Sukta 46
Mandala 9 · 6 rks
6 rks · free forever
Listen to this section
Uses your saved HI voice · Narration settings
Rk 1
असृ॑ग्रन्दे॒ववी॑त॒येऽत्या॑सः॒ कृत्व्या॑ इव क्षर॑न्तः पर्वता॒वृधः॑
Rk 2
परि॑ष्कृतास॒ इन्द॑वो॒ योषे॑व॒ पित्र्या॑वती वा॒युं सोमा॑ असृक्षत
Rk 3
ए॒ते सोमा॑स॒ इन्द॑वः॒ प्रय॑स्वन्तश्च॒मू सु॒ताः इन्द्रं॑ वर्धन्ति॒ कर्म॑भिः
Rk 4
आ धा॑वता सुहस्त्यः शु॒क्रा गृ॑भ्णीत म॒न्थिना॑ गोभिः॑ श्रीणीत मत्स॒रम्
Rk 5
स प॑वस्व धनंजय प्रय॒न्ता राध॑सो म॒हः अ॒स्मभ्यं॑ सोम गातु॒वित्
Rk 6
ए॒तं मृ॑जन्ति॒ मर्ज्यं॒ पव॑मानं॒ दश॒ क्षिपः॑ इन्द्रा॑य मत्स॒रं मद॑म्