Sukta 26
Mandala 10 · 9 rks
9 rks · free forever
Uses your saved HI voice · Narration settings
Rk 1
प्र ह्यच्छा॑ मनी॒षाः स्पा॒र्हा यन्ति॑ नि॒युतः॑ प्र द॒स्रा नि॒युद्र॑थः पू॒षा अ॑विष्टु॒ माहि॑नः
Rk 2
यस्य॒ त्यन्म॑हि॒त्वं वा॒ताप्य॑म॒यं जनः॑ विप्र॒ आ वं॑सद्धी॒तिभि॒श्चिके॑त सुष्टुती॒नाम्
Rk 3
स वे॑द सुष्टुती॒नामिन्दु॒र्न पू॒षा वृषा॑ अ॒भि प्सुरः॑ प्रुषायति व्र॒जं न॒ आ प्रु॑षायति
Rk 4
मं॒सी॒महि॑ त्वा व॒यम॒स्माकं॑ देव पूषन् म॒ती॒नां च॒ साध॑नं॒ विप्रा॑णां चाध॒वम्
Rk 5
प्रत्य॑र्धिर्य॒ज्ञाना॑मश्वह॒यो रथा॑नाम् ऋषिः॒ स यो मनु॑र्हितो॒ विप्र॑स्य यावयत्स॒खः
Rk 6
आ॒धीष॑माणायाः॒ पतिः॑ शु॒चाया॑श्च शु॒चस्य॑ च वा॒सो॒वा॒योऽवी॑ना॒मा वासां॑सि॒ मर्मृ॑जत्
Rk 7
इ॒नो वाजा॑नां॒ पति॑रि॒नः पु॑ष्टी॒नां सखा॑ प्र श्मश्रु॑ हर्य॒तो दू॑धो॒द्वि वृथा॒ यो अदा॑भ्यः
Rk 8
आ ते॒ रथ॑स्य पूषन्न॒जा धुरं॑ ववृत्युः विश्व॑स्या॒र्थिनः॒ सखा॑ सनो॒जा अन॑पच्युतः
Rk 9
अ॒स्माक॑मू॒र्जा रथं॑ पू॒षा अ॑विष्टु॒ माहि॑नः भुव॒द्वाजा॑नां वृ॒ध इ॒मं नः॑ शृणव॒द्धव॑म्