Sukta 57
Mandala 4 · 8 rks
8 rks · free forever
Uses your saved HI voice · Narration settings
Rk 1
क्षेत्र॑स्य॒ पति॑ना व॒यं हि॒तेने॑व जयामसि गामश्वं॑ पोषयि॒त्न्वा स नो॑ मृळाती॒दृशे॑
Rk 2
क्षेत्र॑स्य पते॒ मधु॑मन्तमू॒र्मिं धे॒नुरि॑व॒ पयो॑ अ॒स्मासु॑ धुक्ष्व म॒धु॒श्चुतं॑ घृ॒तमि॑व॒ सुपू॑तमृ॒तस्य॑ नः॒ पत॑यो मृळयन्तु
Rk 3
मधु॑मती॒रोष॑धी॒र्द्याव॒ आपो॒ मधु॑मन्नो भवत्व॒न्तरि॑क्षम् क्षेत्र॑स्य॒ पति॒र्मधु॑मान्नो अ॒स्त्वरि॑ष्यन्तो॒ अन्वे॑नं चरेम
Rk 4
शु॒नं वा॒हाः शु॒नं नरः॑ शु॒नं कृ॑षतु॒ लाङ्ग॑लम् शु॒नं व॑र॒त्रा ब॑ध्यन्तां शु॒नमष्ट्रा॒मुदि॑ङ्गय
Rk 5
शुना॑सीरावि॒मां वाचं॑ जुषेथां॒ यद्दि॒वि च॒क्रथुः॒ पयः॑ तेने॒मामुप॑ सिञ्चतम्
Rk 6
अ॒र्वाची॑ सुभगे भव॒ सीते॒ वन्दा॑महे त्वा यथा॑ नः सु॒भगास॑सि॒ यथा॑ नः सु॒फलास॑सि
Rk 7
इन्द्रः॒ सीतां॒ नि गृ॑ह्णातु॒ तां पू॒षानु॑ यच्छतु सा नः॒ पय॑स्वती दुहा॒मुत्त॑रामुत्तरां॒ समा॑म्
Rk 8
शु॒नं नः॒ फाला॒ वि कृ॑षन्तु॒ भूमिं॑ शु॒नं की॒नाशा॑ अ॒भि य॑न्तु वा॒हैः शु॒नं प॒र्जन्यो॒ मधु॑ना॒ पयो॑भिः॒ शुना॑सीरा शु॒नम॒स्मासु॑ धत्तम्