Sukta 10
Mandala 3 · 9 rks
9 rks · free forever
Uses your saved HI voice · Narration settings
Rk 1
त्वाम॑ग्ने मनी॒षिणः॑ स॒म्राजं॑ चर्षणी॒नाम् दे॒वं मर्ता॑स इन्धते॒ सम॑ध्व॒रे
Rk 2
त्वां य॒ज्ञेष्वृ॒त्विज॒मग्ने॒ होता॑रमीळते गो॒पा ऋ॒तस्य॑ दीदिहि॒ स्वे दमे॑
Rk 3
स घा॒ यस्ते॒ ददा॑शति स॒मिधा॑ जा॒तवे॑दसे सो अ॑ग्ने धत्ते सु॒वीर्यं॒ स पु॑ष्यति
Rk 4
स के॒तुर॑ध्व॒राणा॑म॒ग्निर्दे॒वेभि॒रा ग॑मत् अ॒ञ्जा॒नः स॒प्त होतृ॑भिर्ह॒विष्म॑ते
Rk 5
प्र होत्रे॑ पू॒र्व्यं वचो॒ऽग्नये॑ भरता बृ॒हत् वि॒पां ज्योतीं॑षि॒ बिभ्र॑ते॒ न वे॒धसे॑
Rk 6
अ॒ग्निं व॑र्धन्तु नो॒ गिरो॒ यतो॒ जाय॑त उ॒क्थ्यः॑ म॒हे वाजा॑य॒ द्रवि॑णाय दर्श॒तः
Rk 7
अग्ने॒ यजि॑ष्ठो अध्व॒रे दे॒वान्दे॑वय॒ते य॑ज होता॑ म॒न्द्रो वि रा॑ज॒स्यति॒ स्रिधः॑
Rk 8
स नः॑ पावक दीदिहि द्यु॒मद॒स्मे सु॒वीर्य॑म् भवा॑ स्तो॒तृभ्यो॒ अन्त॑मः स्व॒स्तये॑
Rk 9
तं त्वा॒ विप्रा॑ विप॒न्यवो॑ जागृ॒वांसः॒ समि॑न्धते ह॒व्य॒वाह॒मम॑र्त्यं सहो॒वृध॑म्