Sukta 22
Mandala 1 · 21 rks
21 rks · free forever
Uses your saved HI voice · Narration settings
Rk 1
प्रा॒त॒र्युजा॒ वि बो॑धया॒श्विना॒वेह ग॑च्छताम् अ॒स्य सोम॑स्य पी॒तये॑
Rk 2
या सु॒रथा॑ र॒थीत॑मो॒भा दे॒वा दि॑वि॒स्पृशा॑ अ॒श्विना॒ ता ह॑वामहे
Rk 3
या वां॒ कशा॒ मधु॑म॒त्यश्वि॑ना सू॒नृता॑वती तया॑ य॒ज्ञं मि॑मिक्षतम्
Rk 4
न॒हि वा॒मस्ति॑ दूर॒के यत्रा॒ रथे॑न॒ गच्छ॑थः अश्वि॑ना सो॒मिनो॑ गृ॒हम्
Rk 5
हिर॑ण्यपाणिमू॒तये॑ सवि॒तार॒मुप॑ ह्वये स चेत्ता॑ दे॒वता॑ प॒दम्
Rk 6
अ॒पां नपा॑त॒मव॑से सवि॒तार॒मुप॑ स्तुहि तस्य॑ व्र॒तान्यु॑श्मसि
Rk 7
वि॒भ॒क्तारं॑ हवामहे॒ वसो॑श्चि॒त्रस्य॒ राध॑सः स॒वि॒तारं॑ नृ॒चक्ष॑सम्
Rk 8
सखा॑य॒ आ नि षी॑दत सवि॒ता स्तोम्यो॒ नु नः॑ दाता॒ राधां॑सि शुम्भति
Rk 9
अग्ने॒ पत्नी॑रि॒हा व॑ह दे॒वाना॑मुश॒तीरुप॑ त्वष्टा॑रं॒ सोम॑पीतये
Rk 10
आ ग्ना अ॑ग्न इ॒हाव॑से॒ होत्रां॑ यविष्ठ॒ भार॑तीम् वरू॑त्रीं धि॒षणां॑ वह
Rk 11
अ॒भि नो॑ दे॒वीरव॑सा म॒हः शर्म॑णा नृ॒पत्नीः॑ अच्छि॑न्नपत्राः सचन्ताम्
Rk 12
इ॒हेन्द्रा॒णीमुप॑ ह्वये वरुणा॒नीं स्व॒स्तये॑ अ॒ग्नायीं॒ सोम॑पीतये
Rk 13
म॒ही द्यौः पृ॑थि॒वी च॑ न इ॒मं य॒ज्ञं मि॑मिक्षताम् पि॒पृ॒तां नो॒ भरी॑मभिः
Rk 14
तयो॒रिद्घृ॒तव॒त्पयो॒ विप्रा॑ रिहन्ति धी॒तिभिः॑ ग॒न्ध॒र्वस्य॑ ध्रु॒वे प॒दे
Rk 15
स्यो॒ना पृ॑थिवि भवानृक्ष॒रा नि॒वेश॑नी यच्छा॑ नः॒ शर्म॑ स॒प्रथः॑
Rk 16
अतो॑ दे॒वा अ॑वन्तु नो॒ यतो॒ विष्णु॑र्विचक्र॒मे पृ॒थि॒व्याः स॒प्त धाम॑भिः
Rk 17
इ॒दं विष्णु॒र्वि च॑क्रमे त्रे॒धा नि द॑धे प॒दम् समू॑ळ्हमस्य पांसु॒रे
Rk 18
त्रीणि॑ प॒दा वि च॑क्रमे॒ विष्णु॑र्गो॒पा अदा॑भ्यः अतो॒ धर्मा॑णि धा॒रय॑न्
Rk 19
विष्णोः॒ कर्मा॑णि पश्यत॒ यतो॑ व्र॒तानि॑ पस्प॒शे इन्द्र॑स्य॒ युज्यः॒ सखा॑
Rk 20
तद्विष्णोः॑ पर॒मं प॒दं सदा॑ पश्यन्ति सू॒रयः॑ दि॒वी॑व॒ चक्षु॒रात॑तम्
Rk 21
तद्विप्रा॑सो विप॒न्यवो॑ जागृ॒वांसः॒ समि॑न्धते विष्णो॒र्यत्प॑र॒मं प॒दम्