Sukta 30
Mandala 4 · 24 rks
24 rks · free forever
Uses your saved HI voice · Narration settings
Rk 1
नकि॑रिन्द्र॒ त्वदुत्त॑रो॒ न ज्यायाँ॑ अस्ति वृत्रहन् नकि॑रे॒वा यथा॒ त्वम्
Rk 2
स॒त्रा ते॒ अनु॑ कृ॒ष्टयो॒ विश्वा॑ च॒क्रेव॑ वावृतुः स॒त्रा म॒हाँ अ॑सि श्रु॒तः
Rk 3
विश्वे॑ च॒नेद॒ना त्वा॑ दे॒वास॑ इन्द्र युयुधुः यदहा॒ नक्त॒माति॑रः
Rk 4
यत्रो॒त बा॑धि॒तेभ्य॑श्च॒क्रं कुत्सा॑य॒ युध्य॑ते मु॒षा॒य इ॑न्द्र॒ सूर्य॑म्
Rk 5
यत्र॑ दे॒वाँ ऋ॑घाय॒तो विश्वाँ॒ अयु॑ध्य॒ एक॒ इत् त्वमि॑न्द्र व॒नूँरह॑न्
Rk 6
यत्रो॒त मर्त्या॑य॒ कमरि॑णा इन्द्र॒ सूर्य॑म् प्रावः॒ शची॑भि॒रेत॑शम्
Rk 7
किमादु॒तासि॑ वृत्रह॒न्मघ॑वन्मन्यु॒मत्त॑मः अत्राह॒ दानु॒माति॑रः
Rk 8
ए॒तद्घेदु॒त वी॒र्य१॒॑मिन्द्र॑ च॒कर्थ॒ पौंस्य॑म् स्त्रियं॒ यद्दु॑र्हणा॒युवं॒ वधी॑र्दुहि॒तरं॑ दि॒वः
Rk 9
दि॒वश्चि॑द्घा दुहि॒तरं॑ म॒हान्म॑ही॒यमा॑नाम् उ॒षास॑मिन्द्र॒ सं पि॑णक्
Rk 10
अपो॒षा अन॑सः सर॒त्सम्पि॑ष्टा॒दह॑ बि॒भ्युषी॑ नि यत्सीं॑ शि॒श्नथ॒द्वृषा॑
Rk 11
ए॒तद॑स्या॒ अनः॑ शये॒ सुस॑म्पिष्टं॒ विपा॒श्या स॒सार॑ सीं परा॒वतः॑
Rk 12
उ॒त सिन्धुं॑ विबा॒ल्यं॑ वितस्था॒नामधि॒ क्षमि॑ परि॑ ष्ठा इन्द्र मा॒यया॑
Rk 13
उ॒त शुष्ण॑स्य धृष्णु॒या प्र मृ॑क्षो अ॒भि वेद॑नम् पुरो॒ यद॑स्य सम्पि॒णक्
Rk 14
उ॒त दा॒सं कौ॑लित॒रं बृ॑ह॒तः पर्व॑ता॒दधि॑ अवा॑हन्निन्द्र॒ शम्ब॑रम्
Rk 15
उ॒त दा॒सस्य॑ व॒र्चिनः॑ स॒हस्रा॑णि श॒ताव॑धीः अधि॒ पञ्च॑ प्र॒धीँरि॑व
Rk 16
उ॒त त्यं पु॒त्रम॒ग्रुवः॒ परा॑वृक्तं श॒तक्र॑तुः उ॒क्थेष्विन्द्र॒ आभ॑जत्
Rk 17
उ॒त त्या तु॒र्वशा॒यदू॑ अस्ना॒तारा॒ शची॒पतिः॑ इन्द्रो॑ वि॒द्वाँ अ॑पारयत्
Rk 18
उ॒त त्या स॒द्य आर्या॑ स॒रयो॑रिन्द्र पा॒रतः॑ अर्णा॑चि॒त्रर॑थावधीः
Rk 19
अनु॒ द्वा ज॑हि॒ता न॑यो॒ऽन्धं श्रो॒णं च॑ वृत्रहन् न तत्ते॑ सु॒म्नमष्ट॑वे
Rk 20
श॒तम॑श्म॒न्मयी॑नां पु॒रामिन्द्रो॒ व्या॑स्यत् दिवो॑दासाय दा॒शुषे॑
Rk 21
अस्वा॑पयद्द॒भीत॑ये स॒हस्रा॑ त्रिं॒शतं॒ हथैः॑ दा॒साना॒मिन्द्रो॑ मा॒यया॑
Rk 22
स घेदु॒तासि॑ वृत्रहन्त्समा॒न इ॑न्द्र॒ गोप॑तिः यस्ता विश्वा॑नि चिच्यु॒षे
Rk 23
उ॒त नू॒नं यदि॑न्द्रि॒यं क॑रि॒ष्या इ॑न्द्र॒ पौंस्य॑म् अ॒द्या नकि॒ष्टदा मि॑नत्
Rk 24
वा॒मंवा॑मं त आदुरे दे॒वो द॑दात्वर्य॒मा वा॒मं पू॒षा वा॒मं भगो॑ वा॒मं दे॒वः करू॑ळती