Lipi
Sign in
Classic reading room ↗

Adhyaya 2

Vana Parva · 84 verses

84 verses · free forever

English has not yet been added to this adhyaya. You can read the Ganesha passage or Vana Parva 312–315 with English.

Show
Listen to this section

Uses your saved HI voice · Narration settings

Narration reads the opening of this section. Longer passages are split to keep playback responsive.

  1. Verse 1

    युधिष्ठिरेण वने स्वानुयायिनो ब्राह्मणान्प्रति स्वस्य हृतसर्वस्वतया तद्भरणस्य दुष्करत्वकथनपूर्वकं प्रतिनिवर्तनप्रार्थना ।। 1 ।। ब्राह्मणैः स्वयमेवत्मभरणपूर्वकं स्वसहवासमात्रेऽर्थिते युधिष्ठिरेण स्वस्य तद्भरणाशक्तिचिन्तनेन विषादाधिगमः ।। शौनकेन युधिष्टिरंप्रति ब्राह्मणभरणाय तपसा सिद्धिसंपादनचोदना ।। 3 ।। वैशम्पायन उवाच|| प्रभातायां तु शर्वर्यां तेषामक्लिष्टकर्मणाम् | वनं यियासतां विप्रास्तस्थुर्भिक्षाभुजोऽग्रतः ||१|| तानुवाच ततो राजा कुन्तीपुत्रो युधिष्ठिरः ||१|| वयं हि हृतसर्वस्वा हृतराज्या हृतश्रियः | फलमूलामिषाहारा वनं यास्याम दुःखिताः ||२|| वनं च दोषबहुलं बहुव्यालसरीसृपम् | परिक्लेशश्च वो मन्ये ध्रुवं तत्र भविष्यति ||३|| ब्राह्मणानां परिक्लेशो दैवतान्यपि सादयेत् | किं पुनर्मामितो विप्रा निवर्तध्वं यथेष्टतः ||४|| ब्राह्मणा ऊचुः|| गतिर्या भवतां राजंस्तां वयं गन्तुमुद्यताः | नार्हथास्मान्परित्यक्तुं भक्तान्सद्धर्मदर्शिनः ||५|| अनुकम्पां हि भक्तेषु दैवतान्यपि कुर्वते | विशेषतो ब्राह्मणेषु सदाचारावलम्बिषु ||६|| युधिष्ठिर उवाच|| ममापि परमा भक्तिर्ब्राह्मणेषु सदा द्विजाः | सहायविपरिभ्रंशस्त्वयं सादयतीव माम् ||७|| आहरेयुर्हि मे येऽपि फलमूलमृगांस्तथा | त इमे शोकजैर्दुःखैर्भ्रातरो मे विमोहिताः ||८|| द्रौपद्या विप्रकर्षेण राज्यापहरणेन च | दुःखान्वितानिमान्क्लेशैर्नाहं योक्तुमिहोत्सहे ||९|| ब्राह्मणा ऊचुः|| अस्मत्पोषणजा चिन्ता मा भूत्ते हृदि पार्थिव | स्वयमाहृत्य वन्यानि अनुयास्यामहे वयम् ||१०|| अनुध्यानेन जप्येन विधास्यामः शिवं तव | कथाभिश्चानुकूलाभिः सह रंस्यामहे वने ||११|| युधिष्ठिर उवाच|| एवमेतन्न संदेहो रमेयं ब्राह्मणैः सह | न्यूनभावात्तु पश्यामि प्रत्यादेशमिवात्मनः ||१२|| कथं द्रक्ष्यामि वः सर्वान्स्वयमाहृतभोजनान् | मद्भक्त्या क्लिश्यतोऽनर्हान्धिक्पापान्धृतराष्ट्रजान् ||१३|| वैशम्पायन उवाच|| इत्युक्त्वा स नृपः शोचन्निषसाद महीतले | तमध्यात्मरतिर्विद्वाञ्शौनको नाम वै द्विजः ||१४|| योगे साङ्ख्ये च कुशलो राजानमिदमब्रवीत् ||१४|| शोकस्थानसहस्राणि भयस्थानशतानि च | दिवसे दिवसे मूढमाविशन्ति न पण्डितम् ||१५|| न हि ज्ञानविरुद्धेषु बहुदोषेषु कर्मसु | श्रेयोघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः ||१६|| अष्टाङ्गां बुद्धिमाहुर्यां सर्वाश्रेयोविघातिनीम् | श्रुतिस्मृतिसमायुक्तां सा राजंस्त्वय्यवस्थिता ||१७|| अर्थकृच्छ्रेषु दुर्गेषु व्यापत्सु स्वजनस्य च | शारीरमानसैर्दुःखैर्न सीदन्ति भवद्विधाः ||१८|| श्रूयतां चाभिधास्यामि जनकेन यथा पुरा | आत्मव्यवस्थानकरा गीताः श्लोका महात्मना ||१९|| मनोदेहसमुत्थाभ्यां दुःखाभ्यामर्दितं जगत् | तयोर्व्याससमासाभ्यां शमोपायमिमं शृणु ||२०|| व्याधेरनिष्टसंस्पर्शाच्छ्रमादिष्टविवर्जनात् | दुःखं चतुर्भिः शारीरं कारणैः सम्प्रवर्तते ||२१|| तदाशुप्रतिकाराच्च सततं चाविचिन्तनात् | आधिव्याधिप्रशमनं क्रियायोगद्वयेन तु ||२२|| मतिमन्तो ह्यतो वैद्याः शमं प्रागेव कुर्वते | मानसस्य प्रियाख्यानैः सम्भोगोपनयैर्नृणाम् ||२३|| मानसेन हि दुःखेन शरीरमुपतप्यते | अयःपिण्डेन तप्तेन कुम्भसंस्थमिवोदकम् ||२४|| मानसं शमयेत्तस्माज्ज्ञानेनाग्निमिवाम्बुना | प्रशान्ते मानसे दुःखे शारीरमुपशाम्यति ||२५|| मनसो दुःखमूलं तु स्नेह इत्युपलभ्यते | स्नेहात्तु सज्जते जन्तुर्दुःखयोगमुपैति च ||२६|| स्नेहमूलानि दुःखानि स्नेहजानि भयानि च | शोकहर्षौ तथायासः सर्वं स्नेहात्प्रवर्तते ||२७|| स्नेहात्करणरागश्च प्रजज्ञे वैषयस्तथा | अश्रेयस्कावुभावेतौ पूर्वस्तत्र गुरुः स्मृतः ||२८|| कोटराग्निर्यथाशेषं समूलं पादपं दहेत् | धर्मार्थिनं तथाल्पोऽपि रागदोषो विनाशयेत् ||२९|| विप्रयोगे न तु त्यागी दोषदर्शी समागमात् | विरागं भजते जन्तुर्निर्वैरो निष्परिग्रहः ||३०|| तस्मात्स्नेहं स्वपक्षेभ्यो मित्रेभ्यो धनसञ्चयात् | स्वशरीरसमुत्थं तु ज्ञानेन विनिवर्तयेत् ||३१|| ज्ञानान्वितेषु मुख्येषु शास्त्रज्ञेषु कृतात्मसु | न तेषु सज्जते स्नेहः पद्मपत्रेष्विवोदकम् ||३२|| रागाभिभूतः पुरुषः कामेन परिकृष्यते | इच्छा सञ्जायते तस्य ततस्तृष्णा प्रवर्तते ||३३|| तृष्णा हि सर्वपापिष्ठा नित्योद्वेगकरी नृणाम् | अधर्मबहुला चैव घोरा पापानुबन्धिनी ||३४|| या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः | योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम् ||३५|| अनाद्यन्ता तु सा तृष्णा अन्तर्देहगता नृणाम् | विनाशयति सम्भूता अयोनिज इवानलः ||३६|| यथैधः स्वसमुत्थेन वह्निना नाशमृच्छति | तथाकृतात्मा लोभेन सहजेन विनश्यति ||३७|| राजतः सलिलादग्नेश्चोरतः स्वजनादपि | भयमर्थवतां नित्यं मृत्योः प्राणभृतामिव ||३८|| यथा ह्यामिषमाकाशे पक्षिभिः श्वापदैर्भुवि | भक्ष्यते सलिले मत्स्यैस्तथा सर्वेण वित्तवान् ||३९|| अर्थ एव हि केषाञ्चिदनर्थो भविता नृणाम् | अर्थश्रेयसि चासक्तो न श्रेयो विन्दते नरः ||४०|| तस्मादर्थागमाः सर्वे मनोमोहविवर्धनाः ||४०|| कार्पण्यं दर्पमानौ च भयमुद्वेग एव च | अर्थजानि विदुः प्राज्ञा दुःखान्येतानि देहिनाम् ||४१|| अर्थस्योपार्जने दुःखं पालने च क्षये तथा | नाशे दुःखं व्यये दुःखं घ्नन्ति चैवार्थकारणात् ||४२|| अर्था दुःखं परित्यक्तुं पालिताश्चापि तेऽसुखाः | दुःखेन चाधिगम्यन्ते तेषां नाशं न चिन्तयेत् ||४३|| असन्तोषपरा मूढाः सन्तोषं यान्ति पण्डिताः | अन्तो नास्ति पिपासायाः सन्तोषः परमं सुखम् ||४४|| तस्मात्सन्तोषमेवेह धनं पश्यन्ति पण्डिताः | अनित्यं यौवनं रूपं जीवितं द्रव्यसञ्चयः ||४५|| ऐश्वर्यं प्रियसंवासो गृध्येदेषु न पण्डितः ||४५|| त्यजेत सञ्चयांस्तस्मात्तज्जं क्लेशं सहेत कः | न हि सञ्चयवान्कश्चिद्दृश्यते निरुपद्रवः ||४६|| अतश्च धर्मिभिः पुम्भिरनीहार्थः प्रशस्यते | प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम् ||४७|| युधिष्ठिरैवमर्थेषु न स्पृहां कर्तुमर्हसि | धर्मेण यदि ते कार्यं विमुक्तेच्छो भवार्थतः ||४८|| युधिष्ठिर उवाच|| नार्थोपभोगलिप्सार्थमियमर्थेप्सुता मम | भरणार्थं तु विप्राणां ब्रह्मन्काङ्क्षे न लोभतः ||४९|| कथं ह्यस्मद्विधो ब्रह्मन्वर्तमानो गृहाश्रमे | भरणं पालनं चापि न कुर्यादनुयायिनाम् ||५०|| संविभागो हि भूतानां सर्वेषामेव शिष्यते | तथैवापचमानेभ्यः प्रदेयं गृहमेधिना ||५१|| तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता | सतामेतानि गेहेषु नोच्छिद्यन्ते कदाचन ||५२|| देयमार्तस्य शयनं स्थितश्रान्तस्य चासनम् | तृषितस्य च पानीयं क्षुधितस्य च भोजनम् ||५३|| चक्षुर्दद्यान्मनो दद्याद्वाचं दद्याच्च सूनृताम् | प्रत्युद्गम्याभिगमनं कुर्यान्न्यायेन चार्चनम् ||५४|| अघिहोत्रमनड्वांश्च ज्ञातयोऽतिथिबान्धवाः | पुत्रदारभृताश्चैव निर्दहेयुरपूजिताः ||५५|| नात्मार्थं पाचयेदन्नं न वृथा घातयेत्पशून् | न च तत्स्वयमश्नीयाद्विधिवद्यन्न निर्वपेत् ||५६|| श्वभ्यश्च श्वपचेभ्यश्च वयोभ्यश्चावपेद्भुवि | वैश्वदेवं हि नामैतत्सायम्प्रातर्विधीयते ||५७|| विघसाशी भवेत्तस्मान्नित्यं चामृतभोजनः | विघसं भृत्यशेषं तु यज्ञशेषं तथामृतम् ||५८|| एतां यो वर्तते वृत्तिं वर्तमानो गृहाश्रमे | तस्य धर्मं परं प्राहुः कथं वा विप्र मन्यसे ||५९|| शौनक उवाच|| अहो बत महत्कष्टं विपरीतमिदं जगत् | येनापत्रपते साधुरसाधुस्तेन तुष्यति ||६०|| शिश्नोदरकृतेऽप्राज्ञः करोति विघसं बहु | मोहरागसमाक्रान्त इन्द्रियार्थवशानुगः ||६१|| ह्रियते बुध्यमानोऽपि नरो हारिभिरिन्द्रियैः | विमूढसञ्ज्ञो दुष्टाश्वैरुद्भ्रान्तैरिव सारथिः ||६२|| षडिन्द्रियाणि विषयं समागच्छन्ति वै यदा | तदा प्रादुर्भवत्येषां पूर्वसङ्कल्पजं मनः ||६३|| मनो यस्येन्द्रियग्रामविषयं प्रति चोदितम् | तस्यौत्सुक्यं सम्भवति प्रवृत्तिश्चोपजायते ||६४|| ततः सङ्कल्पवीर्येण कामेन विषयेषुभिः | विद्धः पतति लोभाग्नौ ज्योतिर्लोभात्पतङ्गवत् ||६५|| ततो विहारैराहारैर्मोहितश्च विशां पते | महामोहमुखे मग्नो नात्मानमवबुध्यते ||६६|| एवं पतति संसारे तासु तास्विह योनिषु | अविद्याकर्मतृष्णाभिर्भ्राम्यमाणोऽथ चक्रवत् ||६७|| ब्रह्मादिषु तृणान्तेषु हूतेषु परिवर्तते | जले भुवि तथाकाशे जायमानः पुनः पुनः ||६८|| अबुधानां गतिस्त्वेषा बुधानामपि मे शृणु | ये धर्मे श्रेयसि रता विमोक्षरतयो जनाः ||६९|| यदिदं वेदवचनं कुरु कर्म त्यजेति च | तस्माद्धर्मानिमान्सर्वान्नाभिमानात्समाचरेत् ||७०|| इज्याध्ययनदानानि तपः सत्यं क्षमा दमः | अलोभ इति मार्गोऽयं धर्मस्याष्टविधः स्मृतः ||७१|| तत्र पूर्वश्चतुर्वर्गः पितृयानपथे स्थितः | कर्तव्यमिति यत्कार्यं नाभिमानात्समाचरेत् ||७२|| उत्तरो देवयानस्तु सद्भिराचरितः सदा | अष्टाङ्गेनैव मार्गेण विशुद्धात्मा समाचरेत् ||७३|| सम्यक्सङ्कल्पसम्बन्धात्सम्यक्चेन्द्रियनिग्रहात् | सम्यग्व्रतविशेषाच्च सम्यक्च गुरुसेवनात् ||७४|| सम्यगाहारयोगाच्च सम्यक्चाध्ययनागमात् | सम्यक्कर्मोपसंन्यासात्सम्यक्चित्तनिरोधनात् ||७५|| एवं कर्माणि कुर्वन्ति संसारविजिगीषवः ||७५|| रागद्वेषविनिर्मुक्ता ऐश्वर्यं देवता गताः | रुद्राः साध्यास्तथादित्या वसवोऽथाश्विनावपि ||७६|| योगैश्वर्येण संयुक्ता धारयन्ति प्रजा इमाः ||७६|| तथा त्वमपि कौन्तेय शममास्थाय पुष्कलम् | तपसा सिद्धिमन्विच्छ योगसिद्धिं च भारत ||७७|| पितृमातृमयी सिद्धिः प्राप्ता कर्ममयी च ते | तपसा सिद्धिमन्विच्छ द्विजानां भरणाय वै ||७८|| सिद्धा हि यद्यदिच्छन्ति कुर्वते तदनुग्रहात् | तस्मात्तपः समास्थाय कुरुष्वात्ममनोरथम् ||७९|| 3.2.84 वैशंपायन उवाच। प्रभातायां तु शर्वर्यां तेषामक्लिष्टकर्मणाम्। वनं यियासतां विप्रास्तस्थुर्भिक्षाभुजोऽग्रतः। तानुवाच ततो राजा कुन्तीपुत्रो युधिष्ठिरः ।। ।। इति श्रीमन्महाभारते अरण्यपर्वणि किर्मीरवधपर्वणि द्वितीयोऽध्यायः ।। 2 ।।

    yudhiṣṭhireṇa vane svānuyāyino brāhmaṇānprati svasya hṛtasarvasvatayā tadbharaṇasya duṣkaratvakathanapūrvakaṃ pratinivartanaprārthanā || 1 || brāhmaṇaiḥ svayamevatmabharaṇapūrvakaṃ svasahavāsamātre'rthite yudhiṣṭhireṇa svasya tadbharaṇāśakticintanena viṣādādhigamaḥ || śaunakena yudhiṣṭiraṃprati brāhmaṇabharaṇāya tapasā siddhisaṃpādanacodanā || 3 || vaiśampāyana uvāca|| prabhātāyāṃ tu śarvaryāṃ teṣāmakliṣṭakarmaṇām | vanaṃ yiyāsatāṃ viprāstasthurbhikṣābhujo'grataḥ ||1|| tānuvāca tato rājā kuntīputro yudhiṣṭhiraḥ ||1|| vayaṃ hi hṛtasarvasvā hṛtarājyā hṛtaśriyaḥ | phalamūlāmiṣāhārā vanaṃ yāsyāma duḥkhitāḥ ||2|| vanaṃ ca doṣabahulaṃ bahuvyālasarīsṛpam | parikleśaśca vo manye dhruvaṃ tatra bhaviṣyati ||3|| brāhmaṇānāṃ parikleśo daivatānyapi sādayet | kiṃ punarmāmito viprā nivartadhvaṃ yatheṣṭataḥ ||4|| brāhmaṇā ūcuḥ|| gatiryā bhavatāṃ rājaṃstāṃ vayaṃ gantumudyatāḥ | nārhathāsmānparityaktuṃ bhaktānsaddharmadarśinaḥ ||5|| anukampāṃ hi bhakteṣu daivatānyapi kurvate | viśeṣato brāhmaṇeṣu sadācārāvalambiṣu ||6|| yudhiṣṭhira uvāca|| mamāpi paramā bhaktirbrāhmaṇeṣu sadā dvijāḥ | sahāyaviparibhraṃśastvayaṃ sādayatīva mām ||7|| āhareyurhi me ye'pi phalamūlamṛgāṃstathā | ta ime śokajairduḥkhairbhrātaro me vimohitāḥ ||8|| draupadyā viprakarṣeṇa rājyāpaharaṇena ca | duḥkhānvitānimānkleśairnāhaṃ yoktumihotsahe ||9|| brāhmaṇā ūcuḥ|| asmatpoṣaṇajā cintā mā bhūtte hṛdi pārthiva | svayamāhṛtya vanyāni anuyāsyāmahe vayam ||10|| anudhyānena japyena vidhāsyāmaḥ śivaṃ tava | kathābhiścānukūlābhiḥ saha raṃsyāmahe vane ||11|| yudhiṣṭhira uvāca|| evametanna saṃdeho rameyaṃ brāhmaṇaiḥ saha | nyūnabhāvāttu paśyāmi pratyādeśamivātmanaḥ ||12|| kathaṃ drakṣyāmi vaḥ sarvānsvayamāhṛtabhojanān | madbhaktyā kliśyato'narhāndhikpāpāndhṛtarāṣṭrajān ||13|| vaiśampāyana uvāca|| ityuktvā sa nṛpaḥ śocanniṣasāda mahītale | tamadhyātmaratirvidvāñśaunako nāma vai dvijaḥ ||14|| yoge sāṅkhye ca kuśalo rājānamidamabravīt ||14|| śokasthānasahasrāṇi bhayasthānaśatāni ca | divase divase mūḍhamāviśanti na paṇḍitam ||15|| na hi jñānaviruddheṣu bahudoṣeṣu karmasu | śreyoghātiṣu sajjante buddhimanto bhavadvidhāḥ ||16|| aṣṭāṅgāṃ buddhimāhuryāṃ sarvāśreyovighātinīm | śrutismṛtisamāyuktāṃ sā rājaṃstvayyavasthitā ||17|| arthakṛcchreṣu durgeṣu vyāpatsu svajanasya ca | śārīramānasairduḥkhairna sīdanti bhavadvidhāḥ ||18|| śrūyatāṃ cābhidhāsyāmi janakena yathā purā | ātmavyavasthānakarā gītāḥ ślokā mahātmanā ||19|| manodehasamutthābhyāṃ duḥkhābhyāmarditaṃ jagat | tayorvyāsasamāsābhyāṃ śamopāyamimaṃ śṛṇu ||20|| vyādheraniṣṭasaṃsparśācchramādiṣṭavivarjanāt | duḥkhaṃ caturbhiḥ śārīraṃ kāraṇaiḥ sampravartate ||21|| tadāśupratikārācca satataṃ cāvicintanāt | ādhivyādhipraśamanaṃ kriyāyogadvayena tu ||22|| matimanto hyato vaidyāḥ śamaṃ prāgeva kurvate | mānasasya priyākhyānaiḥ sambhogopanayairnṛṇām ||23|| mānasena hi duḥkhena śarīramupatapyate | ayaḥpiṇḍena taptena kumbhasaṃsthamivodakam ||24|| mānasaṃ śamayettasmājjñānenāgnimivāmbunā | praśānte mānase duḥkhe śārīramupaśāmyati ||25|| manaso duḥkhamūlaṃ tu sneha ityupalabhyate | snehāttu sajjate janturduḥkhayogamupaiti ca ||26|| snehamūlāni duḥkhāni snehajāni bhayāni ca | śokaharṣau tathāyāsaḥ sarvaṃ snehātpravartate ||27|| snehātkaraṇarāgaśca prajajñe vaiṣayastathā | aśreyaskāvubhāvetau pūrvastatra guruḥ smṛtaḥ ||28|| koṭarāgniryathāśeṣaṃ samūlaṃ pādapaṃ dahet | dharmārthinaṃ tathālpo'pi rāgadoṣo vināśayet ||29|| viprayoge na tu tyāgī doṣadarśī samāgamāt | virāgaṃ bhajate janturnirvairo niṣparigrahaḥ ||30|| tasmātsnehaṃ svapakṣebhyo mitrebhyo dhanasañcayāt | svaśarīrasamutthaṃ tu jñānena vinivartayet ||31|| jñānānviteṣu mukhyeṣu śāstrajñeṣu kṛtātmasu | na teṣu sajjate snehaḥ padmapatreṣvivodakam ||32|| rāgābhibhūtaḥ puruṣaḥ kāmena parikṛṣyate | icchā sañjāyate tasya tatastṛṣṇā pravartate ||33|| tṛṣṇā hi sarvapāpiṣṭhā nityodvegakarī nṛṇām | adharmabahulā caiva ghorā pāpānubandhinī ||34|| yā dustyajā durmatibhiryā na jīryati jīryataḥ | yo'sau prāṇāntiko rogastāṃ tṛṣṇāṃ tyajataḥ sukham ||35|| anādyantā tu sā tṛṣṇā antardehagatā nṛṇām | vināśayati sambhūtā ayonija ivānalaḥ ||36|| yathaidhaḥ svasamutthena vahninā nāśamṛcchati | tathākṛtātmā lobhena sahajena vinaśyati ||37|| rājataḥ salilādagneścorataḥ svajanādapi | bhayamarthavatāṃ nityaṃ mṛtyoḥ prāṇabhṛtāmiva ||38|| yathā hyāmiṣamākāśe pakṣibhiḥ śvāpadairbhuvi | bhakṣyate salile matsyaistathā sarveṇa vittavān ||39|| artha eva hi keṣāñcidanartho bhavitā nṛṇām | arthaśreyasi cāsakto na śreyo vindate naraḥ ||40|| tasmādarthāgamāḥ sarve manomohavivardhanāḥ ||40|| kārpaṇyaṃ darpamānau ca bhayamudvega eva ca | arthajāni viduḥ prājñā duḥkhānyetāni dehinām ||41|| arthasyopārjane duḥkhaṃ pālane ca kṣaye tathā | nāśe duḥkhaṃ vyaye duḥkhaṃ ghnanti caivārthakāraṇāt ||42|| arthā duḥkhaṃ parityaktuṃ pālitāścāpi te'sukhāḥ | duḥkhena cādhigamyante teṣāṃ nāśaṃ na cintayet ||43|| asantoṣaparā mūḍhāḥ santoṣaṃ yānti paṇḍitāḥ | anto nāsti pipāsāyāḥ santoṣaḥ paramaṃ sukham ||44|| tasmātsantoṣameveha dhanaṃ paśyanti paṇḍitāḥ | anityaṃ yauvanaṃ rūpaṃ jīvitaṃ dravyasañcayaḥ ||45|| aiśvaryaṃ priyasaṃvāso gṛdhyedeṣu na paṇḍitaḥ ||45|| tyajeta sañcayāṃstasmāttajjaṃ kleśaṃ saheta kaḥ | na hi sañcayavānkaściddṛśyate nirupadravaḥ ||46|| ataśca dharmibhiḥ pumbhiranīhārthaḥ praśasyate | prakṣālanāddhi paṅkasya dūrādasparśanaṃ varam ||47|| yudhiṣṭhiraivamartheṣu na spṛhāṃ kartumarhasi | dharmeṇa yadi te kāryaṃ vimukteccho bhavārthataḥ ||48|| yudhiṣṭhira uvāca|| nārthopabhogalipsārthamiyamarthepsutā mama | bharaṇārthaṃ tu viprāṇāṃ brahmankāṅkṣe na lobhataḥ ||49|| kathaṃ hyasmadvidho brahmanvartamāno gṛhāśrame | bharaṇaṃ pālanaṃ cāpi na kuryādanuyāyinām ||50|| saṃvibhāgo hi bhūtānāṃ sarveṣāmeva śiṣyate | tathaivāpacamānebhyaḥ pradeyaṃ gṛhamedhinā ||51|| tṛṇāni bhūmirudakaṃ vākcaturthī ca sūnṛtā | satāmetāni geheṣu nocchidyante kadācana ||52|| deyamārtasya śayanaṃ sthitaśrāntasya cāsanam | tṛṣitasya ca pānīyaṃ kṣudhitasya ca bhojanam ||53|| cakṣurdadyānmano dadyādvācaṃ dadyācca sūnṛtām | pratyudgamyābhigamanaṃ kuryānnyāyena cārcanam ||54|| aghihotramanaḍvāṃśca jñātayo'tithibāndhavāḥ | putradārabhṛtāścaiva nirdaheyurapūjitāḥ ||55|| nātmārthaṃ pācayedannaṃ na vṛthā ghātayetpaśūn | na ca tatsvayamaśnīyādvidhivadyanna nirvapet ||56|| śvabhyaśca śvapacebhyaśca vayobhyaścāvapedbhuvi | vaiśvadevaṃ hi nāmaitatsāyamprātarvidhīyate ||57|| vighasāśī bhavettasmānnityaṃ cāmṛtabhojanaḥ | vighasaṃ bhṛtyaśeṣaṃ tu yajñaśeṣaṃ tathāmṛtam ||58|| etāṃ yo vartate vṛttiṃ vartamāno gṛhāśrame | tasya dharmaṃ paraṃ prāhuḥ kathaṃ vā vipra manyase ||59|| śaunaka uvāca|| aho bata mahatkaṣṭaṃ viparītamidaṃ jagat | yenāpatrapate sādhurasādhustena tuṣyati ||60|| śiśnodarakṛte'prājñaḥ karoti vighasaṃ bahu | moharāgasamākrānta indriyārthavaśānugaḥ ||61|| hriyate budhyamāno'pi naro hāribhirindriyaiḥ | vimūḍhasañjño duṣṭāśvairudbhrāntairiva sārathiḥ ||62|| ṣaḍindriyāṇi viṣayaṃ samāgacchanti vai yadā | tadā prādurbhavatyeṣāṃ pūrvasaṅkalpajaṃ manaḥ ||63|| mano yasyendriyagrāmaviṣayaṃ prati coditam | tasyautsukyaṃ sambhavati pravṛttiścopajāyate ||64|| tataḥ saṅkalpavīryeṇa kāmena viṣayeṣubhiḥ | viddhaḥ patati lobhāgnau jyotirlobhātpataṅgavat ||65|| tato vihārairāhārairmohitaśca viśāṃ pate | mahāmohamukhe magno nātmānamavabudhyate ||66|| evaṃ patati saṃsāre tāsu tāsviha yoniṣu | avidyākarmatṛṣṇābhirbhrāmyamāṇo'tha cakravat ||67|| brahmādiṣu tṛṇānteṣu hūteṣu parivartate | jale bhuvi tathākāśe jāyamānaḥ punaḥ punaḥ ||68|| abudhānāṃ gatistveṣā budhānāmapi me śṛṇu | ye dharme śreyasi ratā vimokṣaratayo janāḥ ||69|| yadidaṃ vedavacanaṃ kuru karma tyajeti ca | tasmāddharmānimānsarvānnābhimānātsamācaret ||70|| ijyādhyayanadānāni tapaḥ satyaṃ kṣamā damaḥ | alobha iti mārgo'yaṃ dharmasyāṣṭavidhaḥ smṛtaḥ ||71|| tatra pūrvaścaturvargaḥ pitṛyānapathe sthitaḥ | kartavyamiti yatkāryaṃ nābhimānātsamācaret ||72|| uttaro devayānastu sadbhirācaritaḥ sadā | aṣṭāṅgenaiva mārgeṇa viśuddhātmā samācaret ||73|| samyaksaṅkalpasambandhātsamyakcendriyanigrahāt | samyagvrataviśeṣācca samyakca gurusevanāt ||74|| samyagāhārayogācca samyakcādhyayanāgamāt | samyakkarmopasaṃnyāsātsamyakcittanirodhanāt ||75|| evaṃ karmāṇi kurvanti saṃsāravijigīṣavaḥ ||75|| rāgadveṣavinirmuktā aiśvaryaṃ devatā gatāḥ | rudrāḥ sādhyāstathādityā vasavo'thāśvināvapi ||76|| yogaiśvaryeṇa saṃyuktā dhārayanti prajā imāḥ ||76|| tathā tvamapi kaunteya śamamāsthāya puṣkalam | tapasā siddhimanviccha yogasiddhiṃ ca bhārata ||77|| pitṛmātṛmayī siddhiḥ prāptā karmamayī ca te | tapasā siddhimanviccha dvijānāṃ bharaṇāya vai ||78|| siddhā hi yadyadicchanti kurvate tadanugrahāt | tasmāttapaḥ samāsthāya kuruṣvātmamanoratham ||79|| 3.2.84 vaiśaṃpāyana uvāca| prabhātāyāṃ tu śarvaryāṃ teṣāmakliṣṭakarmaṇām| vanaṃ yiyāsatāṃ viprāstasthurbhikṣābhujo'grataḥ| tānuvāca tato rājā kuntīputro yudhiṣṭhiraḥ || || iti śrīmanmahābhārate araṇyaparvaṇi kirmīravadhaparvaṇi dvitīyo'dhyāyaḥ || 2 ||

