां जलं जरा। असंभोगो जरा स्त्रीणां वाक्छल्यं मनसो जरा।।78 अनाम्नायमला वेदा ब्राह्मणस्याव्रतं मलम्। मलं पृथिव्या वाह्लीकाः पुरुषस्यानृतं मलम् ।।79 कौतूहलमला साध्वी विप्रवासमलाः स्त्रियः ।।80 सुवर्णस्य मलं रूप्यं रूप्यस्यापि मलं त्रपु। ज्ञेयं त्रपुमलं सीमं सीसस्यापि मलं मलम् ।।81 न स्वप्नेन जयेन्निद्रां न कामेन जयेत्स्त्रियः। नेन्धनेन जयेदग्निं न पानेन सुरां जयेत् ।।82 यस्य दानजितं मित्रं शत्रवो युधि निर्जिताः । अन्नपानजिता दाराः सफलं तस्य जीवितम् ।।83 सहस्रिणोऽपि जीवन्ति जीवन्ति शतिनस्तथा । धृतराष्ट्र विमुञ्चेच्छां न कथञ्चिन्न जीव्यते ।।84 यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः । नालमेकस्य तत्सर्वमिति पश्यन्न मुह्यति।।85 राजन्भूयो ब्रवीमि त्वां पुत्रेषु सममाचर। समता यदि ते राजन्स्वेषु पाण्डुसुतेषु वा ।।86 ।। इति श्रीमन्महाभारते उद्योगपर्वणि प्रजागरपर्वणि एकोनचत्वारिंशोऽध्यायः ।।87
ārjavena naraṃ yuktamārjavātsavyapatrapam| aśaktaṃ manyamānāstu dharṣayanti kubuddhayaḥ ||63 atyāryamatidātāramatiśūramativratam | prajñābhimāninaṃ caiva śrīrbhayānnopasarpati ||64 na cātiguṇavatsveṣā nātyantaṃ nirguṇeṣu ca| neṣā guṇānkāmayate nairguṇyānnānurajyate| unmattā gaurivāndhā śrīḥ kvacidevāvatiṣṭhate ||65 agnihotraphalā vedāḥ śīlavṛttaphalaṃ śrutam| ratiputraphalā nārī dattabhuktaphalaṃ dhanam ||66 adharmopārjitairarthairyaḥ karotyaurdhvadehikam| na sa tasya phalaṃ pretya bhuṅkte'rthasya durāgamāt ||67 kāntāre vanadurgeṣu kṛcchrāsvāpatsu saṃbhrame| udyateṣu ca śastreṣu nāsti satvavatāṃ bhayam ||68 utthānaṃ saṃyamo dākṣyamapramādo dhṛtiḥ smṛtiḥ | samīkṣya ca samārambho viddhi mūlaṃ bhavasya tu ||69 tapo balaṃ tāpamānāṃ brahma brahmavidāṃ balam | hiṃsā balamasādhūnāṃ kṣamā guṇavatāṃ balam ||70 aṣṭau tānyavrataghnāni āpo mūlaṃ phalaṃ payaḥ| havirbrāhmaṇakāmyā ca gurorvacanamauṣadham ||71 na tatparasya sandadhyātpratikūlaṃ yadātmanaḥ| saṅgraheṇaiva dharmaḥ syātkāmādanyaḥ pravartate ||72 akrodhena jayetkrodhamasādhuṃ nādhunā jayet| jayetkadaryaṃ dānena jayenmatyena cānṛtam ||73 strīdhūrtake'lase bhīrau caṇḍe puruṣamānini| core kṛtaghne viśvāso na kāryo na ca nāstike ||74 abhivādanaśīlapya nityaṃ vṛddhopasevinaḥ | catvāri saṃpravardhante kīrtirāpuryaśo balam||75 atikleśena ye'thoḥ svadharmasyānikrameṇa vā| arervā praṇipātena mā .. teṣu manaḥ kṛthāḥ ||76 avidyaḥ puruṣaḥ śocyaḥ śocyaṃ maithunamaprajam| nirāhārāḥ prajāḥ śocyāḥ śocyaṃ rāṣṭramarājakaṃ ||77 adhvā jarā dehavatāṃ parvatānāṃ jalaṃ jarā| asaṃbhogo jarā strīṇāṃ vākchalyaṃ manaso jarā||78 anāmnāyamalā vedā brāhmaṇasyāvrataṃ malam| malaṃ pṛthivyā vāhlīkāḥ puruṣasyānṛtaṃ malam ||79 kautūhalamalā sādhvī vipravāsamalāḥ striyaḥ ||80 suvarṇasya malaṃ rūpyaṃ rūpyasyāpi malaṃ trapu| jñeyaṃ trapumalaṃ sīmaṃ sīsasyāpi malaṃ malam ||81 na svapnena jayennidrāṃ na kāmena jayetstriyaḥ| nendhanena jayedagniṃ na pānena surāṃ jayet ||82 yasya dānajitaṃ mitraṃ śatravo yudhi nirjitāḥ | annapānajitā dārāḥ saphalaṃ tasya jīvitam ||83 sahasriṇo'pi jīvanti jīvanti śatinastathā | dhṛtarāṣṭra vimuñcecchāṃ na kathañcinna jīvyate ||84 yatpṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ | nālamekasya tatsarvamiti paśyanna muhyati||85 rājanbhūyo bravīmi tvāṃ putreṣu samamācara| samatā yadi te rājansveṣu pāṇḍusuteṣu vā ||86 || iti śrīmanmahābhārate udyogaparvaṇi prajāgaraparvaṇi ekonacatvāriṃśo'dhyāyaḥ ||87
Verse 2
भवाभवे ऐश्वर्यानैश्वर्ये। दिष्टस्य दैवस्य। वदैव नतु म दूषयेति भावः। धृतः धृतिमान् ।।
bhavābhave aiśvaryānaiśvarye| diṣṭasya daivasya| vadaiva natu ma dūṣayeti bhāvaḥ| dhṛtaḥ dhṛtimān ||
Verse 9
बुद्ध्यवज्ञानं अवज्ञातबुद्धित्वम् ।।
buddhyavajñānaṃ avajñātabuddhitvam ||
Verse 15
आयतीयुक्तं उदर्के हितम् ।।
āyatīyuktaṃ udarke hitam ||
Verse 16
फलनिर्वृत्तिः सुखं च प्रणश्यति। आरभते नीच इति शेषः ।।
phalanirvṛttiḥ sukhaṃ ca praṇaśyati| ārabhate nīca iti śeṣaḥ ||
Verse 27
सङ्गतं संबन्धम्। निशाम्य विचार्य ।।
saṅgataṃ saṃbandham| niśāmya vicārya ||
Verse 29
दिग्धहस्तं विषाक्तबाणहस्तम्। स श्रीमान् एनस्तस्य ज्ञातेरवसादजं पापं विन्दति। मृगवधजं पापं व्याध इवेत्यर्थः ।।
digdhahastaṃ viṣāktabāṇahastam| sa śrīmān enastasya jñāteravasādajaṃ pāpaṃ vindati| mṛgavadhajaṃ pāpaṃ vyādha ivetyarthaḥ ||
Verse 30
खट्वां समारूढश्चिन्तागारं प्रविष्टः ।।
khaṭvāṃ samārūḍhaścintāgāraṃ praviṣṭaḥ ||
Verse 31
भार्गवात् शुक्रादन्यत्र नीतिशास्त्रकर्तारं शुक्रं विहाय अन्यः कश्चिदपि न अपनयते इति न अपितु सर्वोऽप्यपनयते अनीतिं करोति। अतः यत् अतीतं तत् अतीतमेव। शेषस्य तत्कालोचितस्य अर्थस्य प्रतिपत्तिः विचारः कर्तव्य इत्यर्थः ।।
bhārgavāt śukrādanyatra nītiśāstrakartāraṃ śukraṃ vihāya anyaḥ kaścidapi na apanayate iti na apitu sarvo'pyapanayate anītiṃ karoti| ataḥ yat atītaṃ tat atītameva| śeṣasya tatkālocitasya arthasya pratipattiḥ vicāraḥ kartavya ityarthaḥ ||
Verse 33
प्रत्यानेयं प्रतिकर्तव्यम्।।
pratyāneyaṃ pratikartavyam||
Verse 34
अध्यवस्यति निश्चयं करोति ।।
adhyavasyati niścayaṃ karoti ||
Verse 35
सुकुशलैरप्युपयुक्तं उपदिष्टं तत् ज्ञानं असम्यगेव। यतः उपलभ्यं ज्ञेयं तेन अविदितं न ज्ञातं । ज्ञातं वा तत् नानुष्ठितम्। मदुक्तं त्वयि निष्फलमेवेति भावः ।।
sukuśalairapyupayuktaṃ upadiṣṭaṃ tat jñānaṃ asamyageva| yataḥ upalabhyaṃ jñeyaṃ tena aviditaṃ na jñātaṃ | jñātaṃ vā tat nānuṣṭhitam| maduktaṃ tvayi niṣphalameveti bhāvaḥ ||
Verse 36
पापोदयफलं पापहेतुभूतप्रयोजनकं कर्म यो नारभते स वर्धते ।।
pāpodayaphalaṃ pāpahetubhūtaprayojanakaṃ karma yo nārabhate sa vardhate ||
Verse 38
पापमेवानुवर्तते सततं करोति। पङ्के नारके ।।
pāpamevānuvartate satataṃ karoti| paṅke nārake ||
Verse 39
अविज्ञानं परकीयगुप्तचारादेरज्ञानम्। आत्मसंभवं आकारं नेत्रवक्रविकारादिकम् ।।
avijñānaṃ parakīyaguptacārāderajñānam| ātmasaṃbhavaṃ ākāraṃ netravakravikārādikam ||
Verse 40
मन्त्रभेदस्य द्वाराणि संवृणोति पिदधाति ।।
mantrabhedasya dvārāṇi saṃvṛṇoti pidadhāti ||
Verse 44
श्रुतं शास्त्रम् ।।
śrutaṃ śāstram ||
Verse 46
परिच्छदः भोग्यवस्तुसामग्री । क्षेत्रेण जन्मस्थानेन। कुग्रामवासिषु प्रायेण विवेकाभावात्। परिचर्यया आचारेण ।।
paricchadaḥ bhogyavastusāmagrī | kṣetreṇa janmasthānena| kugrāmavāsiṣu prāyeṇa vivekābhāvāt| paricaryayā ācāreṇa ||
Verse 52
वैद्यं विद्यावन्तम् ।।
vaidyaṃ vidyāvantam ||
Verse 53
इन्द्रियाणां उत्सर्गो विषयेषु प्रवृत्तिः। अनुत्सर्गो विषयेभ्यो निवृत्तिः। सा मृत्युतुल्या दुरनुष्ठेयेत्यर्थः ।।
indriyāṇāṃ utsargo viṣayeṣu pravṛttiḥ| anutsargo viṣayebhyo nivṛttiḥ| sā mṛtyutulyā duranuṣṭheyetyarthaḥ ||
Verse 54
आयुष्याणि आयुष्कराणि ।।
āyuṣyāṇi āyuṣkarāṇi ||
Verse 55
अपनीतं नाशितम् ।।
apanītaṃ nāśitam ||
Verse 57
आयत्यां आगामिति काले दुःखस्य प्रतीकारज्ञः तदात्वे वर्तमाने दृढनिश्चयः ।।
āyatyāṃ āgāmiti kāle duḥkhasya pratīkārajñaḥ tadātve vartamāne dṛḍhaniścayaḥ ||
Verse 58
मङ्गलानां दधिदूर्वागवादीनां आलम्भनं स्पर्शः। योगः सहायसंपत। उत्थानं उद्यमःक ।।
maṅgalānāṃ dadhidūrvāgavādīnāṃ ālambhanaṃ sparśaḥ| yogaḥ sahāyasaṃpata| utthānaṃ udyamaḥka ||
Verse 61
अनिर्वेदः उद्योगात् अनुपरमः ।।
anirvedaḥ udyogāt anuparamaḥ ||
Verse 62
विदुरेण धृतराष्ट्रंप्रति ज्ञातिसंग्रहे गुणवर्णनपूर्वकं पुनः कुरुपाण्डवेषु साम्येन वर्तनविधानम् ।। 1 ।। धृतराष्ट्र उवाच। अनीश्वरोऽयं पुरुषो भवाभवे सूत्रप्रोता दारुमयीव योषा। धात्रा तु दिष्टस्य वशे कृतोऽयं तस्माद्वद त्वं श्रवणे धृतोऽहम् ।।1 विदुर उवाच। अप्राप्तकालं वचनं बृहस्पतिरपि ब्रुवन्। लभते बुध्द्यवज्ञानमवमानं च भारत ।।2 प्रियो भवति दानेन प्रियवादेन चापरः । मन्त्रमूलबलेनान्यो यः प्रियः प्रिय एव सः ।।3 द्वेष्यो न साधुर्भवति न मेधावी न पण्डितः। प्रिये शुभानि कार्याणि द्वेष्ये पापानि चैव ह ।।4 उक्तं मया जातमात्रेऽपि राजन् दुर्योधनं त्यज पुत्रं त्वमेकम्। तस्य त्यागात्पुत्रशतस्य वृद्धि- रस्यात्यागात्पुत्रशतस्य नाशः ।।5 न वृद्धिर्बहुमन्तव्या या वृद्धिः क्षयमावहेत्। क्षयोऽपि बहुमन्तव्यो यः क्षयो वृद्धिमावहेत् ।।6 न स क्षयो महाराज यः क्षयो वृद्धिमावहेत्। क्षयः स त्विह मन्तव्यो यं लब्ध्वा बहु नाशयेत् ।।7 समृद्धा गुणतः केचिद्भवन्ति धनतोऽपरे। धनवृद्धान्गुणैर्हीनान्धृतराष्ट्र विवर्जय ।।8 धृतराष्ट्र उवाच। सर्वं त्वमायतीयुक्तं भाषसे प्राज्ञसंमतम्। न चोत्सहे सुतं त्यक्तुं यतो धर्मस्ततो जयः ।।9 विदुर उवाच। अतीव गुणसंपन्नो न जातुः विनयान्वितः। सुसूक्ष्ममपि भूतानामुपमर्दमुपेक्षते ।।10 परापवादनिरताः परदुःखोदयेषु च। परस्परविरोधे च यतन्ते सततोत्थिताः ।।11 सदोषं दर्शनं येषां संवासे सुमहद्भयम्। अर्थादाने महान्दोषः प्रदाने च महद्भयम् ।।12 ये वै भेदनशीलास्तु सकामा निस्त्रपाः शठाः। ये पापा इति विख्याताः संवासे पिरिगर्हिताः ।।13 युक्ताश्चान्यैर्महादोषैर्ये नरास्तान्विवर्जयेत्। निवर्तमाने सौहार्दे प्रीतिर्नीचे प्रणश्यति ।।14 या चैव फलनिर्वृतिः सौहृदे चैव यत्सुखम् । यतते चापवादाय यत्नमारभते क्षये ।।15 अल्पेऽप्यपकृते मोहान्न शान्तिमधिगच्छति। तादृशैः सङ्गतं नीचैर्नृशंसैरकृतात्मभिः । निशाम्य निपुणं बुद्ध्या विद्वान्दूराद्विवर्जयेत् ।।16 यो ज्ञातिमनुगृह्णाति दरिद्रं दीनमातुरम्। स पुत्रपशुभिर्वृद्धिं श्रेयश्चानन्त्यमश्रुते ।।17 ज्ञातयो वर्धनीयास्तैर्य इच्छन्त्यात्मनः शुभम् ।।18 कुलवृद्धिं च राजेन्द्र तस्मात्साधु समाचरं। श्रेयसा योक्ष्यते राजन्कुर्वाणो ज्ञातिसत्क्रियां ।।19 विगुणा ह्यपि संरक्ष्या ज्ञातयो भरतर्षभ । किंपुनर्गुणवन्तस्ते त्वत्प्रसादाभिकाङ्क्षिणः ।।20 प्रसादं कुरु वीराणां पाण्डवानां विशांपते। दीयतां ग्रामकाः केचित्तेषां वृत्त्यर्थमीश्वर ।।21 एवं लोके यशः प्राप्तं भविष्यति नराधिप। वृद्धेन हि त्वया कार्यं पुत्राणां तात शासनम् ।।22 मया चापि हितं वाच्यं विद्धि मां त्वद्धितैषिणम्। ज्ञातिभिर्विग्रहस्तात न कर्तव्यः शुभार्थिना। सुखानि सह भोज्यानि ज्ञातिभिर्भरतर्षभ ।।23 संभोजनं संकथनं संप्रीतिश्च परस्परम् । ज्ञातिभिः सह कार्याणि न विरोधः कदाचन ।।24 ज्ञातयस्तारयन्तीह ज्ञातयो मञ्जयन्ति च। सुवृत्तास्तारयन्तीह दुर्वृत्ता मञ्जयन्ति च ।।25 सुवृत्तो भव राजेन्द्र पाण्जवान्प्रति मानद। अधर्षणीयः शत्रूणां तैर्वृतस्त्वं भविष्यति ।।26 श्रीमन्तं ज्ञातिमासाद्य यो ज्ञातिरवसीदति । दिग्धहस्तं मृग इव स एनस्तस्य विन्दति ।।27 पश्चादपि नरश्रेष्ठ तव तापो भविष्यति । तान्वा हतान्सुतान्वापि श्रुत्वा तदनुचिन्तय ।।28 येन खट्वां समारूढः परितप्येत कर्मणा । आदावेन न तत्कुर्यादध्रुवे जीविते सति ।।29 न कश्चिन्नापनयते पुमानन्यत्र भार्गवात् । शेषसंप्रतिपत्तिस्तु बुद्धिमत्स्वेव तिष्ठति ।।30 दुर्योधनेन यद्येतत्पापं तेषु पुरा कृतम् । त्वया तत्कुलवृद्धेन प्रत्यानेयं नरेश्वर ।।31 तांस्त्वं पदे प्रतिष्ठाप्य लोके विगतकल्मषः । भविष्यसि नरश्रेष्ठ पूजनीयो मनीषिणाम् ।।32 सुव्याहृतानि धीराणां फलतः परिचिन्त्य यः। अध्यवस्यति कार्येषु चिरं यशसि तिष्ठति ।।33 असम्यगुपयुक्तं हि ज्ञानं सुकुशलैरपि । उपलभ्यं चाविदितं विदितं चाननुष्ठितम् ।।34 पापोदयफलं विद्वान्यो नारभति वर्धते ।।35 यस्तु पूर्वकृतं पापमविमृश्यानुवर्तते । अगाधपङ्के दुर्मेधा विषमे विनिपात्यते ।।36 मन्त्रभेदस्य षट् प्राज्ञो द्वाराणीमानि लक्षयेत्। अर्थसन्ततिकामश्च रक्षेदेतानि नित्यशः ।।37 मदं स्वप्नपविज्ञानमाकारं चात्मसंभवम् । दुष्टामात्येषु विश्रम्भं दूताच्चाकुशलादपि ।।38 द्वाराण्येतानि यो ज्ञात्वा संवृणोति सदा नृप। त्रिवर्गाचरणे युक्तः स शत्रूनधितिष्ठति ।।39 नवै श्रुतमविज्ञाय वृद्धाननुपसेव्य वा। धर्मार्थौ वेदुतुं शक्यौ बृहस्पतिसमैरपि ।।40 नष्टं समुद्रे पतितं नष्टं वाक्यमशृण्वति। अनात्मनि श्रुतं नष्टं नष्टं हुतमनग्निकम् ।।41 मत्या परीक्ष्य मेधावी बुद्ध्या संपाद्य चासकृत्। श्रुत्वा दृष्ट्वाथ विज्ञाय प्राज्ञैर्मैत्रीं समाचरेत् ।।42 अकीर्ति विनयो हन्ति हन्त्यनर्थं पराक्रमः । हन्ति नित्यं क्षमा क्रोधमाचारो हन्त्यलक्षणम् ।।43 परिच्छदेन क्षेत्रेण वेश्मना परिचर्यया। परीक्षेत कुलं राजन्भोजनाच्छादनेन च ।।44 उपस्थितसय कामस्य प्रतिवादो न विद्यते। अपि निर्मुक्तदेहस्य कामरक्तस्य किं पुनः ।।45 प्राज्ञोपसेविनं वैद्यं धार्मिकं प्रियदर्शनम् । मित्रवन्तं सुवाक्यं च सुहृदं परिपालयेत् ।।46 दुष्कुलीनः कुलीनो वा मर्यादां यो न लङ्घयेत्। धर्मापेक्षी मृदुर्ह्रीमान्स कुलीनशताद्वरः ।।47 ययोश्चित्तेन वा चित्तं निभृतं निभृतेन वा। समेति प्रज्ञया प्रज्ञा तयोर्मैत्री न जीर्यति ।।48 दुर्बुद्धिमकृतप्रज्ञं छन्नं कूपं तृणैरिव। विवर्जयीत मेधावी तस्मिन्मैत्री प्रणश्यति ।।49 अवलिप्तेषु मूर्खेषु रौद्रसाहसिकेषु च। तथैवापेतधर्मेषु न मैत्रीमाचरेद्बुधः ।।50 कृतज्ञं धार्मिकं सत्यमक्षुद्रं दृढभक्तिकम् । जितेन्द्रियं स्थितं स्थित्यां मित्रमित्यभिवाञ्छति ।।51 इन्द्रियाणामनुत्सर्गो मृत्युनापि विशिष्यते। अत्यर्थं पुनरुत्सर्गः सादयेद्दैवतानपि ।।52 मार्दवं सर्वभूतानामनसूया क्षमा धृतिः। आयुष्याणि बुधाः प्राहुर्मित्राणां चाविमानना ।।53 अपनीतं सुनीतेन योऽर्थं प्रत्यानिनीपते । मतिमास्थाय सुदृढां तदकापुरुषव्रतम् ।।54 आयत्यां प्रतिकारज्ञस्तदात्वे दृढनिश्चयः । अतीते कार्यशेषज्ञो नरोऽर्थैर्न प्रहीयते।।55 कर्मणा मनसा वाचा यदभीक्ष्णं निषेवते । तदेवापहरत्येनं तस्मात्कल्याणमाचरेत् ।।56 मङ्गलालम्भनं योगः श्रुतमुत्थानमार्जवम्। भूतिमेतानि कुर्वन्ति सतां चाभीक्ष्णदर्शनम् ।।57 अनिर्वेदः श्रियो मूलं लाभस्य च शुभस्य च। महान्भवत्यनिर्विष्णः सुखं चानन्त्यमश्नुते ।।58 नातः श्रीमत्तरं किंचिदन्यत्पथ्यतमं मतम्। प्रभविष्णोर्यथा तात क्षमा सर्वत्र सर्वदा ।।59 क्षमेदशक्तः सर्वस्य शक्तिमान्धर्मकारणात्। अर्थानर्थौ समौ यस्य तस्य नित्यं क्षमा हिता ।।60 यत्सुखं सेवमानोऽपि धर्मार्थाभ्यां न हीयते। कामं तदुपसेवेत न मूढव्रतमाचरेत् ।।61 दुःखार्तेषु प्रमत्तेषु नास्तिकेष्वलसेषु च। न श्रीर्वसत्यदान्तेषु ये चोत्साहविवर्जिताः ।।62 मूढव्रतं आहारादौ अतिनिर्बन्धम् ।।
vidureṇa dhṛtarāṣṭraṃprati jñātisaṃgrahe guṇavarṇanapūrvakaṃ punaḥ kurupāṇḍaveṣu sāmyena vartanavidhānam || 1 || dhṛtarāṣṭra uvāca| anīśvaro'yaṃ puruṣo bhavābhave sūtraprotā dārumayīva yoṣā| dhātrā tu diṣṭasya vaśe kṛto'yaṃ tasmādvada tvaṃ śravaṇe dhṛto'ham ||1 vidura uvāca| aprāptakālaṃ vacanaṃ bṛhaspatirapi bruvan| labhate budhdyavajñānamavamānaṃ ca bhārata ||2 priyo bhavati dānena priyavādena cāparaḥ | mantramūlabalenānyo yaḥ priyaḥ priya eva saḥ ||3 dveṣyo na sādhurbhavati na medhāvī na paṇḍitaḥ| priye śubhāni kāryāṇi dveṣye pāpāni caiva ha ||4 uktaṃ mayā jātamātre'pi rājan duryodhanaṃ tyaja putraṃ tvamekam| tasya tyāgātputraśatasya vṛddhi- rasyātyāgātputraśatasya nāśaḥ ||5 na vṛddhirbahumantavyā yā vṛddhiḥ kṣayamāvahet| kṣayo'pi bahumantavyo yaḥ kṣayo vṛddhimāvahet ||6 na sa kṣayo mahārāja yaḥ kṣayo vṛddhimāvahet| kṣayaḥ sa tviha mantavyo yaṃ labdhvā bahu nāśayet ||7 samṛddhā guṇataḥ kecidbhavanti dhanato'pare| dhanavṛddhānguṇairhīnāndhṛtarāṣṭra vivarjaya ||8 dhṛtarāṣṭra uvāca| sarvaṃ tvamāyatīyuktaṃ bhāṣase prājñasaṃmatam| na cotsahe sutaṃ tyaktuṃ yato dharmastato jayaḥ ||9 vidura uvāca| atīva guṇasaṃpanno na jātuḥ vinayānvitaḥ| susūkṣmamapi bhūtānāmupamardamupekṣate ||10 parāpavādaniratāḥ paraduḥkhodayeṣu ca| parasparavirodhe ca yatante satatotthitāḥ ||11 sadoṣaṃ darśanaṃ yeṣāṃ saṃvāse sumahadbhayam| arthādāne mahāndoṣaḥ pradāne ca mahadbhayam ||12 ye vai bhedanaśīlāstu sakāmā nistrapāḥ śaṭhāḥ| ye pāpā iti vikhyātāḥ saṃvāse pirigarhitāḥ ||13 yuktāścānyairmahādoṣairye narāstānvivarjayet| nivartamāne sauhārde prītirnīce praṇaśyati ||14 yā caiva phalanirvṛtiḥ sauhṛde caiva yatsukham | yatate cāpavādāya yatnamārabhate kṣaye ||15 alpe'pyapakṛte mohānna śāntimadhigacchati| tādṛśaiḥ saṅgataṃ nīcairnṛśaṃsairakṛtātmabhiḥ | niśāmya nipuṇaṃ buddhyā vidvāndūrādvivarjayet ||16 yo jñātimanugṛhṇāti daridraṃ dīnamāturam| sa putrapaśubhirvṛddhiṃ śreyaścānantyamaśrute ||17 jñātayo vardhanīyāstairya icchantyātmanaḥ śubham ||18 kulavṛddhiṃ ca rājendra tasmātsādhu samācaraṃ| śreyasā yokṣyate rājankurvāṇo jñātisatkriyāṃ ||19 viguṇā hyapi saṃrakṣyā jñātayo bharatarṣabha | kiṃpunarguṇavantaste tvatprasādābhikāṅkṣiṇaḥ ||20 prasādaṃ kuru vīrāṇāṃ pāṇḍavānāṃ viśāṃpate| dīyatāṃ grāmakāḥ kecitteṣāṃ vṛttyarthamīśvara ||21 evaṃ loke yaśaḥ prāptaṃ bhaviṣyati narādhipa| vṛddhena hi tvayā kāryaṃ putrāṇāṃ tāta śāsanam ||22 mayā cāpi hitaṃ vācyaṃ viddhi māṃ tvaddhitaiṣiṇam| jñātibhirvigrahastāta na kartavyaḥ śubhārthinā| sukhāni saha bhojyāni jñātibhirbharatarṣabha ||23 saṃbhojanaṃ saṃkathanaṃ saṃprītiśca parasparam | jñātibhiḥ saha kāryāṇi na virodhaḥ kadācana ||24 jñātayastārayantīha jñātayo mañjayanti ca| suvṛttāstārayantīha durvṛttā mañjayanti ca ||25 suvṛtto bhava rājendra pāṇjavānprati mānada| adharṣaṇīyaḥ śatrūṇāṃ tairvṛtastvaṃ bhaviṣyati ||26 śrīmantaṃ jñātimāsādya yo jñātiravasīdati | digdhahastaṃ mṛga iva sa enastasya vindati ||27 paścādapi naraśreṣṭha tava tāpo bhaviṣyati | tānvā hatānsutānvāpi śrutvā tadanucintaya ||28 yena khaṭvāṃ samārūḍhaḥ paritapyeta karmaṇā | ādāvena na tatkuryādadhruve jīvite sati ||29 na kaścinnāpanayate pumānanyatra bhārgavāt | śeṣasaṃpratipattistu buddhimatsveva tiṣṭhati ||30 duryodhanena yadyetatpāpaṃ teṣu purā kṛtam | tvayā tatkulavṛddhena pratyāneyaṃ nareśvara ||31 tāṃstvaṃ pade pratiṣṭhāpya loke vigatakalmaṣaḥ | bhaviṣyasi naraśreṣṭha pūjanīyo manīṣiṇām ||32 suvyāhṛtāni dhīrāṇāṃ phalataḥ paricintya yaḥ| adhyavasyati kāryeṣu ciraṃ yaśasi tiṣṭhati ||33 asamyagupayuktaṃ hi jñānaṃ sukuśalairapi | upalabhyaṃ cāviditaṃ viditaṃ cānanuṣṭhitam ||34 pāpodayaphalaṃ vidvānyo nārabhati vardhate ||35 yastu pūrvakṛtaṃ pāpamavimṛśyānuvartate | agādhapaṅke durmedhā viṣame vinipātyate ||36 mantrabhedasya ṣaṭ prājño dvārāṇīmāni lakṣayet| arthasantatikāmaśca rakṣedetāni nityaśaḥ ||37 madaṃ svapnapavijñānamākāraṃ cātmasaṃbhavam | duṣṭāmātyeṣu viśrambhaṃ dūtāccākuśalādapi ||38 dvārāṇyetāni yo jñātvā saṃvṛṇoti sadā nṛpa| trivargācaraṇe yuktaḥ sa śatrūnadhitiṣṭhati ||39 navai śrutamavijñāya vṛddhānanupasevya vā| dharmārthau vedutuṃ śakyau bṛhaspatisamairapi ||40 naṣṭaṃ samudre patitaṃ naṣṭaṃ vākyamaśṛṇvati| anātmani śrutaṃ naṣṭaṃ naṣṭaṃ hutamanagnikam ||41 matyā parīkṣya medhāvī buddhyā saṃpādya cāsakṛt| śrutvā dṛṣṭvātha vijñāya prājñairmaitrīṃ samācaret ||42 akīrti vinayo hanti hantyanarthaṃ parākramaḥ | hanti nityaṃ kṣamā krodhamācāro hantyalakṣaṇam ||43 paricchadena kṣetreṇa veśmanā paricaryayā| parīkṣeta kulaṃ rājanbhojanācchādanena ca ||44 upasthitasaya kāmasya prativādo na vidyate| api nirmuktadehasya kāmaraktasya kiṃ punaḥ ||45 prājñopasevinaṃ vaidyaṃ dhārmikaṃ priyadarśanam | mitravantaṃ suvākyaṃ ca suhṛdaṃ paripālayet ||46 duṣkulīnaḥ kulīno vā maryādāṃ yo na laṅghayet| dharmāpekṣī mṛdurhrīmānsa kulīnaśatādvaraḥ ||47 yayościttena vā cittaṃ nibhṛtaṃ nibhṛtena vā| sameti prajñayā prajñā tayormaitrī na jīryati ||48 durbuddhimakṛtaprajñaṃ channaṃ kūpaṃ tṛṇairiva| vivarjayīta medhāvī tasminmaitrī praṇaśyati ||49 avalipteṣu mūrkheṣu raudrasāhasikeṣu ca| tathaivāpetadharmeṣu na maitrīmācaredbudhaḥ ||50 kṛtajñaṃ dhārmikaṃ satyamakṣudraṃ dṛḍhabhaktikam | jitendriyaṃ sthitaṃ sthityāṃ mitramityabhivāñchati ||51 indriyāṇāmanutsargo mṛtyunāpi viśiṣyate| atyarthaṃ punarutsargaḥ sādayeddaivatānapi ||52 mārdavaṃ sarvabhūtānāmanasūyā kṣamā dhṛtiḥ| āyuṣyāṇi budhāḥ prāhurmitrāṇāṃ cāvimānanā ||53 apanītaṃ sunītena yo'rthaṃ pratyāninīpate | matimāsthāya sudṛḍhāṃ tadakāpuruṣavratam ||54 āyatyāṃ pratikārajñastadātve dṛḍhaniścayaḥ | atīte kāryaśeṣajño naro'rthairna prahīyate||55 karmaṇā manasā vācā yadabhīkṣṇaṃ niṣevate | tadevāpaharatyenaṃ tasmātkalyāṇamācaret ||56 maṅgalālambhanaṃ yogaḥ śrutamutthānamārjavam| bhūtimetāni kurvanti satāṃ cābhīkṣṇadarśanam ||57 anirvedaḥ śriyo mūlaṃ lābhasya ca śubhasya ca| mahānbhavatyanirviṣṇaḥ sukhaṃ cānantyamaśnute ||58 nātaḥ śrīmattaraṃ kiṃcidanyatpathyatamaṃ matam| prabhaviṣṇoryathā tāta kṣamā sarvatra sarvadā ||59 kṣamedaśaktaḥ sarvasya śaktimāndharmakāraṇāt| arthānarthau samau yasya tasya nityaṃ kṣamā hitā ||60 yatsukhaṃ sevamāno'pi dharmārthābhyāṃ na hīyate| kāmaṃ tadupaseveta na mūḍhavratamācaret ||61 duḥkhārteṣu pramatteṣu nāstikeṣvalaseṣu ca| na śrīrvasatyadānteṣu ye cotsāhavivarjitāḥ ||62 mūḍhavrataṃ āhārādau atinirbandham ||
Verse 67
अदान्तेषु लिप्साहीनेषु।।
adānteṣu lipsāhīneṣu||
Verse 69
और्ध्वदेहिकं परलोकसाधनं यज्ञदानादि ।।
aurdhvadehikaṃ paralokasādhanaṃ yajñadānādi ||
Verse 71
संयमः इन्द्रियाणां निग्रहः। भवस्य ऐश्वर्यस्य ।।
saṃyamaḥ indriyāṇāṃ nigrahaḥ| bhavasya aiśvaryasya ||
Verse 73
ब्राह्मणकाम्या ब्राह्मणस्य इच्छा इत्येत्यर्थः ।। संदध्यात् कुर्यात् ।।
brāhmaṇakāmyā brāhmaṇasya icchā ityetyarthaḥ || saṃdadhyāt kuryāt ||
Verse 78
साधुना ...
sādhunā ...
Verse 79
स्त्रीधूर्तके स्त्रियां धुते चेत्येकवद्भावः ।।
strīdhūrtake striyāṃ dhute cetyekavadbhāvaḥ ||
Verse 80
वाह्लीकाः पञ्चानां सिन्धुषष्टानां नदीनां यत्र संगमः वाह्लीका नाम ते देशाः ।।
vāhlīkāḥ pañcānāṃ sindhuṣaṣṭānāṃ nadīnāṃ yatra saṃgamaḥ vāhlīkā nāma te deśāḥ ||
Verse 82
विप्रवासः प्रवासः ।।
vipravāsaḥ pravāsaḥ ||
Verse 86
स्वप्नेन शयनेन ।।
svapnena śayanena ||