Sukta 32
Mandala 4 · 24 rks
24 rks · free forever
Uses your saved HI voice · Narration settings
Rk 1
आ तू न॑ इन्द्र वृत्रहन्न॒स्माक॑म॒र्धमा ग॑हि म॒हान्म॒हीभि॑रू॒तिभिः॑
Rk 2
भृमि॑श्चिद्घासि॒ तूतु॑जि॒रा चि॑त्र चि॒त्रिणी॒ष्वा चि॒त्रं कृ॑णोष्यू॒तये॑
Rk 3
द॒भ्रेभि॑श्चि॒च्छशी॑यांसं॒ हंसि॒ व्राध॑न्त॒मोज॑सा सखि॑भि॒र्ये त्वे सचा॑
Rk 4
व॒यमि॑न्द्र॒ त्वे सचा॑ व॒यं त्वा॒भि नो॑नुमः अ॒स्मा॑स्माँ॒ इदुद॑व
Rk 5
स न॑श्चि॒त्राभि॑रद्रिवोऽनव॒द्याभि॑रू॒तिभिः॑ अना॑धृष्टाभि॒रा ग॑हि
Rk 6
भू॒यामो॒ षु त्वाव॑तः॒ सखा॑य इन्द्र॒ गोम॑तः युजो॒ वाजा॑य॒ घृष्व॑ये
Rk 7
त्वं ह्येक॒ ईशि॑ष॒ इन्द्र॒ वाज॑स्य॒ गोम॑तः स नो॑ यन्धि म॒हीमिष॑म्
Rk 8
न त्वा॑ वरन्ते अ॒न्यथा॒ यद्दित्स॑सि स्तु॒तो म॒घम् स्तो॒तृभ्य॑ इन्द्र गिर्वणः
Rk 9
अ॒भि त्वा॒ गोत॑मा गि॒रानू॑षत॒ प्र दा॒वने॑ इन्द्र॒ वाजा॑य॒ घृष्व॑ये
Rk 10
प्र ते॑ वोचाम वी॒र्या॒३॒॑ या म॑न्दसा॒न आरु॑जः पुरो॒ दासी॑र॒भीत्य॑
Rk 11
ता ते॑ गृणन्ति वे॒धसो॒ यानि॑ च॒कर्थ॒ पौंस्या॑ सु॒तेष्वि॑न्द्र गिर्वणः
Rk 12
अवी॑वृधन्त॒ गोत॑मा॒ इन्द्र॒ त्वे स्तोम॑वाहसः ऐषु॑ धा वी॒रव॒द्यशः॑
Rk 13
यच्चि॒द्धि शश्व॑ता॒मसीन्द्र॒ साधा॑रण॒स्त्वम् तं त्वा॑ व॒यं ह॑वामहे
Rk 14
अ॒र्वा॒ची॒नो व॑सो भवा॒स्मे सु म॒त्स्वान्ध॑सः सोमा॑नामिन्द्र सोमपाः
Rk 15
अ॒स्माकं॑ त्वा मती॒नामा स्तोम॑ इन्द्र यच्छतु अ॒र्वागा व॑र्तया॒ हरी॑
Rk 16
पु॒रो॒ळाशं॑ च नो॒ घसो॑ जो॒षया॑से॒ गिर॑श्च नः व॒धू॒युरि॑व॒ योष॑णाम्
Rk 17
स॒हस्रं॒ व्यती॑नां यु॒क्ताना॒मिन्द्र॑मीमहे श॒तं सोम॑स्य खा॒र्यः॑
Rk 18
स॒हस्रा॑ ते श॒ता व॒यं गवा॒मा च्या॑वयामसि अ॒स्म॒त्रा राध॑ एतु ते
Rk 19
दश॑ ते क॒लशा॑नां॒ हिर॑ण्यानामधीमहि भू॒रि॒दा अ॑सि वृत्रहन्
Rk 20
भूरि॑दा॒ भूरि॑ देहि नो॒ मा द॒भ्रं भूर्या भ॑र भूरि॒ घेदि॑न्द्र दित्ससि
Rk 21
भू॒रि॒दा ह्यसि॑ श्रु॒तः पु॑रु॒त्रा शू॑र वृत्रहन् आ नो॑ भजस्व॒ राध॑सि
Rk 22
प्र ते॑ ब॒भ्रू वि॑चक्षण॒ शंसा॑मि गोषणो नपात् माभ्यां॒ गा अनु॑ शिश्रथः
Rk 23
क॒नी॒न॒केव॑ विद्र॒धे नवे॑ द्रुप॒दे अ॑र्भ॒के ब॒भ्रू यामे॑षु शोभेते
Rk 24
अरं॑ म उ॒स्रया॒म्णेऽर॒मनु॑स्रयाम्णे ब॒भ्रू यामे॑ष्व॒स्रिधा॑