Sukta 74
Mandala 1 · 9 rks
9 rks · free forever
Listen to this section
Uses your saved HI voice · Narration settings
Rk 1
उ॒प॒प्र॒यन्तो॑ अध्व॒रं मन्त्रं॑ वोचेमा॒ग्नये॑ आ॒रे अ॒स्मे च॑ शृण्व॒ते
Rk 2
यः स्नीहि॑तीषु पू॒र्व्यः सं॑जग्मा॒नासु॑ कृ॒ष्टिषु॑ अर॑क्षद्दा॒शुषे॒ गय॑म्
Rk 3
उ॒त ब्रु॑वन्तु ज॒न्तव॒ उद॒ग्निर्वृ॑त्र॒हाज॑नि ध॒नं॒ज॒यो रणे॑रणे
Rk 4
यस्य॑ दू॒तो असि॒ क्षये॒ वेषि॑ ह॒व्यानि॑ वी॒तये॑ द॒स्मत्कृ॒णोष्य॑ध्व॒रम्
Rk 5
तमित्सु॑ह॒व्यम॑ङ्गिरः सुदे॒वं स॑हसो यहो जना॑ आहुः सुब॒र्हिष॑म्
Rk 6
आ च॒ वहा॑सि॒ ताँ इ॒ह दे॒वाँ उप॒ प्रश॑स्तये ह॒व्या सु॑श्चन्द्र वी॒तये॑
Rk 7
न योरु॑प॒ब्दिरश्व्यः॑ शृ॒ण्वे रथ॑स्य॒ कच्च॒न यद॑ग्ने॒ यासि॑ दू॒त्य॑म्
Rk 8
त्वोतो॑ वा॒ज्यह्र॑यो॒ऽभि पूर्व॑स्मा॒दप॑रः प्र दा॒श्वाँ अ॑ग्ने अस्थात्
Rk 9
उ॒त द्यु॒मत्सु॒वीर्यं॑ बृ॒हद॑ग्ने विवाससि दे॒वेभ्यो॑ देव दा॒शुषे॑