Sukta 50
Mandala 1 · 13 rks
13 rks · free forever
Uses your saved HI voice · Narration settings
Rk 1
उदु॒ त्यं जा॒तवे॑दसं दे॒वं व॑हन्ति के॒तवः॑ दृ॒शे विश्वा॑य॒ सूर्य॑म्
Rk 2
अप॒ त्ये ता॒यवो॑ यथा॒ नक्ष॑त्रा यन्त्य॒क्तुभिः॑ सूरा॑य वि॒श्वच॑क्षसे
Rk 3
अदृ॑श्रमस्य के॒तवो॒ वि र॒श्मयो॒ जनाँ॒ अनु॑ भ्राज॑न्तो अ॒ग्नयो॑ यथा
Rk 4
त॒रणि॑र्वि॒श्वद॑र्शतो ज्योति॒ष्कृद॑सि सूर्य विश्व॒मा भा॑सि रोच॒नम्
Rk 5
प्र॒त्यङ्दे॒वानां॒ विशः॑ प्र॒त्यङ्ङुदे॑षि॒ मानु॑षान् प्र॒त्यङ्विश्वं॒ स्व॑र्दृ॒शे
Rk 6
येना॑ पावक॒ चक्ष॑सा भुर॒ण्यन्तं॒ जनाँ॒ अनु॑ त्वं व॑रुण॒ पश्य॑सि
Rk 7
वि द्यामे॑षि॒ रज॑स्पृ॒थ्वहा॒ मिमा॑नो अ॒क्तुभिः॑ पश्य॒ञ्जन्मा॑नि सूर्य
Rk 8
स॒प्त त्वा॑ ह॒रितो॒ रथे॒ वह॑न्ति देव सूर्य शो॒चिष्के॑शं विचक्षण
Rk 9
अयु॑क्त स॒प्त शु॒न्ध्युवः॒ सूरो॒ रथ॑स्य न॒प्त्यः॑ ताभि॑र्याति॒ स्वयु॑क्तिभिः
Rk 10
उद्व॒यं तम॑स॒स्परि॒ ज्योति॒ष्पश्य॑न्त॒ उत्त॑रम् दे॒वं दे॑व॒त्रा सूर्य॒मग॑न्म॒ ज्योति॑रुत्त॒मम्
Rk 11
उ॒द्यन्न॒द्य मि॑त्रमह आ॒रोह॒न्नुत्त॑रां॒ दिव॑म् हृ॒द्रो॒गं मम॑ सूर्य हरि॒माणं॑ च नाशय
Rk 12
शुके॑षु मे हरि॒माणं॑ रोप॒णाका॑सु दध्मसि अथो॑ हारिद्र॒वेषु॑ मे हरि॒माणं॒ नि द॑ध्मसि
Rk 13
उद॑गाद॒यमा॑दि॒त्यो विश्वे॑न॒ सह॑सा स॒ह द्वि॒षन्तं॒ मह्यं॑ र॒न्धय॒न्मो अ॒हं द्वि॑ष॒ते र॑धम्