Lipi
Sign in
Classic reading room ↗

Sukta 90

Mandala 1 · 9 rks

9 rks · free forever

Listen to this section

Uses your saved HI voice · Narration settings

  1. Rk 1

    ऋ॒जु॒नी॒ती नो॒ वरु॑णो मि॒त्रो न॑यतु वि॒द्वान् अ॒र्य॒मा दे॒वैः स॒जोषाः॑

  2. Rk 2

    ते हि वस्वो॒ वस॑वाना॒स्ते अप्र॑मूरा॒ महो॑भिः व्र॒ता र॑क्षन्ते वि॒श्वाहा॑

  3. Rk 3

    ते अ॒स्मभ्यं॒ शर्म॑ यंसन्न॒मृता॒ मर्त्ये॑भ्यः बाध॑माना॒ अप॒ द्विषः॑

  4. Rk 4

    वि नः॑ प॒थः सु॑वि॒ताय॑ चि॒यन्त्विन्द्रो॑ म॒रुतः॑ पू॒षा भगो॒ वन्द्या॑सः

  5. Rk 5

    उ॒त नो॒ धियो॒ गोअ॑ग्राः॒ पूष॒न्विष्ण॒वेव॑यावः कर्ता॑ नः स्वस्ति॒मतः॑

  6. Rk 6

    मधु॒ वाता॑ ऋताय॒ते मधु॑ क्षरन्ति॒ सिन्ध॑वः माध्वी॑र्नः स॒न्त्वोष॑धीः

  7. Rk 7

    मधु॒ नक्त॑मु॒तोषसो॒ मधु॑म॒त्पार्थि॑वं॒ रजः॑ मधु॒ द्यौर॑स्तु नः पि॒ता

  8. Rk 8

    मधु॑मान्नो॒ वन॒स्पति॒र्मधु॑माँ अस्तु॒ सूर्यः॑ माध्वी॒र्गावो॑ भवन्तु नः

  9. Rk 9

    शं नो॑ मि॒त्रः शं वरु॑णः॒ शं नो॑ भवत्वर्य॒मा शं न॒ इन्द्रो॒ बृह॒स्पतिः॒ शं नो॒ विष्णु॑रुरुक्र॒मः