Lipi
Sign in
Classic reading room ↗

Sukta 151

Mandala 10 · 5 rks

5 rks · free forever

Listen to this section

Uses your saved HI voice · Narration settings

  1. Rk 1

    श्र॒द्धया॒ग्निः समि॑ध्यते श्र॒द्धया॑ हूयते ह॒विः श्र॒द्धां भग॑स्य मू॒र्धनि॒ वच॒सा वे॑दयामसि

  2. Rk 2

    प्रि॒यं श्र॑द्धे॒ दद॑तः प्रि॒यं श्र॑द्धे॒ दिदा॑सतः प्रि॒यं भो॒जेषु॒ यज्व॑स्वि॒दं म॑ उदि॒तं कृ॑धि

  3. Rk 3

    यथा॑ दे॒वा असु॑रेषु श्र॒द्धामु॒ग्रेषु॑ चक्रि॒रे ए॒वं भो॒जेषु॒ यज्व॑स्व॒स्माक॑मुदि॒तं कृ॑धि

  4. Rk 4

    श्र॒द्धां दे॒वा यज॑माना वा॒युगो॑पा॒ उपा॑सते श्र॒द्धां हृ॑द॒य्य१॒॑याकू॑त्या श्र॒द्धया॑ विन्दते॒ वसु॑

  5. Rk 5

    श्र॒द्धां प्रा॒तर्ह॑वामहे श्र॒द्धां म॒ध्यंदि॑नं॒ परि॑ श्र॒द्धां सूर्य॑स्य नि॒म्रुचि॒ श्रद्धे॒ श्रद्धा॑पये॒ह नः॑