Sukta 105
Mandala 10 · 11 rks
11 rks · free forever
Uses your saved HI voice · Narration settings
Rk 1
क॒दा व॑सो स्तो॒त्रं हर्य॑त॒ आव॑ श्म॒शा रु॑ध॒द्वाः दी॒र्घं सु॒तं वा॒ताप्या॑य
Rk 2
हरी॒ यस्य॑ सु॒युजा॒ विव्र॑ता॒ वेरर्व॒न्तानु॒ शेपा॑ उ॒भा र॒जी न के॒शिना॒ पति॒र्दन्
Rk 3
अप॒ योरिन्द्रः॒ पाप॑ज॒ आ मर्तो॒ न श॑श्रमा॒णो बि॑भी॒वान् शु॒भे यद्यु॑यु॒जे तवि॑षीवान्
Rk 4
सचा॒योरिन्द्र॒श्चर्कृ॑ष॒ आँ उ॑पान॒सः स॑प॒र्यन् न॒दयो॒र्विव्र॑तयोः॒ शूर॒ इन्द्रः॑
Rk 5
अधि॒ यस्त॒स्थौ केश॑वन्ता॒ व्यच॑स्वन्ता॒ न पु॒ष्ट्यै व॒नोति॒ शिप्रा॑भ्यां शि॒प्रिणी॑वान्
Rk 6
प्रास्तौ॑दृ॒ष्वौजा॑ ऋ॒ष्वेभि॑स्त॒तक्ष॒ शूरः॒ शव॑सा ऋ॒भुर्न क्रतु॑भिर्मात॒रिश्वा॑
Rk 7
वज्रं॒ यश्च॒क्रे सु॒हना॑य॒ दस्य॑वे हिरीम॒शो हिरी॑मान् अरु॑तहनु॒रद्भु॑तं॒ न रजः॑
Rk 8
अव॑ नो वृजि॒ना शि॑शीह्यृ॒चा व॑नेमा॒नृचः॑ नाब्र॑ह्मा य॒ज्ञ ऋध॒ग्जोष॑ति॒ त्वे
Rk 9
ऊ॒र्ध्वा यत्ते॑ त्रे॒तिनी॒ भूद्य॒ज्ञस्य॑ धू॒र्षु सद्म॑न् स॒जूर्नावं॒ स्वय॑शसं॒ सचा॒योः
Rk 10
श्रि॒ये ते॒ पृश्नि॑रुप॒सेच॑नी भूच्छ्रि॒ये दर्वि॑ररे॒पाः यया॒ स्वे पात्रे॑ सि॒ञ्चस॒ उत्
Rk 11
श॒तं वा॒ यद॑सुर्य॒ प्रति॑ त्वा सुमि॒त्र इ॒त्थास्तौ॑द्दुर्मि॒त्र इ॒त्थास्तौ॑त् आवो॒ यद्द॑स्यु॒हत्ये॑ कुत्सपु॒त्रं प्रावो॒ यद्द॑स्यु॒हत्ये॑ कुत्सव॒त्सम्