Sukta 22
Mandala 7 · 9 rks
9 rks · free forever
Uses your saved HI voice · Narration settings
Rk 1
पिबा॒ सोम॑मिन्द्र॒ मन्द॑तु त्वा॒ यं ते॑ सु॒षाव॑ हर्य॒श्वाद्रिः॑ सो॒तुर्बा॒हुभ्यां॒ सुय॑तो॒ नार्वा॑
Rk 2
यस्ते॒ मदो॒ युज्य॒श्चारु॒रस्ति॒ येन॑ वृ॒त्राणि॑ हर्यश्व॒ हंसि॑ स त्वामि॑न्द्र प्रभूवसो ममत्तु
Rk 3
बोधा॒ सु मे॑ मघव॒न्वाच॒मेमां यां ते॒ वसि॑ष्ठो॒ अर्च॑ति॒ प्रश॑स्तिम् इ॒मा ब्रह्म॑ सध॒मादे॑ जुषस्व
Rk 4
श्रु॒धी हवं॑ विपिपा॒नस्याद्रे॒र्बोधा॒ विप्र॒स्यार्च॑तो मनी॒षाम् कृ॒ष्वा दुवां॒स्यन्त॑मा॒ सचे॒मा
Rk 5
न ते॒ गिरो॒ अपि॑ मृष्ये तु॒रस्य॒ न सु॑ष्टु॒तिम॑सु॒र्य॑स्य वि॒द्वान् सदा॑ ते॒ नाम॑ स्वयशो विवक्मि
Rk 6
भूरि॒ हि ते॒ सव॑ना॒ मानु॑षेषु॒ भूरि॑ मनी॒षी ह॑वते॒ त्वामित् मारे अ॒स्मन्म॑घव॒ञ्ज्योक्कः॑
Rk 7
तुभ्येदि॒मा सव॑ना शूर॒ विश्वा॒ तुभ्यं॒ ब्रह्मा॑णि॒ वर्ध॑ना कृणोमि त्वं नृभि॒र्हव्यो॑ वि॒श्वधा॑सि
Rk 8
नू चि॒न्नु ते॒ मन्य॑मानस्य द॒स्मोद॑श्नुवन्ति महि॒मान॑मुग्र न वी॒र्य॑मिन्द्र ते॒ न राधः॑
Rk 9
ये च॒ पूर्व॒ ऋष॑यो॒ ये च॒ नूत्ना॒ इन्द्र॒ ब्रह्मा॑णि ज॒नय॑न्त॒ विप्राः॑ अ॒स्मे ते॑ सन्तु स॒ख्या शि॒वानि॑ यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः