Sukta 30
Mandala 1 · 22 rks
22 rks · free forever
Uses your saved HI voice · Narration settings
Rk 1
आ व॒ इन्द्रं॒ क्रिविं॑ यथा वाज॒यन्तः॑ श॒तक्र॑तुम् मंहि॑ष्ठं सिञ्च॒ इन्दु॑भिः
Rk 2
श॒तं वा॒ यः शुची॑नां स॒हस्रं॑ वा॒ समा॑शिराम् एदु॑ नि॒म्नं न री॑यते
Rk 3
सं यन्मदा॑य शु॒ष्मिण॑ ए॒ना ह्य॑स्यो॒दरे॑ स॒मु॒द्रो न व्यचो॑ द॒धे
Rk 4
अ॒यमु॑ ते॒ सम॑तसि क॒पोत॑ इव गर्भ॒धिम् वच॒स्तच्चि॑न्न ओहसे
Rk 5
स्तो॒त्रं रा॑धानां पते॒ गिर्वा॑हो वीर॒ यस्य॑ ते विभू॑तिरस्तु सू॒नृता॑
Rk 6
ऊ॒र्ध्वस्ति॑ष्ठा न ऊ॒तये॒ऽस्मिन्वाजे॑ शतक्रतो सम॒न्येषु॑ ब्रवावहै
Rk 7
योगे॑योगे त॒वस्त॑रं॒ वाजे॑वाजे हवामहे सखा॑य॒ इन्द्र॑मू॒तये॑
Rk 8
आ घा॑ गम॒द्यदि॒ श्रव॑त्सह॒स्रिणी॑भिरू॒तिभिः॑ वाजे॑भि॒रुप॑ नो॒ हव॑म्
Rk 9
अनु॑ प्र॒त्नस्यौक॑सो हु॒वे तु॑विप्र॒तिं नर॑म् यं ते॒ पूर्वं॑ पि॒ता हु॒वे
Rk 10
तं त्वा॑ व॒यं वि॑श्ववा॒रा शा॑स्महे पुरुहूत सखे॑ वसो जरि॒तृभ्यः॑
Rk 11
अ॒स्माकं॑ शि॒प्रिणी॑नां॒ सोम॑पाः सोम॒पाव्ना॑म् सखे॑ वज्रि॒न्त्सखी॑नाम्
Rk 12
तथा॒ तद॑स्तु सोमपाः॒ सखे॑ वज्रि॒न्तथा॑ कृणु यथा॑ त उ॒श्मसी॒ष्टये॑
Rk 13
रे॒वती॑र्नः सध॒माद॒ इन्द्रे॑ सन्तु तु॒विवा॑जाः क्षु॒मन्तो॒ याभि॒र्मदे॑म
Rk 14
आ घ॒ त्वावा॒न्त्मना॒प्तः स्तो॒तृभ्यो॑ धृष्णविया॒नः ऋ॒णोरक्षं॒ न च॒क्र्योः॑
Rk 15
आ यद्दुवः॑ शतक्रत॒वा कामं॑ जरितॄ॒णाम् ऋ॒णोरक्षं॒ न शची॑भिः
Rk 16
शश्व॒दिन्द्रः॒ पोप्रु॑थद्भिर्जिगाय॒ नान॑दद्भिः॒ शाश्व॑सद्भि॒र्धना॑नि स नो॑ हिरण्यर॒थं दं॒सना॑वा॒न्त्स नः॑ सनि॒ता स॒नये॒ स नो॑ऽदात्
Rk 17
आश्वि॑ना॒वश्वा॑वत्ये॒षा या॑तं॒ शवी॑रया गोम॑द्दस्रा॒ हिर॑ण्यवत्
Rk 18
स॒मा॒नयो॑जनो॒ हि वां॒ रथो॑ दस्रा॒वम॑र्त्यः स॒मु॒द्रे अ॑श्वि॒नेय॑ते
Rk 19
न्य१॒॑घ्न्यस्य॑ मू॒र्धनि॑ च॒क्रं रथ॑स्य येमथुः परि॒ द्याम॒न्यदी॑यते
Rk 20
कस्त॑ उषः कधप्रिये भु॒जे मर्तो॑ अमर्त्ये कं न॑क्षसे विभावरि
Rk 21
व॒यं हि ते॒ अम॑न्म॒ह्यान्ता॒दा प॑रा॒कात् अश्वे॒ न चि॑त्रे अरुषि
Rk 22
त्वं त्येभि॒रा ग॑हि॒ वाजे॑भिर्दुहितर्दिवः अ॒स्मे र॒यिं नि धा॑रय