Sukta 102
Mandala 8 · 22 rks
22 rks · free forever
Uses your saved HI voice · Narration settings
Rk 1
त्वम॑ग्ने बृ॒हद्वयो॒ दधा॑सि देव दा॒शुषे॑ क॒विर्गृ॒हप॑ति॒र्युवा॑
Rk 2
स न॒ ईळा॑नया स॒ह दे॒वाँ अ॑ग्ने दुव॒स्युवा॑ चि॒किद्वि॑भान॒वा व॑ह
Rk 3
त्वया॑ ह स्विद्यु॒जा व॒यं चोदि॑ष्ठेन यविष्ठ्य अ॒भि ष्मो॒ वाज॑सातये
Rk 4
औ॒र्व॒भृ॒गु॒वच्छुचि॑मप्नवान॒वदा हु॑वे अ॒ग्निं स॑मु॒द्रवा॑ससम्
Rk 5
हु॒वे वात॑स्वनं क॒विं प॒र्जन्य॑क्रन्द्यं॒ सहः॑ अ॒ग्निं स॑मु॒द्रवा॑ससम्
Rk 6
आ स॒वं स॑वि॒तुर्य॑था॒ भग॑स्येव भु॒जिं हु॑वे अ॒ग्निं स॑मु॒द्रवा॑ससम्
Rk 7
अ॒ग्निं वो॑ वृ॒धन्त॑मध्व॒राणां॑ पुरू॒तम॑म् अच्छा॒ नप्त्रे॒ सह॑स्वते
Rk 8
अ॒यं यथा॑ न आ॒भुव॒त्त्वष्टा॑ रू॒पेव॒ तक्ष्या॑ अ॒स्य क्रत्वा॒ यश॑स्वतः
Rk 9
अ॒यं विश्वा॑ अ॒भि श्रियो॒ऽग्निर्दे॒वेषु॑ पत्यते आ वाजै॒रुप॑ नो गमत्
Rk 10
विश्वे॑षामि॒ह स्तु॑हि॒ होतॄ॑णां य॒शस्त॑मम् अ॒ग्निं य॒ज्ञेषु॑ पू॒र्व्यम्
Rk 11
शी॒रं पा॑व॒कशो॑चिषं॒ ज्येष्ठो॒ यो दमे॒ष्वा दी॒दाय॑ दीर्घ॒श्रुत्त॑मः
Rk 12
तमर्व॑न्तं॒ न सा॑न॒सिं गृ॑णी॒हि वि॑प्र शु॒ष्मिण॑म् मि॒त्रं न या॑त॒यज्ज॑नम्
Rk 13
उप॑ त्वा जा॒मयो॒ गिरो॒ देदि॑शतीर्हवि॒ष्कृतः॑ वा॒योरनी॑के अस्थिरन्
Rk 14
यस्य॑ त्रि॒धात्ववृ॑तं ब॒र्हिस्त॒स्थावसं॑दिनम् आप॑श्चि॒न्नि द॑धा प॒दम्
Rk 15
प॒दं दे॒वस्य॑ मी॒ळ्हुषोऽना॑धृष्टाभिरू॒तिभिः॑ भ॒द्रा सूर्य॑ इवोप॒दृक्
Rk 16
अग्ने॑ घृ॒तस्य॑ धी॒तिभि॑स्तेपा॒नो दे॑व शो॒चिषा॑ आ दे॒वान्व॑क्षि॒ यक्षि॑ च
Rk 17
तं त्वा॑जनन्त मा॒तरः॑ क॒विं दे॒वासो॑ अङ्गिरः ह॒व्य॒वाह॒मम॑र्त्यम्
Rk 18
प्रचे॑तसं त्वा क॒वेऽग्ने॑ दू॒तं वरे॑ण्यम् ह॒व्य॒वाहं॒ नि षे॑दिरे
Rk 19
न॒हि मे॒ अस्त्यघ्न्या॒ न स्वधि॑ति॒र्वन॑न्वति अथै॑ता॒दृग्भ॑रामि ते
Rk 20
यद॑ग्ने॒ कानि॒ कानि॑ चि॒दा ते॒ दारू॑णि द॒ध्मसि॑ ता जु॑षस्व यविष्ठ्य
Rk 21
यदत्त्यु॑प॒जिह्वि॑का॒ यद्व॒म्रो अ॑ति॒सर्प॑ति सर्वं॒ तद॑स्तु ते घृ॒तम्
Rk 22
अ॒ग्निमिन्धा॑नो॒ मन॑सा॒ धियं॑ सचेत॒ मर्त्यः॑ अ॒ग्निमी॑धे वि॒वस्व॑भिः