Sukta 27
Mandala 3 · 15 rks
15 rks · free forever
Uses your saved HI voice · Narration settings
Rk 1
प्र वो॒ वाजा॑ अ॒भिद्य॑वो ह॒विष्म॑न्तो घृ॒ताच्या॑ दे॒वाञ्जि॑गाति सुम्न॒युः
Rk 2
ईळे॑ अ॒ग्निं वि॑प॒श्चितं॑ गि॒रा य॒ज्ञस्य॒ साध॑नम् श्रु॒ष्टी॒वानं॑ धि॒तावा॑नम्
Rk 3
अग्ने॑ श॒केम॑ ते व॒यं यमं॑ दे॒वस्य॑ वा॒जिनः॑ अति॒ द्वेषां॑सि तरेम
Rk 4
स॒मि॒ध्यमा॑नो अध्व॒रे॒३॒॑ऽग्निः पा॑व॒क ईड्यः॑ शो॒चिष्के॑श॒स्तमी॑महे
Rk 5
पृ॒थु॒पाजा॒ अम॑र्त्यो घृ॒तनि॑र्णि॒क्स्वा॑हुतः अ॒ग्निर्य॒ज्ञस्य॑ हव्य॒वाट्
Rk 6
तं स॒बाधो॑ य॒तस्रु॑च इ॒त्था धि॒या य॒ज्ञव॑न्तः आ च॑क्रुर॒ग्निमू॒तये॑
Rk 7
होता॑ दे॒वो अम॑र्त्यः पु॒रस्ता॑देति मा॒यया॑ वि॒दथा॑नि प्रचो॒दय॑न्
Rk 8
वा॒जी वाजे॑षु धीयतेऽध्व॒रेषु॒ प्र णी॑यते विप्रो॑ य॒ज्ञस्य॒ साध॑नः
Rk 9
धि॒या च॑क्रे॒ वरे॑ण्यो भू॒तानां॒ गर्भ॒मा द॑धे दक्ष॑स्य पि॒तरं॒ तना॑
Rk 10
नि त्वा॑ दधे॒ वरे॑ण्यं॒ दक्ष॑स्ये॒ळा स॑हस्कृत अग्ने॑ सुदी॒तिमु॒शिज॑म्
Rk 11
अ॒ग्निं य॒न्तुर॑म॒प्तुर॑मृ॒तस्य॒ योगे॑ व॒नुषः॑ विप्रा॒ वाजैः॒ समि॑न्धते
Rk 12
ऊ॒र्जो नपा॑तमध्व॒रे दी॑दि॒वांस॒मुप॒ द्यवि॑ अ॒ग्निमी॑ळे क॒विक्र॑तुम्
Rk 13
ई॒ळेन्यो॑ नम॒स्य॑स्ति॒रस्तमां॑सि दर्श॒तः सम॒ग्निरि॑ध्यते॒ वृषा॑
Rk 14
वृषो॑ अ॒ग्निः समि॑ध्य॒तेऽश्वो॒ न दे॑व॒वाह॑नः तं ह॒विष्म॑न्त ईळते
Rk 15
वृष॑णं त्वा व॒यं वृ॑ष॒न्वृष॑णः॒ समि॑धीमहि अग्ने॒ दीद्य॑तं बृ॒हत्