Sukta 31
Mandala 8 · 18 rks
18 rks · free forever
Uses your saved HI voice · Narration settings
Rk 1
यो यजा॑ति॒ यजा॑त॒ इत्सु॒नव॑च्च॒ पचा॑ति च ब्र॒ह्मेदिन्द्र॑स्य चाकनत्
Rk 2
पु॒रो॒ळाशं॒ यो अ॑स्मै॒ सोमं॒ रर॑त आ॒शिर॑म् पादित्तं श॒क्रो अंह॑सः
Rk 3
तस्य॑ द्यु॒माँ अ॑स॒द्रथो॑ दे॒वजू॑तः॒ स शू॑शुवत् विश्वा॑ व॒न्वन्न॑मि॒त्रिया॑
Rk 4
अस्य॑ प्र॒जाव॑ती गृ॒हेऽस॑श्चन्ती दि॒वेदि॑वे इळा॑ धेनु॒मती॑ दुहे
Rk 5
या दम्प॑ती॒ सम॑नसा सुनु॒त आ च॒ धाव॑तः देवा॑सो॒ नित्य॑या॒शिरा॑
Rk 6
प्रति॑ प्राश॒व्याँ॑ इतः स॒म्यञ्चा॑ ब॒र्हिरा॑शाते न ता वाजे॑षु वायतः
Rk 7
न दे॒वाना॒मपि॑ ह्नुतः सुम॒तिं न जु॑गुक्षतः श्रवो॑ बृ॒हद्वि॑वासतः
Rk 8
पु॒त्रिणा॒ ता कु॑मा॒रिणा॒ विश्व॒मायु॒र्व्य॑श्नुतः उ॒भा हिर॑ण्यपेशसा
Rk 9
वी॒तिहो॑त्रा कृ॒तद्व॑सू दश॒स्यन्ता॒मृता॑य॒ कम् समूधो॑ रोम॒शं ह॑तो दे॒वेषु॑ कृणुतो॒ दुवः॑
Rk 10
आ शर्म॒ पर्व॑तानां वृणी॒महे॑ न॒दीना॑म् आ विष्णोः॑ सचा॒भुवः॑
Rk 11
ऐतु॑ पू॒षा र॒यिर्भगः॑ स्व॒स्ति स॑र्व॒धात॑मः उ॒रुरध्वा॑ स्व॒स्तये॑
Rk 12
अ॒रम॑तिरन॒र्वणो॒ विश्वो॑ दे॒वस्य॒ मन॑सा आ॒दि॒त्याना॑मने॒ह इत्
Rk 13
यथा॑ नो मि॒त्रो अ॑र्य॒मा वरु॑णः॒ सन्ति॑ गो॒पाः सु॒गा ऋ॒तस्य॒ पन्थाः॑
Rk 14
अ॒ग्निं वः॑ पू॒र्व्यं गि॒रा दे॒वमी॑ळे॒ वसू॑नाम् स॒प॒र्यन्तः॑ पुरुप्रि॒यं मि॒त्रं न क्षे॑त्र॒साध॑सम्
Rk 15
म॒क्षू दे॒वव॑तो॒ रथः॒ शूरो॑ वा पृ॒त्सु कासु॑ चित् दे॒वानां॒ य इन्मनो॒ यज॑मान॒ इय॑क्षत्य॒भीदय॑ज्वनो भुवत्
Rk 16
न य॑जमान रिष्यसि॒ न सु॑न्वान॒ न दे॑वयो दे॒वानां॒ य इन्मनो॒ यज॑मान॒ इय॑क्षत्य॒भीदय॑ज्वनो भुवत्
Rk 17
नकि॒ष्टं कर्म॑णा नश॒न्न प्र यो॑ष॒न्न यो॑षति दे॒वानां॒ य इन्मनो॒ यज॑मान॒ इय॑क्षत्य॒भीदय॑ज्वनो भुवत्
Rk 18
अस॒दत्र॑ सु॒वीर्य॑मु॒त त्यदा॒श्वश्व्य॑म् दे॒वानां॒ य इन्मनो॒ यज॑मान॒ इय॑क्षत्य॒भीदय॑ज्वनो भुवत्