  2. Verse 2

    वयं हि हृतसर्वस्वा हृतराज्या हृतश्रियः। फलमूलामिषाहारा वनं यास्याम दुःखिताः ।।

    vayaṃ hi hṛtasarvasvā hṛtarājyā hṛtaśriyaḥ| phalamūlāmiṣāhārā vanaṃ yāsyāma duḥkhitāḥ ||

  3. Verse 3

    वनं च दोषबहुलं बहुव्यालसरीसृपम्। परिक्लेशश्चवो मन्ये ध्रुवं तत्र भविष्यति ।।

    vanaṃ ca doṣabahulaṃ bahuvyālasarīsṛpam| parikleśaścavo manye dhruvaṃ tatra bhaviṣyati ||

  4. Verse 4

    ब्राह्मणानां परिक्लेशो दैवतान्यपि सादयेत्। किंपुनर्मामितो विप्रा निवर्तध्वं यथेष्टतः ।।

    brāhmaṇānāṃ parikleśo daivatānyapi sādayet| kiṃpunarmāmito viprā nivartadhvaṃ yatheṣṭataḥ ||

  5. Verse 5

    ब्राह्मणा ऊचुः। गतिर्या भवतां राजंस्तां वयं गन्तुमुद्यताः। नार्हथास्मान्परित्यक्तुं भक्तान्सद्धर्मदर्शिन ।।

    brāhmaṇā ūcuḥ| gatiryā bhavatāṃ rājaṃstāṃ vayaṃ gantumudyatāḥ| nārhathāsmānparityaktuṃ bhaktānsaddharmadarśina ||

  6. Verse 6

    स्नेहकर्माणि भक्तेषु दैवतान्यपि कुर्वते। विशेषतो ब्राह्मणेषु सदाचारावलम्बिषु ।।

    snehakarmāṇi bhakteṣu daivatānyapi kurvate| viśeṣato brāhmaṇeṣu sadācārāvalambiṣu ||

  7. Verse 7

    युधिष्ठिर उवाच। ममापि परमा भक्तिर्ब्राह्मणेषु सदा द्विजाः। सहायविपरिभ्रंशस्त्वयं सादयतीव माम् ।।

    yudhiṣṭhira uvāca| mamāpi paramā bhaktirbrāhmaṇeṣu sadā dvijāḥ| sahāyaviparibhraṃśastvayaṃ sādayatīva mām ||

  8. Verse 8

    आहरेयुर्हि ये सर्वे फलमूलमृगांस्तथा। त इमे शोकजैर्दुःखैर्भ्रातरो मे विमोहिताः ।।

    āhareyurhi ye sarve phalamūlamṛgāṃstathā| ta ime śokajairduḥkhairbhrātaro me vimohitāḥ ||

  9. Verse 9

    द्रौपद्या विप्रकर्षेण राज्यापहरणेन च। दुःखार्दितानिमान्क्लेशैर्नाहं योक्तुमिहोत्सहे ।।

    draupadyā viprakarṣeṇa rājyāpaharaṇena ca| duḥkhārditānimānkleśairnāhaṃ yoktumihotsahe ||

  10. Verse 10

    ब्राह्मणा ऊचुः। अस्मत्पोषणजा चिन्ता मा भूत्ते हृदि पार्थिव। स्वयमाहृत्य वन्यानि त्वानुयास्यामहे वयम् ।।

    brāhmaṇā ūcuḥ| asmatpoṣaṇajā cintā mā bhūtte hṛdi pārthiva| svayamāhṛtya vanyāni tvānuyāsyāmahe vayam ||

  11. Verse 11

    अनुध्यानेन जप्येन विधास्यामः शिव तव। कथाभिश्चानुकूलाभिः सह रंस्यामहे वने ।। प्रभातायामरुणोदयेन उद्दीपितायाम् ।।

    anudhyānena japyena vidhāsyāmaḥ śiva tava| kathābhiścānukūlābhiḥ saha raṃsyāmahe vane || prabhātāyāmaruṇodayena uddīpitāyām ||

  12. Verse 12

    युधिष्ठिर उवाच। एवमेतन्न संदेहो रमेयं ब्राह्मणैः सह। न्यूनभावात्तु पश्यामि प्रत्यादेशमिवात्मनः ।। अनुध्यानेन इष्टचिन्तनेन। जप्येन स्वस्त्ययनेन तथा विश्वासकरणैः सह रंस्यामहे इति ध. पाठः ।।

    yudhiṣṭhira uvāca| evametanna saṃdeho rameyaṃ brāhmaṇaiḥ saha| nyūnabhāvāttu paśyāmi pratyādeśamivātmanaḥ || anudhyānena iṣṭacintanena| japyena svastyayanena tathā viśvāsakaraṇaiḥ saha raṃsyāmahe iti dha. pāṭhaḥ ||

  13. Verse 13

    कथं द्रक्ष्यामि वः सर्वान्स्वयमाहृत्य भोजिनः। मद्भक्त्या क्लिश्यतोऽनर्हान्धिक्पापान्धृतराष्ट्रजान् ।।

    kathaṃ drakṣyāmi vaḥ sarvānsvayamāhṛtya bhojinaḥ| madbhaktyā kliśyato'narhāndhikpāpāndhṛtarāṣṭrajān ||

  14. Verse 14

    वैशंपायन उवाच। इत्युक्त्वा नृपतिः शोचन्निषसाद महीतले ।।

    vaiśaṃpāyana uvāca| ityuktvā nṛpatiḥ śocanniṣasāda mahītale ||

  15. Verse 15

    तमध्यात्मरतो विद्वाञ्शौनको नाम वै द्विजः। योगे साङ्ख्ये च कुशलो राजानमिदमब्रवीत् ।। प्रत्यादेशं धिक्कारम् ।।

    tamadhyātmarato vidvāñśaunako nāma vai dvijaḥ| yoge sāṅkhye ca kuśalo rājānamidamabravīt || pratyādeśaṃ dhikkāram ||

  16. Verse 16

    शोकस्थानसहस्राणि हर्षस्थानशतानि च। दिवसेदिवसे मूढमाविशन्ति न पण्डितम् ।। अध्यात्मं आत्मानमधिकृत्य प्रवृत्तं शास्त्रमध्यात्मं वेदान्तस्तत्र रतः। योगश्चित्तवृत्तिनिरोधः ।।

    śokasthānasahasrāṇi harṣasthānaśatāni ca| divasedivase mūḍhamāviśanti na paṇḍitam || adhyātmaṃ ātmānamadhikṛtya pravṛttaṃ śāstramadhyātmaṃ vedāntastatra rataḥ| yogaścittavṛttinirodhaḥ ||

  17. Verse 17

    न हि ज्ञानविरुद्धेषु बहुदोषेषु कर्मसु। श्रेयोघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः ।।

    na hi jñānaviruddheṣu bahudoṣeṣu karmasu| śreyoghātiṣu sajjante buddhimanto bhavadvidhāḥ ||

  18. Verse 18

    अष्टाङ्गां बुद्धिमाहुर्यां सर्वाश्रेयोभिघातिनीम्। श्रुतिस्मृतिसमायुक्तां राजन्सा त्वय्यवस्थिता ।।

    aṣṭāṅgāṃ buddhimāhuryāṃ sarvāśreyobhighātinīm| śrutismṛtisamāyuktāṃ rājansā tvayyavasthitā ||

  19. Verse 19

    शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा। ऊहापोहोऽर्थविज्ञानं तत्वज्ञानं च धीगुणाः ।।

    śuśrūṣā śravaṇaṃ caiva grahaṇaṃ dhāraṇaṃ tathā| ūhāpoho'rthavijñānaṃ tatvajñānaṃ ca dhīguṇāḥ ||

  20. Verse 20

    अर्थकृच्छ्रेषु दुर्गेषु व्यापत्सु स्वजनेष्वपि। शारीरमानसैर्दुःखैर्न सीदन्ति भवद्विधाः ।। शोकःस्थीयतेऽनेनेति व्युत्पत्त्या स्थानशब्दो हेतुवचनः। भयस्थानशतानि चेति झ. पाठः ।।

    arthakṛcchreṣu durgeṣu vyāpatsu svajaneṣvapi| śārīramānasairduḥkhairna sīdanti bhavadvidhāḥ || śokaḥsthīyate'neneti vyutpattyā sthānaśabdo hetuvacanaḥ| bhayasthānaśatāni ceti jha. pāṭhaḥ ||

  21. Verse 21

    श्रूयतां चाभिधास्यामि जनकेन यथा पुरा। आत्मव्यवस्थानकरागीताः श्लोका महात्मना ।। गुर्देषु दुस्तरेषु शारीरदुःखेषु। आपत्सु स्त्रीकर्षणादिषु ।।

    śrūyatāṃ cābhidhāsyāmi janakena yathā purā| ātmavyavasthānakarāgītāḥ ślokā mahātmanā || gurdeṣu dustareṣu śārīraduḥkheṣu| āpatsu strīkarṣaṇādiṣu ||

  22. Verse 22

    मनोदेहसमुत्थाभ्यां दुःखाभ्यामर्दितं जगत्। तयोर्व्याससमासाभ्यांशमोपायमिमं शृणु ।। आत्मव्यवस्थानकराः मनःस्थैर्यहेतवः ।।

    manodehasamutthābhyāṃ duḥkhābhyāmarditaṃ jagat| tayorvyāsasamāsābhyāṃśamopāyamimaṃ śṛṇu || ātmavyavasthānakarāḥ manaḥsthairyahetavaḥ ||

  23. Verse 23

    व्याधेरनिष्टसंस्पर्शाच्छ्रमादिष्टविवर्जनात्। दुःखं चतुर्भिः शारीरं कारणैः संप्रवर्तते ।। व्याससमासाभ्यां विस्तरसंक्षेपाभ्याम् ।।

    vyādheraniṣṭasaṃsparśācchramādiṣṭavivarjanāt| duḥkhaṃ caturbhiḥ śārīraṃ kāraṇaiḥ saṃpravartate || vyāsasamāsābhyāṃ vistarasaṃkṣepābhyām ||

  24. Verse 24

    तदा तत्प्रतिकाराच्च सततं चाविचिन्तनात्। आधिव्याधिप्रशमनं क्रियायोगबलेन तु ।। अनिष्टं कणअटकादिः। श्रमो व्यायामः ।।

    tadā tatpratikārācca satataṃ cāvicintanāt| ādhivyādhipraśamanaṃ kriyāyogabalena tu || aniṣṭaṃ kaṇaaṭakādiḥ| śramo vyāyāmaḥ ||

  25. Verse 25

    मतिमन्तो व्यथोपेताः शमं प्रागेव कुर्वते। मानसस्य प्रियाख्यानैः संभोगोपनयैर्नृणाम् ।। प्रतिकारादौषधादिभिरुपशमनात् आधिप्रशमनमविचिनतनात्। इदमेव क्रियायोगबलम् ।।

    matimanto vyathopetāḥ śamaṃ prāgeva kurvate| mānasasya priyākhyānaiḥ saṃbhogopanayairnṛṇām || pratikārādauṣadhādibhirupaśamanāt ādhipraśamanamavicinatanāt| idameva kriyāyogabalam ||

  26. Verse 26

    मानसेन हि दुःखेन शरीरमुपतप्यते। अयःपिण्डेन तप्तेन कुम्भसंस्थमिवोदकम् ।।

    mānasena hi duḥkhena śarīramupatapyate| ayaḥpiṇḍena taptena kumbhasaṃsthamivodakam ||

  27. Verse 27

    मानसं शमयेत्तस्माज्ज्ञानेनाग्निमिवाम्बुना। प्रशन्ते मानसे दुःखे शारीरमुपशाम्यति ।।

    mānasaṃ śamayettasmājjñānenāgnimivāmbunā| praśante mānase duḥkhe śārīramupaśāmyati ||

  28. Verse 28

    मनसो दुःखमूलं तु स्नेह इत्युपलभ्यते। स्नेहात्तु सज्जते जन्तुर्दुःखयोगमुपैति च ।। प्रागेव मानसस्य शमं कुर्वते। प्रियाक्यानैरनुकूलवचनैः। संभोगोपनयैः स्त्र्यादिसमर्पणैः। मतिमन्तो ह्यतो वैद्या इति ख. च. झ. पाठः ।।

    manaso duḥkhamūlaṃ tu sneha ityupalabhyate| snehāttu sajjate janturduḥkhayogamupaiti ca || prāgeva mānasasya śamaṃ kurvate| priyākyānairanukūlavacanaiḥ| saṃbhogopanayaiḥ stryādisamarpaṇaiḥ| matimanto hyato vaidyā iti kha. ca. jha. pāṭhaḥ ||

