Lipi
Sign in
Classic reading room ↗

Sukta 176

Mandala 1 · 6 rks

6 rks · free forever

Listen to this section

Uses your saved HI voice · Narration settings

  1. Rk 1

    मत्सि॑ नो॒ वस्य॑इष्टय॒ इन्द्र॑मिन्दो॒ वृषा वि॑श ऋ॒घा॒यमा॑ण इन्वसि॒ शत्रु॒मन्ति॒ न वि॑न्दसि

  2. Rk 2

    तस्मि॒न्ना वे॑शया॒ गिरो॒ य एक॑श्चर्षणी॒नाम् अनु॑ स्व॒धा यमु॒प्यते॒ यवं॒ न चर्कृ॑ष॒द्वृषा॑

  3. Rk 3

    यस्य॒ विश्वा॑नि॒ हस्त॑योः॒ पञ्च॑ क्षिती॒नां वसु॑ स्पा॒शय॑स्व॒ यो अ॑स्म॒ध्रुग्दि॒व्येवा॒शनि॑र्जहि

  4. Rk 4

    असु॑न्वन्तं समं जहि दू॒णाशं॒ यो न ते॒ मयः॑ अ॒स्मभ्य॑मस्य॒ वेद॑नं द॒द्धि सू॒रिश्चि॑दोहते

  5. Rk 5

    आवो॒ यस्य॑ द्वि॒बर्ह॑सो॒ऽर्केषु॑ सानु॒षगस॑त् आ॒जाविन्द्र॑स्येन्दो॒ प्रावो॒ वाजे॑षु वा॒जिन॑म्

  6. Rk 6

    यथा॒ पूर्वे॑भ्यो जरि॒तृभ्य॑ इन्द्र॒ मय॑ इ॒वापो॒ न तृष्य॑ते ब॒भूथ॑ तामनु॑ त्वा नि॒विदं॑ जोहवीमि वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम्