Sukta 43
Mandala 9 · 6 rks
6 rks · free forever
Listen to this section
Uses your saved HI voice · Narration settings
Rk 1
यो अत्य॑ इव मृ॒ज्यते॒ गोभि॒र्मदा॑य हर्य॒तः तं गी॒र्भिर्वा॑सयामसि
Rk 2
तं नो॒ विश्वा॑ अव॒स्युवो॒ गिरः॑ शुम्भन्ति पू॒र्वथा॑ इन्दु॒मिन्द्रा॑य पी॒तये॑
Rk 3
पु॒ना॒नो या॑ति हर्य॒तः सोमो॑ गी॒र्भिः परि॑ष्कृतः विप्र॑स्य॒ मेध्या॑तिथेः
Rk 4
पव॑मान वि॒दा र॒यिम॒स्मभ्यं॑ सोम सु॒श्रिय॑म् इन्दो॑ स॒हस्र॑वर्चसम्
Rk 5
इन्दु॒रत्यो॒ न वा॑ज॒सृत्कनि॑क्रन्ति प॒वित्र॒ आ यदक्षा॒रति॑ देव॒युः
Rk 6
पव॑स्व॒ वाज॑सातये॒ विप्र॑स्य गृण॒तो वृ॒धे सोम॒ रास्व॑ सु॒वीर्य॑म्