  29. Verse 29

    स्नेहमूलानि दुःखानि स्नेहजानि भयानि च। शोकहर्षौ तथायासः सर्वं स्नेहात्प्रवर्तते ।। स्नेहो रागः सज्जते प्रवर्तते ।।

    snehamūlāni duḥkhāni snehajāni bhayāni ca| śokaharṣau tathāyāsaḥ sarvaṃ snehātpravartate || sneho rāgaḥ sajjate pravartate ||

  30. Verse 30

    स्नेहात्कारुण्यरागौ च प्रजास्वीर्ष्यादयस्तथा। अश्रेयस्कावुभावेतौ पूर्वस्तत्र गुरुः स्मृतः ।।

    snehātkāruṇyarāgau ca prajāsvīrṣyādayastathā| aśreyaskāvubhāvetau pūrvastatra guruḥ smṛtaḥ ||

  31. Verse 31

    कोटराग्निर्यथाऽशेषं समूलं पादपं दहेत्। धर्मार्थिनं तथाऽल्पोपि रागदोषो विनाशयेत् ।।

    koṭarāgniryathā'śeṣaṃ samūlaṃ pādapaṃ dahet| dharmārthinaṃ tathā'lpopi rāgadoṣo vināśayet ||

  32. Verse 32

    विप्रयोगे न तु त्यागी दोषदर्शी समागमे। विरागं भजते जन्तुर्निर्वैरो निष्परिग्रहः ।। आयासः क्लेशः ।।

    viprayoge na tu tyāgī doṣadarśī samāgame| virāgaṃ bhajate janturnirvairo niṣparigrahaḥ || āyāsaḥ kleśaḥ ||

  33. Verse 33

    तस्मात्स्नेहं स्वपक्षेभ्यो मित्रेभ्यो धनसंचयात्। स्वशरीरसमुत्थं च ज्ञानेन विनिवर्तयेत् ।।

    tasmātsnehaṃ svapakṣebhyo mitrebhyo dhanasaṃcayāt| svaśarīrasamutthaṃ ca jñānena vinivartayet ||

  34. Verse 34

    ज्ञानान्वितेषु युक्तेषु शास्त्रज्ञेषु कृतात्मसु। न तेषु सज्जते स्नेहः पद्मपत्रेष्विवोदकम् ।। विप्रयोगे विषयेण सह वियोगे त्यागी न किंतु सत्यपि समागमे यो विषयदोषदर्शी स एव त्यागी। स एव च विरागं भजते ।।

    jñānānviteṣu yukteṣu śāstrajñeṣu kṛtātmasu| na teṣu sajjate snehaḥ padmapatreṣvivodakam || viprayoge viṣayeṇa saha viyoge tyāgī na kiṃtu satyapi samāgame yo viṣayadoṣadarśī sa eva tyāgī| sa eva ca virāgaṃ bhajate ||

  35. Verse 35

    रागाभिभूतः पुरुषः कामेन परिकृष्यते। इच्छा संजायते तस्य ततस्तृष्णा विवर्धते ।। युक्तेषु नित्यवस्तुप्राप्तये उद्युक्तेषु। कृतात्मसु ध्यानेन संस्कृतचित्तेषु। तेषु प्रसिद्धेषु स्नेहो रागो न सज्जते न सङ्गं प्राप्नोति ।।

    rāgābhibhūtaḥ puruṣaḥ kāmena parikṛṣyate| icchā saṃjāyate tasya tatastṛṣṇā vivardhate || yukteṣu nityavastuprāptaye udyukteṣu| kṛtātmasu dhyānena saṃskṛtacitteṣu| teṣu prasiddheṣu sneho rāgo na sajjate na saṅgaṃ prāpnoti ||

  36. Verse 36

    तृष्णा हि सर्वपापिष्ठा नित्योद्देगकरी नृणाम्। अधर्मबहुला चैव घोरा पापानुबन्धिनी ।।

    tṛṣṇā hi sarvapāpiṣṭhā nityoddegakarī nṛṇām| adharmabahulā caiva ghorā pāpānubandhinī ||

  37. Verse 37

    या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः। योसौ प्राणान्तिको रोगस्तां तृष्णांत्यजतः सुखम् ।। रागः रम्यवस्तुदर्शने चित्तस्योत्फुल्लता। कामस्तल्लिप्सा। इच्छा लब्धे तस्मिन् रुच्यतिशयात्पुनस्तदभिलाषः। पुनःपुनस्तल्लाभेप्यतृप्तिस्तृष्णा ।।

    yā dustyajā durmatibhiryā na jīryati jīryataḥ| yosau prāṇāntiko rogastāṃ tṛṣṇāṃtyajataḥ sukham || rāgaḥ ramyavastudarśane cittasyotphullatā| kāmastallipsā| icchā labdhe tasmin rucyatiśayātpunastadabhilāṣaḥ| punaḥpunastallābhepyatṛptistṛṣṇā ||

  38. Verse 38

    अनाद्यन्ता तु सा तृष्णा अन्तर्देहगता नृणाम्। विनाशयति भूतानि अयोनिज इवानलः ।। जीर्यतः जरामृत्युग्रस्तस्य ।।

    anādyantā tu sā tṛṣṇā antardehagatā nṛṇām| vināśayati bhūtāni ayonija ivānalaḥ || jīryataḥ jarāmṛtyugrastasya ||

  39. Verse 39

    यथैधः स्वसमुत्थेन वह्निना नाशमृच्छति। तथाऽकृतात्मा लोभेन सहजेन विनश्यति ।। अयः तप्तायःपिण्डं अनलो वह्निः ।।

    yathaidhaḥ svasamutthena vahninā nāśamṛcchati| tathā'kṛtātmā lobhena sahajena vinaśyati || ayaḥ taptāyaḥpiṇḍaṃ analo vahniḥ ||

  40. Verse 40

    राजतः सलिलादग्नेश्चोरतः स्वजनादपि। अर्थिभ्यः कालतस्तस्मान्नित्यमर्थवतां भयम्। भयमर्थवतां नित्यं मृत्योः प्राणभृतामिव ।।

    rājataḥ salilādagneścorataḥ svajanādapi| arthibhyaḥ kālatastasmānnityamarthavatāṃ bhayam| bhayamarthavatāṃ nityaṃ mṛtyoḥ prāṇabhṛtāmiva ||

  41. Verse 41

    यथा ह्याभिषमाकाशे पक्षिभिः श्वापदैर्भुवि। भक्ष्यते सलिले मत्स्यैस्तथा सर्वेण वित्तवान् ।।

    yathā hyābhiṣamākāśe pakṣibhiḥ śvāpadairbhuvi| bhakṣyate salile matsyaistathā sarveṇa vittavān ||

  42. Verse 42

    अर्थ एव हि केषांचिदनर्थं भजते नृणाम्। अर्थश्रेयसि चासक्तो न श्रेयो विन्दते नरः। तस्मादर्थागमाः सर्वे मनोमोहविवर्धनाः ।। अकृतात्मा अनिर्जितचेताः ।।

    artha eva hi keṣāṃcidanarthaṃ bhajate nṛṇām| arthaśreyasi cāsakto na śreyo vindate naraḥ| tasmādarthāgamāḥ sarve manomohavivardhanāḥ || akṛtātmā anirjitacetāḥ ||

  43. Verse 43

    कार्पण्यं दर्पमानौ च भयमुद्वेग एव च। अर्थजानि विदुः प्राज्ञा दुःखान्येतानि देहिनाम् ।।

    kārpaṇyaṃ darpamānau ca bhayamudvega eva ca| arthajāni viduḥ prājñā duḥkhānyetāni dehinām ||

  44. Verse 44

    अर्थस्योपार्जने दुःखमार्जितानां च रक्षणे। नाशे दुःखं व्यये दुःखं घ्नन्ति चैवार्थकारणात्

    arthasyopārjane duḥkhamārjitānāṃ ca rakṣaṇe| nāśe duḥkhaṃ vyaye duḥkhaṃ ghnanti caivārthakāraṇāt

  45. Verse 45

    अर्था दुःखं परित्यक्तुं पालिताश्चैव शत्रवः। दुःखेन चाधिगम्यन्ते तेषां नाशं न चिन्तयेत् ।।

    arthā duḥkhaṃ parityaktuṃ pālitāścaiva śatravaḥ| duḥkhena cādhigamyante teṣāṃ nāśaṃ na cintayet ||

  46. Verse 46

    असन्तोषपरा मूढाः संतोषं यान्ति पण्डिताः। अन्तो नास्ति पिपासायाः संतोषः परमं सुखम्। तस्मात्संतोषमेवेह परं पश्यन्ति पण्डितः ।। अर्थश्रेयसि अर्थसाध्ये श्रेयसि ज्योतिष्टोमादौ ।।

    asantoṣaparā mūḍhāḥ saṃtoṣaṃ yānti paṇḍitāḥ| anto nāsti pipāsāyāḥ saṃtoṣaḥ paramaṃ sukham| tasmātsaṃtoṣameveha paraṃ paśyanti paṇḍitaḥ || arthaśreyasi arthasādhye śreyasi jyotiṣṭomādau ||

