Lipi
Sign in
Classic reading room ↗

Sukta 135

Mandala 10 · 7 rks

7 rks · free forever

Listen to this section

Uses your saved HI voice · Narration settings

  1. Rk 1

    यस्मि॑न्वृ॒क्षे सु॑पला॒शे दे॒वैः स॒म्पिब॑ते य॒मः अत्रा॑ नो वि॒श्पतिः॑ पि॒ता पु॑रा॒णाँ अनु॑ वेनति

  2. Rk 2

    पु॒रा॒णाँ अ॑नु॒वेन॑न्तं॒ चर॑न्तं पा॒पया॑मु॒या अ॒सू॒यन्न॒भ्य॑चाकशं॒ तस्मा॑ अस्पृहयं॒ पुनः॑

  3. Rk 3

    यं कु॑मार॒ नवं॒ रथ॑मच॒क्रं मन॒साकृ॑णोः एके॑षं वि॒श्वतः॒ प्राञ्च॒मप॑श्य॒न्नधि॑ तिष्ठसि

  4. Rk 4

    यं कु॑मार॒ प्राव॑र्तयो॒ रथं॒ विप्रे॑भ्य॒स्परि॑ तं सामानु॒ प्राव॑र्तत॒ समि॒तो ना॒व्याहि॑तम्

  5. Rk 5

    कः कु॑मा॒रम॑जनय॒द्रथं॒ को निर॑वर्तयत् कः स्वि॒त्तद॒द्य नो॑ ब्रूयादनु॒देयी॒ यथाभ॑वत्

  6. Rk 6

    यथाभ॑वदनु॒देयी॒ ततो॒ अग्र॑मजायत पु॒रस्ता॑द्बु॒ध्न आत॑तः प॒श्चान्नि॒रय॑णं कृ॒तम्

  7. Rk 7

    इ॒दं य॒मस्य॒ साद॑नं देवमा॒नं यदु॒च्यते॑ इ॒यम॑स्य धम्यते ना॒ळीर॒यं गी॒र्भिः परि॑ष्कृतः