Sukta 49
Mandala 4 · 6 rks
6 rks · free forever
Listen to this section
Uses your saved HI voice · Narration settings
Rk 1
इ॒दं वा॑मा॒स्ये॑ ह॒विः प्रि॒यमि॑न्द्राबृहस्पती उ॒क्थं मद॑श्च शस्यते
Rk 2
अ॒यं वां॒ परि॑ षिच्यते॒ सोम॑ इन्द्राबृहस्पती चारु॒र्मदा॑य पी॒तये॑
Rk 3
आ न॑ इन्द्राबृहस्पती गृ॒हमिन्द्र॑श्च गच्छतम् सो॒म॒पा सोम॑पीतये
Rk 4
अ॒स्मे इ॑न्द्राबृहस्पती र॒यिं ध॑त्तं शत॒ग्विन॑म् अश्वा॑वन्तं सह॒स्रिण॑म्
Rk 5
इन्द्रा॒बृह॒स्पती॑ व॒यं सु॒ते गी॒र्भिर्ह॑वामहे अ॒स्य सोम॑स्य पी॒तये॑
Rk 6
सोम॑मिन्द्राबृहस्पती॒ पिब॑तं दा॒शुषो॑ गृ॒हे मा॒दये॑थां॒ तदो॑कसा