  47. Verse 47

    अनित्यं यौवनं रूपं जीवितं रत्नसंचयः। ऐश्वर्यं प्रियसंवासो गृद्ध्येत्तत्र न पण्डितः ।।

    anityaṃ yauvanaṃ rūpaṃ jīvitaṃ ratnasaṃcayaḥ| aiśvaryaṃ priyasaṃvāso gṛddhyettatra na paṇḍitaḥ ||

  48. Verse 48

    त्यजेत स च यांस्तस्मात्तज्जान्क्लेशान्सहेत च। न हि संचयवान्कश्चिद्दृश्यते निरुपद्रवः। अतश्च धार्मिकैः पुम्भिरनीहार्थः प्रशस्यते ।। पिपासायाः तृष्णायाः ।।

    tyajeta sa ca yāṃstasmāttajjānkleśānsaheta ca| na hi saṃcayavānkaściddṛśyate nirupadravaḥ| ataśca dhārmikaiḥ pumbhiranīhārthaḥ praśasyate || pipāsāyāḥ tṛṣṇāyāḥ ||

  49. Verse 49

    धर्मार्थं यस्य वित्तेहा वरं तस्य नरीहता। प्रक्षालनाद्धि पङ्कस्य श्रेयो ह्यस्पर्शनं नृणाम् ।।

    dharmārthaṃ yasya vittehā varaṃ tasya narīhatā| prakṣālanāddhi paṅkasya śreyo hyasparśanaṃ nṛṇām ||

  50. Verse 50

    युधिष्ठिरैवमर्थेषु न स्पृहां कर्तुमर्हसि। धर्मेण यदि ते कार्यं विमुक्तेच्छो भवार्थतः ।। संचयान् अर्थान्। तज्जान् अर्थत्यागजान्। अनीहार्थः यदृच्छालब्धोऽर्थः ।।

    yudhiṣṭhiraivamartheṣu na spṛhāṃ kartumarhasi| dharmeṇa yadi te kāryaṃ vimukteccho bhavārthataḥ || saṃcayān arthān| tajjān arthatyāgajān| anīhārthaḥ yadṛcchālabdho'rthaḥ ||

  51. Verse 51

    युधिष्ठिर उवाच। नार्थोपभोगलिप्सार्थमियमर्थेप्सुता मम। भरणार्थं तु विप्राणां ब्रह्मन्काङ्क्षे न लोभतः ।। अर्थतः धनात् ।।

    yudhiṣṭhira uvāca| nārthopabhogalipsārthamiyamarthepsutā mama| bharaṇārthaṃ tu viprāṇāṃ brahmankāṅkṣe na lobhataḥ || arthataḥ dhanāt ||

  52. Verse 52

    कथं ह्यस्मद्विधो ब्रह्मन्वर्तमानो गृहाश्रमे। भरणं पालनं चापि न कुर्यादनुयायिनाम् ।।

    kathaṃ hyasmadvidho brahmanvartamāno gṛhāśrame| bharaṇaṃ pālanaṃ cāpi na kuryādanuyāyinām ||

  53. Verse 53

    संविभागो हि भूतानां सर्वेषामेव दृश्यते। तथैवापचमानेभ्यः प्रदेयं गृहमेधिना ।। अर्थोपभोगः विषयोपभोगः। अर्थेप्सुता घनेप्सुता ।।

    saṃvibhāgo hi bhūtānāṃ sarveṣāmeva dṛśyate| tathaivāpacamānebhyaḥ pradeyaṃ gṛhamedhinā || arthopabhogaḥ viṣayopabhogaḥ| arthepsutā ghanepsutā ||

  54. Verse 54

    तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता। सतामेतानि गेहेषु नोच्छिद्यन्ते कदाचन ।। दृश्यते पञ्चमहायज्ञेषु। अपचमानेभ्यः यत्यादिभ्यः ।।

    tṛṇāni bhūmirudakaṃ vākcaturthī ca sūnṛtā| satāmetāni geheṣu nocchidyante kadācana || dṛśyate pañcamahāyajñeṣu| apacamānebhyaḥ yatyādibhyaḥ ||

  55. Verse 55

    देयमार्तस्य शयनं स्थितश्रान्तस्य चासनम्। तृषितस्य च पानीयं क्षुधितस्य च भोजनम् ।।

    deyamārtasya śayanaṃ sthitaśrāntasya cāsanam| tṛṣitasya ca pānīyaṃ kṣudhitasya ca bhojanam ||

  56. Verse 56

    चक्षुर्दद्यान्मनो दद्याद्वाचं दद्याच्च सूनृताम्। उत्थाय चासनं दद्यादेष धर्मः सनातनः। प्रत्युत्थायाभिगमनं कुर्यान्न्यायेन चार्चनाम् ।।

    cakṣurdadyānmano dadyādvācaṃ dadyācca sūnṛtām| utthāya cāsanaṃ dadyādeṣa dharmaḥ sanātanaḥ| pratyutthāyābhigamanaṃ kuryānnyāyena cārcanām ||

  57. Verse 57

    अग्निहोत्रमनड्वांश्च ज्ञातयोऽतिथिवान्धवाः। पुत्रा दाराश्च भृत्याश्च निर्दहेयुरपूजिताः ।।

    agnihotramanaḍvāṃśca jñātayo'tithivāndhavāḥ| putrā dārāśca bhṛtyāśca nirdaheyurapūjitāḥ ||

  58. Verse 58

    आत्मार्थं पाचयेन्नान्नं न वृथा घातयेत्पशून्। न चैकः स्वयमश्नीयाद्विधिवर्जं न निर्वपेत् ।। तृणानि आसनार्थानि ।।

    ātmārthaṃ pācayennānnaṃ na vṛthā ghātayetpaśūn| na caikaḥ svayamaśnīyādvidhivarjaṃ na nirvapet || tṛṇāni āsanārthāni ||

  59. Verse 59

    श्वभ्यश्च श्वपचेभ्यश्च वयोभ्यश्चावपेद्भुवि। वैश्वदेवं हि नामैतत्सायं प्रातश्च दीयते ।। वृथा श्राद्यज्ञादिनिमित्तंविना ।।

    śvabhyaśca śvapacebhyaśca vayobhyaścāvapedbhuvi| vaiśvadevaṃ hi nāmaitatsāyaṃ prātaśca dīyate || vṛthā śrādyajñādinimittaṃvinā ||

  60. Verse 60

    विघसाशी भवेत्तस्मान्नित्यं चामृतभोजनः। विघसो भुक्तशेषं तु यज्ञशेषं तथाऽमृतम् ।।

    vighasāśī bhavettasmānnityaṃ cāmṛtabhojanaḥ| vighaso bhuktaśeṣaṃ tu yajñaśeṣaṃ tathā'mṛtam ||

  61. Verse 61

    चक्षुर्दद्यान्मनो दद्याद्वाचं दद्याच्च सूनृताम्। अनुव्रजेदुपासीत स यज्ञः पञ्चदक्षिणः ।।

    cakṣurdadyānmano dadyādvācaṃ dadyācca sūnṛtām| anuvrajedupāsīta sa yajñaḥ pañcadakṣiṇaḥ ||

  62. Verse 62

    यो दद्यादपरिक्लिष्टमन्नमद्वनि वर्तते। श्रान्तायादृष्टपूर्वाय तस्य पुण्यफलं महत् ।। विश्वं सर्वजातीयं प्राणिजातं देवो देवता यस्मिंस्तद्विश्वदेवम्। स्वार्थे तद्धितः। वैश्वदेवं नाम कर्म ।।

    yo dadyādaparikliṣṭamannamadvani vartate| śrāntāyādṛṣṭapūrvāya tasya puṇyaphalaṃ mahat || viśvaṃ sarvajātīyaṃ prāṇijātaṃ devo devatā yasmiṃstadviśvadevam| svārthe taddhitaḥ| vaiśvadevaṃ nāma karma ||

  63. Verse 63

    एवं यो वर्तते वृत्तिं वर्तमानो गृहाश्रमे। तस्य धर्मं परंप्राहुः कथं वा विप्र मन्यसे ।।

    evaṃ yo vartate vṛttiṃ vartamāno gṛhāśrame| tasya dharmaṃ paraṃprāhuḥ kathaṃ vā vipra manyase ||

  64. Verse 64

    शौनक उवाच। अहो बत महत्कष्टं विपरीतमिदं जगत्। येनापत्रपते साधुरसाधुस्तेन तुष्यति ।।

    śaunaka uvāca| aho bata mahatkaṣṭaṃ viparītamidaṃ jagat| yenāpatrapate sādhurasādhustena tuṣyati ||

  65. Verse 65

    शिश्नोदरकृतेऽप्राज्ञः करोति विषसं बहु। मोहरागवशाक्रान्त इन्द्रियार्थवशानुगः ।। अपरिक्लिष्टं कार्पण्यं विना। अध्वनि वर्तते मार्गस्थाय ।।

