Sukta 39
Mandala 5 · 5 rks
5 rks · free forever
Listen to this section
Uses your saved HI voice · Narration settings
Rk 1
यदि॑न्द्र चित्र मे॒हनास्ति॒ त्वादा॑तमद्रिवः राध॒स्तन्नो॑ विदद्वस उभयाह॒स्त्या भ॑र
Rk 2
यन्मन्य॑से॒ वरे॑ण्य॒मिन्द्र॑ द्यु॒क्षं तदा भ॑र वि॒द्याम॒ तस्य॑ ते व॒यमकू॑पारस्य दा॒वने॑
Rk 3
यत्ते॑ दि॒त्सु प्र॒राध्यं॒ मनो॒ अस्ति॑ श्रु॒तं बृ॒हत् तेन॑ दृ॒ळ्हा चि॑दद्रिव॒ आ वाजं॑ दर्षि सा॒तये॑
Rk 4
मंहि॑ष्ठं वो म॒घोनां॒ राजा॑नं चर्षणी॒नाम् इन्द्र॒मुप॒ प्रश॑स्तये पू॒र्वीभि॑र्जुजुषे॒ गिरः॑
Rk 5
अस्मा॒ इत्काव्यं॒ वच॑ उ॒क्थमिन्द्रा॑य॒ शंस्य॑म् तस्मा॑ उ॒ ब्रह्म॑वाहसे॒ गिरो॑ वर्ध॒न्त्यत्र॑यो॒ गिरः॑ शुम्भ॒न्त्यत्र॑यः