Sukta 159
Mandala 10 · 6 rks
6 rks · free forever
Listen to this section
Uses your saved HI voice · Narration settings
Rk 1
उद॒सौ सूर्यो॑ अगा॒दुद॒यं मा॑म॒को भगः॑ अ॒हं तद्वि॑द्व॒ला पति॑म॒भ्य॑साक्षि विषास॒हिः
Rk 2
अ॒हं के॒तुर॒हं मू॒र्धाहमु॒ग्रा वि॒वाच॑नी ममेदनु॒ क्रतुं॒ पतिः॑ सेहा॒नाया॑ उ॒पाच॑रेत्
Rk 3
मम॑ पु॒त्राः श॑त्रु॒हणोऽथो॑ मे दुहि॒ता वि॒राट् उ॒ताहम॑स्मि संज॒या पत्यौ॑ मे॒ श्लोक॑ उत्त॒मः
Rk 4
येनेन्द्रो॑ ह॒विषा॑ कृ॒त्व्यभ॑वद्द्यु॒म्न्यु॑त्त॒मः इ॒दं तद॑क्रि देवा असप॒त्ना किला॑भुवम्
Rk 5
अ॒स॒प॒त्ना स॑पत्न॒घ्नी जय॑न्त्यभि॒भूव॑री आवृ॑क्षम॒न्यासां॒ वर्चो॒ राधो॒ अस्थे॑यसामिव
Rk 6
सम॑जैषमि॒मा अ॒हं स॒पत्नी॑रभि॒भूव॑री यथा॒हम॒स्य वी॒रस्य॑ वि॒राजा॑नि॒ जन॑स्य च