Sukta 48
Mandala 9 · 5 rks
5 rks · free forever
Listen to this section
Listen at your pace. New audio may take a moment to prepare. Narration settings
Rk 1
तं त्वा॑ नृ॒म्णानि॒ बिभ्र॑तं स॒धस्थे॑षु म॒हो दि॒वः चारुं॑ सुकृ॒त्यये॑महे
Rk 2
संवृ॑क्तधृष्णुमु॒क्थ्यं॑ म॒हाम॑हिव्रतं॒ मद॑म् श॒तं पुरो॑ रुरु॒क्षणि॑म्
Rk 3
अत॑स्त्वा र॒यिम॒भि राजा॑नं सुक्रतो दि॒वः सु॒प॒र्णो अ॑व्य॒थिर्भ॑रत्
Rk 4
विश्व॑स्मा॒ इत्स्व॑र्दृ॒शे साधा॑रणं रज॒स्तुर॑म् गो॒पामृ॒तस्य॒ विर्भ॑रत्
Rk 5
अधा॑ हिन्वा॒न इ॑न्द्रि॒यं ज्यायो॑ महि॒त्वमा॑नशे अ॒भि॒ष्टि॒कृद्विच॑र्षणिः