Sukta 94
Mandala 8 · 12 rks
12 rks · free forever
Uses your saved HI voice · Narration settings
Rk 1
गौर्ध॑यति म॒रुतां॑ श्रव॒स्युर्मा॒ता म॒घोना॑म् यु॒क्ता वह्नी॒ रथा॑नाम्
Rk 2
यस्या॑ दे॒वा उ॒पस्थे॑ व्र॒ता विश्वे॑ धा॒रय॑न्ते सूर्या॒मासा॑ दृ॒शे कम्
Rk 3
तत्सु नो॒ विश्वे॑ अ॒र्य आ सदा॑ गृणन्ति का॒रवः॑ म॒रुतः॒ सोम॑पीतये
Rk 4
अस्ति॒ सोमो॑ अ॒यं सु॒तः पिब॑न्त्यस्य म॒रुतः॑ उ॒त स्व॒राजो॑ अ॒श्विना॑
Rk 5
पिब॑न्ति मि॒त्रो अ॑र्य॒मा तना॑ पू॒तस्य॒ वरु॑णः त्रि॒ष॒ध॒स्थस्य॒ जाव॑तः
Rk 6
उ॒तो न्व॑स्य॒ जोष॒माँ इन्द्रः॑ सु॒तस्य॒ गोम॑तः प्रा॒तर्होते॑व मत्सति
Rk 7
कद॑त्विषन्त सू॒रय॑स्ति॒र आप॑ इव॒ स्रिधः॑ अर्ष॑न्ति पू॒तद॑क्षसः
Rk 8
कद्वो॑ अ॒द्य म॒हानां॑ दे॒वाना॒मवो॑ वृणे त्मना॑ च द॒स्मव॑र्चसाम्
Rk 9
आ ये विश्वा॒ पार्थि॑वानि प॒प्रथ॑न्रोच॒ना दि॒वः म॒रुतः॒ सोम॑पीतये
Rk 10
त्यान्नु पू॒तद॑क्षसो दि॒वो वो॑ मरुतो हुवे अ॒स्य सोम॑स्य पी॒तये॑
Rk 11
त्यान्नु ये वि रोद॑सी तस्त॒भुर्म॒रुतो॑ हुवे अ॒स्य सोम॑स्य पी॒तये॑
Rk 12
त्यं नु मारु॑तं ग॒णं गि॑रि॒ष्ठां वृष॑णं हुवे अ॒स्य सोम॑स्य पी॒तये॑