Sukta 33
Mandala 10 · 9 rks
9 rks · free forever
Uses your saved HI voice · Narration settings
Rk 1
प्र मा॑ युयुज्रे प्र॒युजो॒ जना॑नां॒ वहा॑मि स्म पू॒षण॒मन्त॑रेण विश्वे॑ दे॒वासो॒ अध॒ माम॑रक्षन्दुः॒शासु॒रागा॒दिति॒ घोष॑ आसीत्
Rk 2
सं मा॑ तपन्त्य॒भितः॑ स॒पत्नी॑रिव॒ पर्श॑वः नि बा॑धते॒ अम॑तिर्न॒ग्नता॒ जसु॒र्वेर्न वे॑वीयते म॒तिः
Rk 3
मूषो॒ न शि॒श्ना व्य॑दन्ति मा॒ध्यः॑ स्तो॒तारं॑ ते शतक्रतो स॒कृत्सु नो॑ मघवन्निन्द्र मृळ॒याधा॑ पि॒तेव॑ नो भव
Rk 4
कु॒रु॒श्रव॑णमावृणि॒ राजा॑नं॒ त्रास॑दस्यवम् मंहि॑ष्ठं वा॒घता॒मृषिः॑
Rk 5
यस्य॑ मा ह॒रितो॒ रथे॑ ति॒स्रो वह॑न्ति साधु॒या स्तवै॑ स॒हस्र॑दक्षिणे
Rk 6
यस्य॒ प्रस्वा॑दसो॒ गिर॑ उप॒मश्र॑वसः पि॒तुः क्षेत्रं॒ न र॒ण्वमू॒चुषे॑
Rk 7
अधि॑ पुत्रोपमश्रवो॒ नपा॑न्मित्रातिथेरिहि पि॒तुष्टे॑ अस्मि वन्दि॒ता
Rk 8
यदीशी॑या॒मृता॑नामु॒त वा॒ मर्त्या॑नाम् जीवे॒दिन्म॒घवा॒ मम॑
Rk 9
न दे॒वाना॒मति॑ व्र॒तं श॒तात्मा॑ च॒न जी॑वति तथा॑ यु॒जा वि वा॑वृते