    śiśnodarakṛte'prājñaḥ karoti viṣasaṃ bahu| moharāgavaśākrānta indriyārthavaśānugaḥ || aparikliṣṭaṃ kārpaṇyaṃ vinā| adhvani vartate mārgasthāya ||

  66. Verse 66

    ह्रियते बुध्यमानोपि नरो हारिभिरिन्द्रियैः। विमूढसंज्ञो दुष्टाश्वैरुद्धान्तैरिव सारथिः ।। विघसं देवताद्युपयुक्तशेषं कामुको बहुकरोति। इन्द्रियार्थाः शब्दादयः ।।

    hriyate budhyamānopi naro hāribhirindriyaiḥ| vimūḍhasaṃjño duṣṭāśvairuddhāntairiva sārathiḥ || vighasaṃ devatādyupayuktaśeṣaṃ kāmuko bahukaroti| indriyārthāḥ śabdādayaḥ ||

  67. Verse 67

    षडिन्द्रियाणि विषयं समागच्छन्ति वै यदा। तद्रा प्रादुर्भवत्यषां पूर्वसंकल्पजं मनः ।।

    ṣaḍindriyāṇi viṣayaṃ samāgacchanti vai yadā| tadrā prādurbhavatyaṣāṃ pūrvasaṃkalpajaṃ manaḥ ||

  68. Verse 68

    मनो यस्येन्द्रियस्येह विषयान्याति सेवितुम्। वस्यौत्सुक्यं संभवति प्रवृत्तिश्चोपजायते ।। हारिभिः हरणशीलैः ।।

    mano yasyendriyasyeha viṣayānyāti sevitum| vasyautsukyaṃ saṃbhavati pravṛttiścopajāyate || hāribhiḥ haraṇaśīlaiḥ ||

  69. Verse 69

    ततः संकल्पवीर्येण कामेन विषयेषुभिः। विद्धः पतति लोभाग्नौज्योतिर्लोभात्पतङ्गवत् ।।

    tataḥ saṃkalpavīryeṇa kāmena viṣayeṣubhiḥ| viddhaḥ patati lobhāgnaujyotirlobhātpataṅgavat ||

  70. Verse 70

    ततो दारैर्विहारैश्च मोहितश्च यथेप्सया। महामोहमुखे मग्नो नात्मानमवबुध्यते ।।

    tato dārairvihāraiśca mohitaśca yathepsayā| mahāmohamukhe magno nātmānamavabudhyate ||

  71. Verse 71

    एवं पतति संसारे तासुतास्विह योनिषु। अविद्याकर्मतृष्णाभिर्भ्राम्यमाणोऽथ चक्रवत् ।।

    evaṃ patati saṃsāre tāsutāsviha yoniṣu| avidyākarmatṛṣṇābhirbhrāmyamāṇo'tha cakravat ||

  72. Verse 72

    ब्रह्मादिषु तृणान्तेषु भूतेषु परिवर्तते। जले भुवि तथाऽऽकाशे जायमानः पुनःपुनः ।।

    brahmādiṣu tṛṇānteṣu bhūteṣu parivartate| jale bhuvi tathā''kāśe jāyamānaḥ punaḥpunaḥ ||

  73. Verse 73

    अबुधानां गतिस्त्वेषा बुधानामपि मे शृणु। ये धर्मे श्रेयसि रता विमोक्षरतयो जनाः ।।

    abudhānāṃ gatistveṣā budhānāmapi me śṛṇu| ye dharme śreyasi ratā vimokṣaratayo janāḥ ||

  74. Verse 74

    तदिदं वेदवचनं कुरु कर्म त्यजेति च। तस्माद्धर्मानिमान्सर्वान्नाभिमानात्समाचरेत् ।। इन्द्रियस्येन्द्रियाणां विषयान् शब्दादीन् ।।

    tadidaṃ vedavacanaṃ kuru karma tyajeti ca| tasmāddharmānimānsarvānnābhimānātsamācaret || indriyasyendriyāṇāṃ viṣayān śabdādīn ||

  75. Verse 75

    इज्याध्ययनदानानि तपः सत्यं क्षमा दमः। अलोभ इतिमार्गोऽयं धर्ममस्याष्टविधः स्मृतः ।।

    ijyādhyayanadānāni tapaḥ satyaṃ kṣamā damaḥ| alobha itimārgo'yaṃ dharmamasyāṣṭavidhaḥ smṛtaḥ ||

  76. Verse 76

    अत्र पूर्वश्चतुर्वर्गः पितृयाणपथे स्थितः। कर्तव्यमिति यत्कार्यं नाभिमानात्समाचरेत् ।। इति च वेदवचनमित्यन्वयः। फलेच्छां विनैः समाचरेदित्यर्थः ।।

    atra pūrvaścaturvargaḥ pitṛyāṇapathe sthitaḥ| kartavyamiti yatkāryaṃ nābhimānātsamācaret || iti ca vedavacanamityanvayaḥ| phalecchāṃ vinaiḥ samācaredityarthaḥ ||

  77. Verse 77

    उत्तरो देवयानस्तु सद्भिराचरितः सदा। अष्टाङ्गेनैव मार्गेण विशुद्धात्मा समाचरेत् ।। कर्तव्यमवश्यानुष्ठेयं नित्याग्निहोत्रसंध्योपासनादि। अभिमानात्सङ्गात् ।।

    uttaro devayānastu sadbhirācaritaḥ sadā| aṣṭāṅgenaiva mārgeṇa viśuddhātmā samācaret || kartavyamavaśyānuṣṭheyaṃ nityāgnihotrasaṃdhyopāsanādi| abhimānātsaṅgāt ||

  78. Verse 78

    सम्यक्संकल्पसंबन्धात्सम्यक्चेन्द्रियनिग्रहात्। सम्यग्द्व्रतविशेषाच्च सम्यक्च गुरुसेवनात् ।। अष्टाङ्गेन वक्ष्यमाणसंकल्पसंबन्धाद्यङ्गाष्टकवता तदाचरेदिति पूर्वेण संबन्धः। विशुद्धात्मा शुद्धचित्तः ।।

    samyaksaṃkalpasaṃbandhātsamyakcendriyanigrahāt| samyagdvrataviśeṣācca samyakca gurusevanāt || aṣṭāṅgena vakṣyamāṇasaṃkalpasaṃbandhādyaṅgāṣṭakavatā tadācarediti pūrveṇa saṃbandhaḥ| viśuddhātmā śuddhacittaḥ ||

  79. Verse 79

    सम्यगाहारयोगाच्च सम्यक्चाध्ययनागमात्। सम्यक्कर्मोपसंन्यासात्सम्यक्चित्तनिरोधनात् ।।

    samyagāhārayogācca samyakcādhyayanāgamāt| samyakkarmopasaṃnyāsātsamyakcittanirodhanāt ||

  80. Verse 80

    एवं कर्माणि कुर्वन्ति संसारविजिगीषवः। रागद्वेषविनिर्मुक्ता ऐश्वर्यवशमागताः ।।

    evaṃ karmāṇi kurvanti saṃsāravijigīṣavaḥ| rāgadveṣavinirmuktā aiśvaryavaśamāgatāḥ ||

  81. Verse 81

    रुद्राः साध्यास्तथाऽऽदित्या वसवोऽथ तथाश्विनौ। योगैश्वर्येण संयुक्ता धारयन्ति प्रजा इमाः ।।

    rudrāḥ sādhyāstathā''dityā vasavo'tha tathāśvinau| yogaiśvaryeṇa saṃyuktā dhārayanti prajā imāḥ ||

  82. Verse 82

    तथा त्वमपि कौन्तेय शममास्थाय पुष्कलम्। तपसा सिद्धिमन्विच्छ योगसिद्धिं च भारत ।।

    tathā tvamapi kaunteya śamamāsthāya puṣkalam| tapasā siddhimanviccha yogasiddhiṃ ca bhārata ||

  83. Verse 83

    पितृमातृमयी सिद्धिः प्राप्ता कर्ममयी च ते। तपसा सिद्धिमन्विच्छ द्विजानां भरणाय वै ।। संकल्पो मानसं कर्म तस्य संबन्धो निरोधः ।।

    pitṛmātṛmayī siddhiḥ prāptā karmamayī ca te| tapasā siddhimanviccha dvijānāṃ bharaṇāya vai || saṃkalpo mānasaṃ karma tasya saṃbandho nirodhaḥ ||

  84. Verse 84

    सिद्धा हि यद्यदिच्छन्ति कुर्वते तदनुग्रहम्। तस्मात्तपः समास्थाय कुरुष्वात्ममनोरथम् ।।

    siddhā hi yadyadicchanti kurvate tadanugraham| tasmāttapaḥ samāsthāya kuruṣvātmamanoratham ||