Sukta 43
Mandala 1 · 9 rks
9 rks · free forever
Listen to this section
Uses your saved HI voice · Narration settings
Rk 1
कद्रु॒द्राय॒ प्रचे॑तसे मी॒ळ्हुष्ट॑माय॒ तव्य॑से वो॒चेम॒ शंत॑मं हृ॒दे
Rk 2
यथा॑ नो॒ अदि॑तिः॒ कर॒त्पश्वे॒ नृभ्यो॒ यथा॒ गवे॑ यथा॑ तो॒काय॑ रु॒द्रिय॑म्
Rk 3
यथा॑ नो मि॒त्रो वरु॑णो॒ यथा॑ रु॒द्रश्चिके॑तति यथा॒ विश्वे॑ स॒जोष॑सः
Rk 4
गा॒थप॑तिं मे॒धप॑तिं रु॒द्रं जला॑षभेषजम् तच्छं॒योः सु॒म्नमी॑महे
Rk 5
यः शु॒क्र इ॑व॒ सूर्यो॒ हिर॑ण्यमिव॒ रोच॑ते श्रेष्ठो॑ दे॒वानां॒ वसुः॑
Rk 6
शं नः॑ कर॒त्यर्व॑ते सु॒गं मे॒षाय॑ मे॒ष्ये॑ नृभ्यो॒ नारि॑भ्यो॒ गवे॑
Rk 7
अ॒स्मे सो॑म॒ श्रिय॒मधि॒ नि धे॑हि श॒तस्य॑ नृ॒णाम् महि॒ श्रव॑स्तुविनृ॒म्णम्
Rk 8
मा नः॑ सोमपरि॒बाधो॒ मारा॑तयो जुहुरन्त आ न॑ इन्दो॒ वाजे॑ भज
Rk 9
यास्ते॑ प्र॒जा अ॒मृत॑स्य॒ पर॑स्मि॒न्धाम॑न्नृ॒तस्य॑ मू॒र्धा नाभा॑ सोम वेन आ॒भूष॑न्तीः सोम वेदः