Sukta 164
Mandala 10 · 5 rks
5 rks · free forever
Listen to this section
Uses your saved HI voice · Narration settings
Rk 1
अपे॑हि मनसस्प॒तेऽप॑ क्राम प॒रश्च॑र प॒रो निर्ऋ॑त्या॒ आ च॑क्ष्व बहु॒धा जीव॑तो॒ मनः॑
Rk 2
भ॒द्रं वै वरं॑ वृणते भ॒द्रं यु॑ञ्जन्ति॒ दक्षि॑णम् भ॒द्रं वै॑वस्व॒ते चक्षु॑र्बहु॒त्रा जीव॑तो॒ मनः॑
Rk 3
यदा॒शसा॑ निः॒शसा॑भि॒शसो॑पारि॒म जाग्र॑तो॒ यत्स्व॒पन्तः॑ अ॒ग्निर्विश्वा॒न्यप॑ दुष्कृ॒तान्यजु॑ष्टान्या॒रे अ॒स्मद्द॑धातु
Rk 4
यदि॑न्द्र ब्रह्मणस्पतेऽभिद्रो॒हं चरा॑मसि प्रचे॑ता न आङ्गिर॒सो द्वि॑ष॒तां पा॒त्वंह॑सः
Rk 5
अजै॑ष्मा॒द्यास॑नाम॒ चाभू॒माना॑गसो व॒यम् जा॒ग्र॒त्स्व॒प्नः सं॑क॒ल्पः पा॒पो यं द्वि॒ष्मस्तं स ऋ॑च्छतु॒ यो नो॒ द्वेष्टि॒ तमृ॑च्छतु