Sukta 20
Mandala 10 · 10 rks
10 rks · free forever
Uses your saved HI voice · Narration settings
Rk 1
भ॒द्रं नो॒ अपि॑ वातय॒ मनः॑
Rk 2
अ॒ग्निमी॑ळे भु॒जां यवि॑ष्ठं शा॒सा मि॒त्रं दु॒र्धरी॑तुम् यस्य॒ धर्म॒न्त्स्व१॒॑रेनीः॑ सप॒र्यन्ति॑ मा॒तुरूधः॑
Rk 3
यमा॒सा कृ॒पनी॑ळं भा॒साके॑तुं व॒र्धय॑न्ति भ्राज॑ते॒ श्रेणि॑दन्
Rk 4
अ॒र्यो वि॒शां गा॒तुरे॑ति॒ प्र यदान॑ड्दि॒वो अन्ता॑न् क॒विर॒भ्रं दीद्या॑नः
Rk 5
जु॒षद्ध॒व्या मानु॑षस्यो॒र्ध्वस्त॑स्था॒वृभ्वा॑ य॒ज्ञे मि॒न्वन्त्सद्म॑ पु॒र ए॑ति
Rk 6
स हि क्षेमो॑ ह॒विर्य॒ज्ञः श्रु॒ष्टीद॑स्य गा॒तुरे॑ति अ॒ग्निं दे॒वा वाशी॑मन्तम्
Rk 7
य॒ज्ञा॒साहं॒ दुव॑ इषे॒ऽग्निं पूर्व॑स्य॒ शेव॑स्य अद्रेः॑ सू॒नुमा॒युमा॑हुः
Rk 8
नरो॒ ये के चा॒स्मदा विश्वेत्ते वा॒म आ स्युः॑ अ॒ग्निं ह॒विषा॒ वर्ध॑न्तः
Rk 9
कृ॒ष्णः श्वे॒तो॑ऽरु॒षो यामो॑ अस्य ब्र॒ध्न ऋ॒ज्र उ॒त शोणो॒ यश॑स्वान् हिर॑ण्यरूपं॒ जनि॑ता जजान
Rk 10
ए॒वा ते॑ अग्ने विम॒दो म॑नी॒षामूर्जो॑ नपाद॒मृते॑भिः स॒जोषाः॑ गिर॒ आ व॑क्षत्सुम॒तीरि॑या॒न इष॒मूर्जं॑ सुक्षि॒तिं विश्व॒माभाः॑