Sukta 37
Mandala 3 · 11 rks
11 rks · free forever
Uses your saved HI voice · Narration settings
Rk 1
वार्त्र॑हत्याय॒ शव॑से पृतना॒षाह्या॑य च इन्द्र॒ त्वा व॑र्तयामसि
Rk 2
अ॒र्वा॒चीनं॒ सु ते॒ मन॑ उ॒त चक्षुः॑ शतक्रतो इन्द्र॑ कृ॒ण्वन्तु॑ वा॒घतः॑
Rk 3
नामा॑नि ते शतक्रतो॒ विश्वा॑भिर्गी॒र्भिरी॑महे इन्द्रा॑भिमाति॒षाह्ये॑
Rk 4
पु॒रु॒ष्टु॒तस्य॒ धाम॑भिः श॒तेन॑ महयामसि इन्द्र॑स्य चर्षणी॒धृतः॑
Rk 5
इन्द्रं॑ वृ॒त्राय॒ हन्त॑वे पुरुहू॒तमुप॑ ब्रुवे भरे॑षु॒ वाज॑सातये
Rk 6
वाजे॑षु सास॒हिर्भ॑व॒ त्वामी॑महे शतक्रतो इन्द्र॑ वृ॒त्राय॒ हन्त॑वे
Rk 7
द्यु॒म्नेषु॑ पृत॒नाज्ये॑ पृत्सु॒तूर्षु॒ श्रवः॑सु च इन्द्र॒ साक्ष्वा॒भिमा॑तिषु
Rk 8
शु॒ष्मिन्त॑मं न ऊ॒तये॑ द्यु॒म्निनं॑ पाहि॒ जागृ॑विम् इन्द्र॒ सोमं॑ शतक्रतो
Rk 9
इ॒न्द्रि॒याणि॑ शतक्रतो॒ या ते॒ जने॑षु प॒ञ्चसु॑ इन्द्र॒ तानि॑ त॒ आ वृ॑णे
Rk 10
अग॑न्निन्द्र॒ श्रवो॑ बृ॒हद्द्यु॒म्नं द॑धिष्व दु॒ष्टर॑म् उत्ते॒ शुष्मं॑ तिरामसि
Rk 11
अ॒र्वा॒वतो॑ न॒ आ ग॒ह्यथो॑ शक्र परा॒वतः॑ उ॒ लो॒को यस्ते॑ अद्रिव॒ इन्द्रे॒ह तत॒ आ ग॑हि