Sukta 43
Mandala 6 · 4 rks
4 rks · free forever
Listen to this section
Listen at your pace. New audio may take a moment to prepare. Narration settings
Rk 1
यस्य॒ त्यच्छम्ब॑रं॒ मदे॒ दिवो॑दासाय र॒न्धयः॑ अ॒यं स सोम॑ इन्द्र ते सु॒तः पिब॑
Rk 2
यस्य॑ तीव्र॒सुतं॒ मदं॒ मध्य॒मन्तं॑ च॒ रक्ष॑से अ॒यं स सोम॑ इन्द्र ते सु॒तः पिब॑
Rk 3
यस्य॒ गा अ॒न्तरश्म॑नो॒ मदे॑ दृ॒ळ्हा अ॒वासृ॑जः अ॒यं स सोम॑ इन्द्र ते सु॒तः पिब॑
Rk 4
यस्य॑ मन्दा॒नो अन्ध॑सो॒ माघो॑नं दधि॒षे शवः॑ अ॒यं स सोम॑ इन्द्र ते सु॒तः पिब॑