Sukta 102
Mandala 9 · 8 rks
8 rks · free forever
Uses your saved HI voice · Narration settings
Rk 1
क्रा॒णा शिशु॑र्म॒हीनां॑ हि॒न्वन्नृ॒तस्य॒ दीधि॑तिम् विश्वा॒ परि॑ प्रि॒या भु॑व॒दध॑ द्वि॒ता
Rk 2
उप॑ त्रि॒तस्य॑ पा॒ष्यो॒३॒॑रभ॑क्त॒ यद्गुहा॑ प॒दम् य॒ज्ञस्य॑ स॒प्त धाम॑भि॒रध॑ प्रि॒यम्
Rk 3
त्रीणि॑ त्रि॒तस्य॒ धार॑या पृ॒ष्ठेष्वेर॑या र॒यिम् मिमी॑ते अस्य॒ योज॑ना॒ वि सु॒क्रतुः॑
Rk 4
ज॒ज्ञा॒नं स॒प्त मा॒तरो॑ वे॒धाम॑शासत श्रि॒ये अ॒यं ध्रु॒वो र॑यी॒णां चिके॑त॒ यत्
Rk 5
अ॒स्य व्र॒ते स॒जोष॑सो॒ विश्वे॑ दे॒वासो॑ अ॒द्रुहः॑ स्पा॒र्हा भ॑वन्ति॒ रन्त॑यो जु॒षन्त॒ यत्
Rk 6
यमी॒ गर्भ॑मृता॒वृधो॑ दृ॒शे चारु॒मजी॑जनन् क॒विं मंहि॑ष्ठमध्व॒रे पु॑रु॒स्पृह॑म्
Rk 7
स॒मी॒ची॒ने अ॒भि त्मना॑ य॒ह्वी ऋ॒तस्य॑ मा॒तरा॑ त॒न्वा॒ना य॒ज्ञमा॑नु॒षग्यद॑ञ्ज॒ते
Rk 8
क्रत्वा॑ शु॒क्रेभि॑र॒क्षभि॑र्ऋ॒णोरप॑ व्र॒जं दि॒वः हि॒न्वन्नृ॒तस्य॒ दीधि॑तिं॒ प्राध्व॒रे